पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
आयुर्वेदसूत्रे

 तदाम्लरसद्रव्यं मांसधातुविकारं करोति । तेन कफप्रकोपनकासशोभपाण्डुविसर्पादयस्संभवन्ति । तद्दोषजन्यामयप्रकोपनिवृत्यर्थं कटुरसवद्द्रव्यादनम् । तेन तद्दोषजन्यामयप्रकोपनिवृत्तिं कुर्वत् रसपाचकपित्तेन पच्यमानं सत् शुक्लधातुरूपं गतं पदं नः (?) तेन भ्रमणमूर्छारतिरोगादयः प्राप्नुवन्तीत्यर्थः ॥

 ननु यावद्रसवदन्नादनं कफप्रदेशहृद्गतमात्रं सत् तद्भूक्तान्नं मधुरीभूतं भवति । तत्पक्वाशयं प्रविश्य आम्लीभूतं सत् पाचकपित्तेन पच्यमानं सत् तत्तद्द्रव्यभेदेन पाकं कर्तुं न शक्नोति । मधुररसकार्यमाम्लरसविकारकार्यं च कण्ठमार्गप्रवेशानन्तरं पूर्वान्नानदनजातमधुररसं प्राप्य कफप्रदेशहृद्गतं सत् मधुररसं भजति । तदनन्तरं आम्लरसविकारं कुर्वन् पक्वाशयं प्रविश्य पाकान्तरमधिगम्य तद्रसान्तरं भजति । अतिमधुररसद्रव्यं कथं शुक्लधातुप्रवर्धकमित्यस्वरसादाह--आम्लेति ।

 आम्लरसं विपाचयन् मज्जाधातु[१]स्थाने स्वतेजसा भाति ॥ ४५ ॥

 आम्लरसद्रव्यं पाचयन् यावदन्नस्य भुक्तस्य प्रथमद्रव्यनिष्ठतत्तद्विधिविहितगुणान्प्रयच्छति । कालपाकजन्योपाधिवशात् तद्रसान्तरं भजन्नपि औपाधिकरसगुणान्न प्रयच्छति । सर्वरससंसर्गयुक्तान्नादनत्वेऽपि तत्पाचकपित्तं तत्तद्रसवद्द्रव्यं एकदा विभज्य पचति । स एव रसः स्वेतररसगुणाधीनफलं प्रयच्छति । तादृशाम्लरसद्रव्यं मज्जाधातुत्वेन प्रवर्धते । तद्धातु

  1. मेदोधातु--B.