पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
आयुर्वेदसूत्रे

 ननु श्वासोच्छ्वासानिलात्मककुण्डल्याधारभूतकटिप्रदेशगतपद्मं सर्वेप्राणाधारकं शिरस्स्थितामृतप्रवाहालवालोपजीव्यरूपत्वात् अमृतप्रवाहालवालपरिपूर्णकार्यहेतुभूतत्वात् । तस्माद्योगधारणवशात् धातुपोषणं भवेदित्यस्वरसादाह-कटीति ।

 कटिप्रदेशगतं कायाधारकम् ॥ ६५ ॥

 कटिप्रदेशगतं पद्मं चतुस्सिरावृतं ओवर्णार्णोत्पादकभूतपाणिपादाभ्यां चलनात्मककार्यहेतुभूतत्वेन गतागतोपायकार्यकारकयाथात्म्यकत्वात् तदेव शरीरधारकं भवतीत्यर्थः । न तु प्राणाधारहेतुकपवनमात्राधारकत्वात् सर्ववर्णाधारकपद्मवत् ।

 ननु आयुर्वेदार्थज्ञानं चतुर्विधपुरुषार्थसाधकयोगधारणकार्यहेतुकं ईश्वरसाक्षात्कारानुभवस्य हेतुभूतत्वात् । ईश्वरस्सुप्रीतो भूत्वा तस्य मनोवाञ्छादिकं फलमेव ददाति । तस्माद्योगसाधनं विहाय तत्तद्विरसद्रव्यादनेन तद्धेतुभूतामयान्सम्पाद्य तन्निवर्तककार्यकारणेन किमधिकफलं लभ्यत इत्याह-- नाभेरिति ।

 नाभेरधस्स्थितं कुण्डल्यादिभूतं पञ्चसहस्रसिरावृतं शतदळपद्मं प्रजायते ॥ ६६ ॥

 नाभेरधस्स्थितं जठरानलपद्मं तयोर्मध्यगतं भवति । तत्पञ्चसहस्रसिरावृतम् । सर्ववर्णाधारकपद्मानामादिभूतम् । सप्तधात्वाधारात्मकम् । पञ्चभूतात्मकं च । तच्छतदळपद्मं अविरुद्धरसद्रव्यादनेन अविकारं भूत्वा तत्तत्सारद्रव्यैः शिरःकमलस्थामृतं मुहुर्मुहुः प्रजनयत् वर्तते । विकाराभाववत्पवनगत्या तच्छतदळपद्मसन्तर्पणेन सप्तधातवः पुष्णन्ति । रसायनादनेन वा, रोगधारणाद्वा, पथ्यान्नादनेन वा , शरीरमविकारं कुर्वत् बहुकालजीवनं लभ्यत इत्यर्थः । अतश्शरीरसंरक्षणमेव सर्वपुरुषार्थसाध