पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
205
पञ्चमप्रश्नः

ननिवर्तकत्वासम्भवात् । सामुद्रजं तु न तथा । स्वादुरसत्वं जलद्रव्यस्यावच्छेदकम् । तथा सति सामुद्रजलवणं तु जलस्य स्वभावनिष्ठस्वादुरसस्य तत्रैवान्तर्भावात् लवणरसविशिष्टभूद्रव्येण जलनिष्ठस्वादुरसस्याभिपूरितत्वात् । तर्हि तथा सति अत्स्ति चेदुपलभ्येत । अनुपलभ्यमानत्वात् तन्नास्तीति न वक्तव्यम् । लवणविशिष्टयोग्यद्रव्यं व्यञ्जनादिद्रव्ये रुचितया प्रतीयते । स्वादुरुचिरेतत्स्वादुतया प्रतीतेति व्यवहर्तुं शक्यत एवेत्यर्थः । काश्चिद्भुवः लवणरसविशिष्टा भवन्ति । काश्चिद्भुवः स्वादुरसविशिष्टा भवन्ति, तत्तद्भूमिजलकूपादौ तथा दृष्टत्वात् । यत्रयत्र लवणरसोपलब्धिः तत्रतत्र ताद्दशभूमिजन्यत्वं तत्रोपाधिः। स्वादुजलविशिष्टकूपजन्यजलगुणस्वादुरसस्य प्रतीतत्वात् तत्र लवणरसजनकभूमित्वाभावविशिष्टभूजन्यलवणत्वस्य तत्र विद्यमानत्वात् । तत्र स्वादुरसप्रतीतेः वक्तुं शक्यत्वात् । सैन्धवदेशजन्यलवणरसविशिष्टद्रव्यस्य शुद्धभूजन्यत्यात् आम्लरसवत्त्वं भूमेरवच्छेदकम् । तत्रतत्र द्रव्यजन्यत्वादेव पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः । तत्र द्विरसार्थभूतद्वयद्रव्यगुणविशिष्टत्वात् तत्र द्विरसार्थप्रवृत्तिः पवननिवर्तिकेत्यर्थः ।

 रसहीनार्थ इति रसहीनद्रव्यं पारदादिद्रव्यम् । तत्र औषधादिरसानां सर्वदा सर्वकालेऽप्रतीतत्वात् । तत्र पवननिवर्तकत्वं सर्वजनसिद्धं सर्वशास्त्रमतसिद्धम् पारद इत्युपलक्षणम् । रसोऽवरलोहादिसाधारणमहारस इति पारदशब्देन सर्वं संगृह्यते । अस्मिन्पारदद्रव्ये रसादय आविर्भूता भवन्ति । हीनरसवत्त्वं त्वन्यद्रव्यस्य विरेककारित्वं सुप्रसिद्धम् । तस्य गुणस्य पवननिवर्तकत्वस्य सुप्रसिद्धत्वादिति बहवः ॥