पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
163
चतुर्थप्रश्नः

 इतःपरं अष्टविधोदरामयस्य सङ्ख्या--

 श्वासखासभ्रमविदाहतिमिरत्वक्पलिततनुरेतोधातुसिराजातरसः कफः कफं करोति ॥ २४ ॥

 मांसधातोश्च मेदोधातुजनकत्वात् तद्विकारे सति श्वासखासभ्रमविदाहत्वक्तनुतत्सिराजातसारकफः कफं करोति । कफदोषप्रकोपनिवर्तकं तिक्तोषणकषायरसविरसद्रव्यादनम् । कफोदरामयहेतुकं कफप्रदेशस्थानव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारमेदोधातुशोषकं, पवनपित्तप्रकोपजनकरसविरसातिरिक्तमेदोधातुजनकशोषकरसविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः ।

 ननु कषायतिक्तमधुररसाः पित्तप्रकोपनिवर्तकाः । तद्विरसाः पित्तप्रकोपकारकाः । स्वाद्वम्ललवणरसाः पवनप्रकोपनिवर्तकाः । तद्विरसाः पवनप्रकोपकारकाः । वातपित्तयोः स्वादुरसविरसद्रव्यं वातपित्तप्रकोपकारकम् । रसविरसजन्यपवनप्रकोपे सति तद्विषयरोगे द्वन्द्वप्रकोपो भवति । स्वादुरसविरसस्य वातपित्तप्रकोपहेतुकत्वात् । द्वित्रिविधरसजन्यरोगप्रसक्तिर्यत्र दृश्यते तत्र स्वादुरसविरसद्रव्यादनं द्वन्द्वरूपकोत्पादकमित्याह--पवनेति ।

 पवनपित्तप्रकोपजनकद्वित्रिरसजातानुसरित उक्तोभयलक्षणयस्तवातपित्तोदरामयो ज्ञेयः ॥ २५

 अस्यार्थः---

 पवनपित्तप्रकोपकारकद्रव्यं तद्रसविरसादनजन्यं तदन्य रसाजन्यत्वे सति तद्रसजन्यत्वात् यन्नैवं तन्नैवं यथा घटः ।