पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
227
पञ्चमप्रश्नः

च त्रिंशत्सिरावृतकण्ठदेशपद्मं च षोडशसिरावृतग्रीवान्तस्स्थितपद्मं च पवनगतिधारकसिरारन्ध्रमार्गं रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसिरासंस्पर्शवशात् जातदोषः सिराङ्गदोषयुक्तस्सामज्वरः पञ्चदशदिवसपर्यन्तं धातुमार्गेषु संचरन् तत्प्रदेशस्थितपद्मप्रतापकामयत्वात् सदोषसिरागतसर्वाङ्गगतज्वरनिवृत्त्या रसधातुरसाजीर्णविरससंस्पर्शवशात् स रसः धातुविकारो भूत्वा शीताङ्गं करोति । ऋ षवर्णजनकश्रोणिप्रदेशपद्मं त्रिंशत्सिरावृतं पफवर्णबोधकषोडशसिरावृतपद्मं च बभवर्णावलम्बकपञ्चाशत्सिरावृतपद्मं च वर्णोद्वचनप्रलापनकरम् । सामज्वरः अयं प्रलापदोष इति व्यवह्रियते । चतुर्दशदिनपर्यन्तं ज्वरावृत्तिः, दोषप्रकोपकालावधिः । एवर्णजनककटिप्रदेशगतचतुस्सिरावृतं सत् यवरलवर्णानामुपधाभूतं भवद्द्विसिरावृतयवर्णाधिष्ठितरसबन्धनपद्मं च षोडशसिरावृतरेफवर्णज्ञापकोष्ठपद्मप्रदेशं च लवर्णबोधकद्विसिरावृतगन्धवाहपद्मं च रसाजीर्णविरसाधिकविरुद्धरसजन्यदोषाधिक्यवशात् द्विसिरावृतयवर्णज्ञापकरसबन्धनपद्मस्य षोडशसिरावृतरेफवर्णज्ञापकोष्ठप्रदेशपद्मस्य विकारं कुर्वन् कर्णकुब्जदोषविकारात्मकः बहिरेव ज्वलयन् ज्वरस्सामजातः ।

 एककारणजन्यसामग्रीजातज्वरः तत्तद्वर्णाधिष्ठिततत्तत्पद्मावलम्बकसिरासंस्पर्शवशात् तत्तद्वर्णज्ञानभेदविषयकज्ञानं तत्तद्दोषयुक्तसामज्वरभेदविषयकपूर्वकं तत्तद्वर्णाधिष्ठितपद्मावलम्बकसामविषयजन्यसिरासंस्पर्शभेदजन्यज्ञानविषयकत्वात्, यन्नैवं तन्नैवं यथा घट इत्यनुमानप्रमाणेन वर्णभेदज्ञानविज्ञानानुभवस्य दोषजन्यज्वरज्ञानविषयज्ञानानुभववत्त्वादित्यर्थः ।

 ननु सर्वे रोगाः आमरसविरसजातामयाजीर्णविरसविषमात् जातरोगकार्याः एकसामग्रीजन्यसामज्वरसमयभेदात् नानारूपा