पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
आयुर्वेदसूत्रे

 लवणरसं विपाचयन् अस्थिधातुस्थाने स्वतेजसा भाति ॥ ४६ ॥

 इदं लवणरसवद्द्रव्यं पथ्यवर्गेषु औषधयोगकार्येषु लवणरसवद्भूरुह इति व्यवहाराभावेपि सकलरसानां धातुपोषकत्वं लवणरसेन विना पाकं कर्तुं अशक्यमिति लवणरसत्वं लवणद्रव्ये प्रसिद्धमिति भोज्ययोग्यद्रव्यजनकद्रव्यादिषु लवणरसपाकस्य कर्तुं योग्यत्वात् । अत एव अस्थिधातोर्लवणद्रव्यात्मकत्वेन लवणं समुद्रजलविकारबडवानलकार्यान्तःप्रविष्टत्वेन तद्बडवानलात्मकमिति सुप्रसिद्धमिति भावः ॥

 लवणं मेदोरोगहेतुकम् । मेदोधातुशोषकद्रव्यत्वात् । लवणरसः अस्थिधातुपोषकः अनलसजातीयद्रव्यत्वात्, सर्वरसोपकारकत्वात् । अत एव पाचकपित्तं लवणरसं विपाचयत्, अस्थिधातुस्वरूपं भजत सकलभारं वहति । लवणरसयोगद्रव्यादनं अस्थिधातुबलप्रदम् । सकलरसयोगवत्त्वेन हि सकलधातुपोषकत्वम् । अतएव लवणरसस्य षड्रसानामपि बलप्रदायकत्वम् । शुद्धरसवद्द्रव्यादनेऽपि लवणरसं विना पाच्या[१]भावात् । शुचिशब्दस्य लवणत्वाभिधाने तु लवणरसो मेदोधातुविकारकारकः, लवणाम्बुजन्यलवणरसद्रव्यत्वात् । तद्विरसद्रव्यं अस्थिधातुशोषकं भवतीत्यर्थः ॥

 ननु कषायरसवद्द्रव्यादनादजीर्णे जाते सति शुक्लधातुशोषककार्ये पवनविकारो जायते । तत्पवनप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं विधिः । तस्माच्छुक्लधातुविकारे जाते सति स्वादुरसवद्द्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते

  1. पाचकाभावात्.