पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
225
पञ्चमप्रश्नः

जायते तदा आमरसः स्वादुरसजाततान्द्रिकदोषनामकरोगाकृतिज्वरं ज्वलयति । रसाजीर्णविरसाधिकविरुद्धरसाजीर्णजातत्वात् । तद्धि स्वादुरसः रसाजीर्णरोगः तान्द्रिकदोषः । स तदधीनरसविरसः संग्रहजातरोगत्वात् पवनगतिवशात् आमविरससंग्रहसंसर्गाज्जायते । तत्र अमृतसंपर्कः पोषको भवति । पवनगत्याधारकाजीर्णजनकसरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनस्य सगन्धिसन्धिदोषप्रयुक्तसामज्वरज्ञापकपादपद्मस्थावर्णोपधगबीजपार्श्वमेढ्रपृष्ठप्रदेशगतकवर्गपञ्चकवर्णसमूहपदव्यञ्जकेतरवर्णोच्चारणपदगतिसाजात्याभावज्ञानविषयकं भवितुमर्हति । रसाजीर्णविरसाधिकविरुद्धरसजन्यदोषाधिक्यवत्त्वात् । यन्नैवं तन्नैवमिति । सन्धिगतदोषप्रयुक्तसामज्वरपादबीजपार्श्वमेढपृष्ठप्रदेशक्रमात् अवर्णोपगतकवर्गपञ्चकात्मकपदज्ञापकचतुस्त्रिंशत्षत्रिंशत्सिरासंस्पर्शवशात् नाभिशूलपादशोभाङ्गवेदनाबलोपद्रवज्ञापककफप्रणवतापान्तरदोषप्रयुक्तसामज्वरज्ञापकजानुपद्मस्थायिपवर्णोपधपृष्ठप्रदेशजठरनाभिपद्मगतचवर्गपञ्चकवर्णपदाभिव्यञ्जकेतरवर्णसाजात्याभिज्ञानविषयकं रसाजीर्णविरसाधिक्यविरुद्धरसजन्यदोषाधिक्यवत्त्वात् अयमान्तरदोषयुक्तसामज्वरः जानुपृष्ठप्रदेशनाभिपद्मगतजानुपद्मगतेवर्णबोधकचवर्गपञ्चकचतुस्त्रिंशत्सिरासंस्पर्शवशात् दाहविदाहविविधमोहयातनातिशिरःकम्पकरातिसारहिक्कातिश्वासादिविगुणविशिष्टान्तरदोषप्रयुक्तसामज्वरः ज्वलयति । सर्वधातुमार्गं दशदिनपर्यन्तं धातुषु सञ्चार्य प्राणान्वियोजयति । तस्मादान्तरदोषोऽयमिति व्यवह्रियते ।

 अयमान्तरदोषः जानुपद्मगतेवर्णबोधकपृष्ठपार्श्वगतनाभिप्रदेशस्थेवर्णोपधचवर्गवर्णपञ्चकात्मकपदार्थावबोधक वर्णसमूहपदकदम्बकवाक्ये चवर्गोचितवर्णेतरेभ्यो भिन्नघोषात्मकवाक्यं श्रावयति ।

 AYURVEDA
29