पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
247
पञ्चमप्रश्नः

मज्जाधातुविकारकारकपवनप्रकोपो जायते । तादृशपचनप्रकोपनिवृत्यर्थं आम्लरसद्रव्यादनं विधीयते । (लवणरसद्रव्यादनादजीर्णे जाते सति), तिक्तरसद्रव्यादनादजीर्णे जाते सति च पवनप्रकोपो जायते । तत्प्रकोपनिवृत्त्यर्थं लवणरसद्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते सति पवनप्रकोपो जायते । पित्तविकारशुक्लधातुपोषणं करोति । तत्र मूर्छाभ्रमतन्द्रारुचिसर्वाङ्गतोदारतयो जायन्ते । एतद्गुणाविर्भावकपवनपित्तप्रकोपहेतुकरसविरसादनादजीर्णे जाते सति तत्र द्वन्द्वदोषगुणाविर्भावो भवति । तत्र स्वादुरसद्रव्यादनं निवर्तकं भवति । तिक्तरसद्रव्यादनकार्यं अप्रयोजकं स्यादित्यस्वरसादाह--तिक्तेति ।

 तिक्तरसं विपाचयन्[१] मेदोधातुस्थाने स्वतेजसा भाति ॥ ४७ ॥

 पाचकपित्तं तिक्तरसं विपाचयत् मेदोधातुगतं पित्तविकारं हरत् तत्स्थाने स्वतेजसा पाचकपित्तजन्यतेजसा स्वयमेव भाति । तिक्तरसादनादजीर्णे जाते सति तज्जन्यरोगोऽस्थिधातुशोषं करोति । तत्पित्तविरुद्धलवणरसेन पित्तप्रकोपो भवतीत्यर्थः ॥

 ननु आम्लरसवद्द्रव्यादनादजीर्णे जाते सति कफप्रकोपो दृश्यते । तत्प्रकोपनिवृत्त्यर्थं कटुरसद्रव्यादनं विधिः । आम्लरसविशिष्टगन्धवद्द्रव्यत्वं पृथिवीत्वावच्छेदकम् । पृथिवी अब्द्रव्यजन्या सार्द्रद्रव्यत्वात् । तज्जन्यत्वेन शीतत्वं गुरुत्वम् । ए

  1. प्रचालयन्.