पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
245
पञ्चमप्रश्नः

गतपवनविकारं हन्ति । तन्नैवाम्लरसद्रव्यं मांसधातुविकारं करोति । तद्विरसद्रव्यादनादजीर्णे जाते सति तत्तद्धातुविधिविहितामयाः प्रजायन्ते । अनिलाधिकाम्लरसद्रव्यं मज्जाधातुपोषकम् अनिलभूतादिरूपोपलम्भकाम्लरसद्रव्यत्वात् । अनिलभूतादिरूपोपलम्भकाम्लरसद्रव्यं मांसधातुविकारकारकमांसधातुशोषणोपकारकद्रव्यत्वात् । इत्यनुमानप्रमाणेन आम्लरसवदनिलद्रव्यं मज्जाधातुबलकारकं मांसधातुविकारकारकं चेत्युभयफलं प्रयच्छति तत्तज्जातीयधातुपोषकत्वं प्रतीयते । मांसधातुविरुद्धरसद्रव्यस्य मांसशोषकत्वं च प्रतीयते । एवं सकलभूतोत्पत्तिक्रमः । एवमेव सकलभूतानां संहारक्रमश्च बोद्धव्यः । अन्योन्यं यावद्धातुपोषकत्वं तदन्योन्ययोरेव धातुनाशकत्वं च ब्रूमः । रसानां धातुपोषकत्वं यत्र प्रतीयते स एव सृष्टिक्रम इति ज्ञातव्यः । एतद्रसानामेव धातुशोषणैककार्यं यत्र प्रतीयते, स एव संहारक्रम इति बोद्धव्यः । तद्वद्दोषाश्च मलाश्चालयाश्च तदन्योन्यकार्यं विशिष्टसृष्टिं सृजति । तदेव सृष्टिनाशं करोति । अत एवात्मानमात्मना सृजति । आत्मकृतनाशत्वमात्मन्येव । यत उभयोरपि धातवः रसा एव ज्ञातव्या इत्यर्थः ॥

 ननु स्वादुरसद्रव्याणि इक्षुकाण्डादीनि बहूनि सन्ति । तद्वदाम्लरसवद्भूरुहो बहवस्सन्ति । अथ स्वादुरसस्य शुक्लधातुपोषकत्वं, आम्लरसस्य मज्जाधातुपोषकत्वं वक्तुं शक्यते । तद्वत् लवणरसवद्भूरुहोऽयं भेषजयोग्य इति अदृष्टत्वात् कथं लवणरसवद्द्रव्यं धातुपोषकमिति व्यवहर्तुं शक्यत इत्यस्वरसादाह--लवणेति ।