पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आयुर्वेदे पञ्चमप्रश्नः.


गुहान्तरनिवासिनीं गुरुकृपाकटाक्षोदयैः
सहायमनुचिन्तयन्सरसिजेषु षट्सु क्रमात् ।
सहासमभिनर्तयन्सततमष्टवाग्वादिनीं
महात्रिपुरसुन्दरीमिह मुहुर्मुहुर्भावये ॥

 ननु नाभेरधस्स्थितशतदळपद्मं प्राणाधारकं सर्वेन्द्रियाधारभूतं च । तत्पञ्चसहस्रसिरावृतपद्मं शिरःकमलस्थामृतमाहृत्य पवनेन पूरितत्वात् आयुरभिवृद्धिकारकमित्युक्तम् । अतस्त्रयो दोषा अविकृताश्चेत् तत्पद्ममेव सकलश्रेयसां हेतुभूतमिति वक्तुं शक्यते । शुद्धरसवद्द्रव्यादनं दोषाणां सम्यग्गतिकारकं भवति । विरसद्रव्यादनं विकारकारकं भवति, तत्तत्प्रदेशस्थितदोषादिविज्ञानं विना तद्ज्ञानविषयकज्ञानग्राहकत्वस्यासम्भवात् । शुद्धरसवद्द्रव्यगुणाः शुद्धधातुवर्धकाः । विरुद्धद्रव्यगुणाविकारकारकाः । अतएव दोषस्थानं तत्स्वरूपं च व्याचष्टे--नाभेरिति ।

 नाभेरधस्तादूर्ध्वं हृदि स्थितवातपित्तकफदोषास्समस्ता असमस्ता असमग्रा अन्योन्यं ते आमयोत्पादकाः ॥ १ ॥

 नाभेरधस्स्थितः पवनः । तदूर्ध्वप्रदेशः नाभेरूर्ध्वस्थानम् । तत्पित्तदोषस्याकरो भवति । तदुपरि हृदयप्रदेशः कफदोषस्य स्थानं भवति । एतत्सर्वं सर्वपदार्थगुणागुणज्ञानं च दोषस्वरूपज्ञानहे