पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
161
चतुर्थप्रश्नः

 तावत्सिरागतप्रदेशभेदात् श्वयथुबोधकम् ॥ २२ ॥

 वातप्रदेशावलम्बकसिराविकारे सति उक्तरीत्या वातोदरामयो जायते । तथा पित्तप्रदेशावलम्बकसिराविकारे सति पित्तोदरं जायते । कफप्रदेशावलम्बकसिराविकारे सति कफोदरं जायते । तत्तद्दोषहेतुकसिराणां कार्यं एव द्वन्द्वदोष इति दोषद्वयजन्यास्त्रयः --पवनपित्तदोषजन्योदरामय एकः । कफवचनदोषजन्योदरामय एकः । पित्तकफजन्योदरामय एकः । त्रिदोषजन्योदरामय एकः । सर्वं मिळित्वाऽष्टविधरोगा जाताः ।

 तावत्सिरागतेति--तत्तद्विरुद्धरसविरसजातसिरामार्गगतपवनगतितिरोधानादनले मन्दे सति तेनाजीर्णत्वं तदवच्छेदकम् । तत्तत्प्रदेशभेददोषत्रयाश्रयादुदररोगस्य हेतुबोधकत्वमेव तत्तदवच्छेदकं भवतीत्यर्थः । पित्तप्रदेशभेदस्थितसिराविकारः कथं ज्ञातुं शक्यते पित्तोदरामयज्ञाने सति तस्य निवर्तकेन निवर्तयितुं शक्यत्वादित्याशयं मनसि निधायाह--पवनेति ।

 पवनप्रकोपहेतुकरूक्षातिशीतललघ्वतिवेदनारुचिविवर्णविरसास्यतन्द्रामूर्छादाहभ्रमतृष्णाज्वरातिसाराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् ॥ २३ ॥

 रूक्षगुणत्वं--सिरामार्गरन्ध्रेषु पवनातिगत्या तत्तदङ्गेषु उष्णोपलब्धिरुत्पद्यते । तत्र तस्य पवनविकारस्य रूक्षत्वमवच्छेदकम् । यत्र पवनस्य अल्पगत्या सिरामार्गरन्ध्रेषु पवनगतिरोधनं दृश्यते तत्रातिवेदना जायते । तद्वदेव विरसास्यत्वं

 AYURVEDA
21