पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
201
चतुर्थप्रश्नः

कम् । नीरोगशरीरं सर्वानन्दहेतुकम् । आनन्दज्ञानहेतुकम् । शब्दस्पर्शरूपरसगन्धाः आत्मविषयज्ञापकाः इन्द्रियाधारभूतत्वात् । यन्नैवं तन्नैवं यथा घट इति । इदं नीरोगशरीरं योगधारणसाधनम्, तत्त्वज्ञानमनोविषयकात्माधिष्ठितशरीरत्वात् चैतन्याधिष्ठितशरीरवत् । सर्वपदार्थतत्त्वज्ञानं मोक्षहेतुकं, हेयार्थोपायव्यतिरिक्तोपादेयज्ञानहेतुकत्वात् । इदं नीरोगशरीरं सर्वपदार्थज्ञानानुभवपूर्वकं रोगनिवर्तकद्रव्यादनसाध्यज्ञानपूर्वकत्वात् । आयुर्वेदचतुःप्रश्नप्रतिपादितार्थः एतदनुमानचतुष्टयाधीनः उक्तशास्त्रप्रतिपादितार्थज्ञानपूर्वकत्वात् ॥

इत्यायुर्वेदस्य चतुर्थप्रश्नस्य भाष्यं योगानन्दनाथ-

कृतं सुप्रसिद्धं महाजनसम्मतं लोकोपकारकं

प्रतिसूत्रव्याख्यानपूर्वकं अयुर्वेदभाष्यं

सम्पूर्णम्.


 AYURVEDA
26