पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
162
आयुर्वेदसूत्रे

विवर्णत्वं च लक्षणं भवतीत्यर्थः । सर्वशरीरव्याप्यपवनस्य विकारग्रस्तत्वात् । सर्वशरीराङ्गवेदनाभावात् कथमेकदेशवेदना इत्याकांक्षायां यावद्विरसादनजन्यसरः यावत्सिराप्रदेशेषूपलभ्यते तत्रायं नियमः । शङ्कासमाधानं च कृतं-- सर्वशरीरसञ्चारितपवनस्य विकारस्य सर्वशरीरवेदनाभावज्ञानमेव सिराप्रदेशसञ्चारात् तत्तदङ्गे नीरोगत्वं प्रतीयते । चिकित्साकार्यं तत्तदङ्गेष्वेव तत्प्रतीकारद्रव्यादनेन तद्विरुद्धरसादनजन्यदोषनिवृत्तेः न दोषप्रकोपं निराकृत्य सुखं भूयादित्यर्थः ।

 केचिद्विरुद्धरसजन्याद्भिः सिराभ्यन्तररन्ध्रमार्गेषु पूर्णप्रदेशत्वात् विवर्णित्वं विरसाम्यत्वं च ज्ञाप्यते । तेन पवनप्रकोपनिवर्तकरसविरसादनजन्यमुदरामयमिति ज्ञातुं शक्यत एवेत्यर्थः । पित्तोदरामयहेतुकानिदानद्रव्यजन्यलक्षणानि निरूप्यन्ते--

 मूर्छादाहभ्रमतृष्णारुचिज्वराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् । प्रकोपनिवर्तककषायतिक्तस्वादुरसविरसद्रव्यादनं पित्तप्रदेशव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारकमांसधातुशोषकं, पवनदोषप्रकोपजनकरसविरसातिरिक्तमांसधातुशोषकविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया मांसधातुशोषकजन्यमांससारः पित्तोदरामयहेतुकः जठरानलाजीर्णधातुसारद्रव्यत्वात् । तेन मुर्च्छाऽपि जायते । तद्धातुशोषवशात् दाहो भवति । धातुसारस्य इतरपदार्थस्पर्शनाद्भ्रमो भवति । तेन जठरानलस्थलनिरसनात् बहिः प्रज्वलनात् ज्वरो भवति । तत्सारातिप्रदर्शनात् तेन रागो भवति । मांसधातोश्च निर्गतरसत्वात् पैत्त्यं प्रतीयते । एतादृशलक्षणलक्षितः पित्तोदरामयोऽयमिति व्याख्यातम् ।