पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
आयुर्वेदसूत्रे

 सूत्रस्थानवचनस्यापीदमेव तात्पर्यम् । तथाहि अव्यभिचरितत्वं व्याप्तेरवच्छेदकम् । यत्र स्वादुरसवत्त्वं तत्र पवननिवर्तकत्वं इत्येवमाकारेण व्याप्तिग्रहानन्तरं अनुमितौ प्रवृत्तिः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपनिवर्तकः, जलभूम्यात्मकावयवग्रस्तत्वात् उर्वारुकफलरसवत् । एतदनुमानेनापि एकस्वादुरसस्य पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः ।

 ननु आम्लरसवद्द्रव्ये कालपाकवशात् माधुर्ये जाते सति स आम्लरस एव भवति । विरसद्रव्यादनं विकारकारकम् । तद्वदेव द्विरसवद्द्रव्यमिति वक्तुं शक्यते । स पवननिवर्तकरसः कथं स्यादित्यस्वरसादाह-- मधुरेति ।

 मधुरातिमधुरं क्रमाद्वातपित्तघ्नौ कफं कुरुतः ॥

 मधुरत्वं नाम मधुररसवद्द्रव्यातिरिक्तस्वादुरसवद्द्रव्यं पवननिवर्तकम् तत्कालवशात् मधुरीभूतं भवति । तत्स्वादुरसवद्द्रव्यं पित्तप्रकोपनिवर्तकं, तद्विरसवद्द्रव्यं न भवति । एकरसजातिविशिष्टद्रव्यत्वात् एकरसद्रव्यमेवेति । आम्लरसवद्द्रव्यत्वजातिविशिष्टद्रव्यं कालपाकजोपाधिकं मधुररसवद्द्रव्यं भवतीति यदा प्रतीयते तदा तद्विरुद्धरसवद्द्रव्यं न भवति, तद्योग्यकालातीतद्रव्यभावद्रव्यत्वात् । तत्र विरसवद्द्रव्यातीतकालत्वमुपाधिरितिमधुररसवद्द्रव्यं तस्मादेवातिमधुररसवद्द्रव्यं पित्तप्रकोपनिवर्तकं भवतीत्यर्थः । आम्लरसवद्द्रव्यजातिविशिष्टैकरसवद्द्रव्यस्य पवननिवर्तकत्वमात्रे चरितार्थत्वात् पवनव्यतिरिक्तदोषनिवर्तकद्रव्याभावद्रव्यत्वात् इत्यत आह--आम्लेति ।

 आम्लात्याम्लौ च तथा ॥ ५ ॥

 आम्लरसजातिविशिष्टद्रव्यस्य पाककालवशात् अत्याम्लरसे जाते सति तस्य अन्यदोषनिवर्तकत्वं वक्तुं न शक्यते ।