पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
आयुर्वेदसूत्रे

पवनरोगस्तु स्वाद्वम्लविरसजन्यः तदन्यरोगकार्याहेतुकत्वे सति तद्रोगकार्यजनकद्रव्यत्वात् इति व्यतिरेकानुमानेन निर्णेतुं शक्यत्वात् । पवनप्रकोपनिवर्तकः स्वाद्वम्ललवणरसः । तद्विरसजन्य उदरामयः । पित्तप्रकोपनिवर्तकः कषायतिक्तस्वादुरसः । तद्विरसः पित्तप्रकोपकारकः । तस्मादुभयदोषप्रकोपजनकस्य स्वादुरसविरसद्रव्यादनत्वात् स एव द्विदोषप्रकोपको भवति । द्वित्रिविधरसजातरोगौ पवनपित्तप्रकोपजातोदरामयौ । तन्निदानं तत्तल्लक्षणलक्षिताद्ज्ञातव्यमित्यर्थः ।

 ननु स्वाद्वम्ललवणरसादीनां विरसत्वं सूत्रे प्रतीयते । स विरसः पवनपित्तप्रकोपकारक इत्युक्तम् । एवं सति कषायतिक्तस्वादुरसानां विरसत्वं अस्मिन्सुत्रे प्रतीयते । स विरसः पित्तप्रकोपकारको भवतीत्युक्तम् । इदं नोपपद्यते । विरसत्वं नाम दोषप्रकोपकविरुद्धरसवद्द्रव्यं भवति । तद्रसद्रव्यादनं कथं दोषत्रयोपकारकं कालवशाज्जाततद्व्यतिरिक्तरसस्य गुणातिरिक्तगुणवत्परिपूर्णद्रव्येष्वेव तथा प्रतीतत्वात् । तत्र सूत्रवचनं--

मधुरं श्लेष्मलं प्रायः जीर्णाच्छालियवादृते ।
मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात् ॥
प्रायोऽम्लं पित्तजननं दाडिमामलकादृते ।
अपथ्यं लवणं प्रायः चक्षुषोऽन्यत्र सैन्धवात् ॥
तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम् ।
ऋतेऽभृतापटीलीभ्यां शुण्ठीकृष्णारसोनतः ।
कषायं प्रायशश्शीतं स्तम्भनं चाभयामृते ॥"[१]


  1. अष्टाङ्ग.सूत्र. X 33-35.