पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
207
पञ्चमप्रश्नः

एकरसजातीयद्रव्यत्वात् । तस्मात्पवननिवर्तकत्वमेव सुप्रसिद्धमिति तात्पर्यम् ।

 लवणरसवद्द्रव्यस्यापि तथात्वादित्यत आह--लवणेति ।

 लवणं पवनं हन्ति । कफपित्तकरणम् ॥ ६ ॥

 तिक्तोषणकषायरसप्रतीतेरेवाभावात् क्षारवद्द्रव्यत्वाच्च पित्तप्रकोपकारकं भवतीत्यर्थः ।

 ननु लवणरसस्य पवनप्रकोपकारकत्वं वक्तुमुचितम् । कफप्रकोपकारकमिति वक्तुं नोपयुज्यते । क्षारद्रव्यत्वाच्च पवननिवर्तकं भवेदित्यस्वरसादाह-- हीनेति ।

 हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ॥ ७ ॥

 स्वादुरसगुणवद्द्रव्यजन्यरसः लवणरसः हीनलवणरसो भवति । ततोऽधिकलवणरसः सिन्धुदेशोद्भवलवणरसः अम्लरसाधिक्यद्रव्यजन्यत्वात् । बडवानलसंयोगवज्जलजन्यलवणरसद्रव्यत्वात्कफनिवर्तकत्वं ब्रूमः ।

 नभ आदित्यभूतशरीरजन्यतिक्तरसस्य कफदोषप्रकोपनिवर्तकत्वं वक्तुं नभोऽनिलद्रव्यजन्यत्वादेव तिक्तरसस्य पवनप्रकोपकारकत्वं कफपित्तरोगनिवर्तकत्वं च व्याचष्टे-- तिक्त इति ।

 तिक्तः कफपित्तं हन्ति मारुतं कुरुते ॥ ८ ॥

 तिक्त इति नभोऽनिलभूजन्यतिक्तरसः आकाशस्य निरवयवद्रव्यत्वात्, वायोश्च निरवयवद्रव्यत्वात् उभाभ्यां जातशरीरं तिक्तरसवद्भवति । तिक्तरसद्रव्यादनं कफप्रकोपनिवृत्तिं करोति । यत्प्रतिपादितं तत्सर्वं सम्यगेव प्रतिपादितम् ।