पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
226
आयुर्वेदसूत्रे

तद्वर्णभेदमवश्यं विज्ञाय तदा तद्विरसार्थजन्यामपित्तसंस्पर्शात् तत्सिरामार्गगतामृतं तत्पद्माधिष्ठितधातुशोषणं करोति । तत्प्रतीकारकमपि भवति । सोऽयमसाध्यरोग इति विज्ञेयम् ।

 विरुद्धाहारदोषप्रयुक्तसामज्वरज्ञापकजङ्घापद्मस्थावर्णबोधकत्रिंशत्सिरावृतनाभ्यावृतचक्रपद्मचतुस्सिरावृतरोमराजिहृत्पद्मचतुस्त्रिंशत्सिरावृतहृदयपद्मं च टवर्गपञ्चकवर्णात्मकपदाभिव्यञ्जकेतरवर्णसाजात्याभावज्ञानविषयकं रसाजीर्णविरसाधिक्यविरुद्धरसजन्यदोषाधिक्यवत्त्वात् यन्नैवं तन्नैवं, इत्यनुमित्या विरुद्धामविशिष्टसामज्वरं जङ्घापद्मनाभ्यावृतपद्मरोमराजिपार्श्वपद्महृदयपद्मानि जङ्घापद्मस्थवर्णप्रयुक्तकवर्गपञ्चकज्ञापकोवर्णैपधगवर्णात्मकपदसमूहवाक्यजन्यज्ञानं जङ्घापद्मावलम्बकविंशतिसिरावबोधकनाभ्यावृतपद्मावलम्बकत्रिंशत्सिरावबोधकरोमराजिपार्श्वाधारकद्विद्विसिरावृतवर्णबोधकहृदयपद्मस्थावलम्बकचतुस्त्रिंशत्सिरावृतवर्णबोधकसकलसिरासंस्पर्शवशात् वेदनासहितरूक्षोपसमर्थं दह्यते । नाभ्यावृतचक्रपद्मस्य वृत्तावृतप्रदेशत्वात् । तत्र ज्वरः ज्वलयति । कुक्षौ च तद्वदेव प्रतिभाति । हृदयपद्ममपि ज्वलयति । दाहं करोति । भ्रमोऽपि भवति । तस्मादेतल्लक्षणलक्षितत्वात् स रोगी जीवति । अयं सामज्वरः पित्तदोषप्रकोपजन्यः, पित्तदोषप्रकोपकार्यकत्वात् । तत्तत्पद्मावलम्बकसिरारन्ध्रगतामृतस्य रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसंस्पर्शवशात् जङ्घापद्मप्रदेशं ज्वलयति । नाभ्यावृतपद्मप्रदेशश्च तद्वदेव दह्यते । हृदयपद्मप्रदेशे च तथैव दुःखं करोति । तत्पद्मगतवर्णविकारज्ञापकपदार्थात्मकविषमरससंस्कारव्याप्तवर्णामृतपोषकद्रव्यत्वाद्दाहं करोति । मूर्च्छामापादयति । स एव दोषज्वरः विभ्रमदोष इति व्यवह्रियते । ऋवर्णजनकमूरुपद्मं च तवर्गपञ्चकपञ्चाशत्सिरावृतस्तनद्वयपद्मं