पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
139
तृतीयप्रश्नः

निर्गुणब्रह्मणः करचरणाद्यवयवाभावात् न जगत्स्वरूपत्वं वक्तुं शक्यते । तथा श्रुतौ तस्त्वरूपं प्रतिपाद्यते--

एतं मनोमयमात्मानमुपसङ्क्रामति ।
एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।

एतच्छ्रुत्यनुसारेण जगस्त्वरूपत्वं ब्रह्मणः प्रतिपाद्यते, परब्रह्मणः निर्गुणत्वं प्रतिपाद्यते । शुद्धनिर्गुणपक्षे योगिनामप्यगोचरत्वेन समाधिरेव न स्यात् । किं च मनसः आत्मगोचरत्वानुपपत्तिश्च । जगतोऽनित्यत्वेन तस्याप्यनित्यत्वप्रसङ्गात्, इति नाशङ्कनीयम्, जीवात्मनो मायाशबलितत्वेन तथा प्रतीतेः । अतस्तु मायानिवृत्तिपर्यन्तं वस्तुभेदोऽस्ति । सर्वथा यस्य समाधिना माया न निवर्तते तावत्पर्यन्तं वस्तुभेदो नास्ति, तत्समाधिना मायानिवृत्तेः । यदा मनस आत्मसाक्षात्कारोऽस्ति तदा आत्मनो मनोविषकत्वस्य वक्तुं शक्यत्वादित्यर्थः । यदा जीवात्मनि मायानिवृत्तिरुपलभ्यते तस्य परब्रह्म जगदाकारेण परिणमति । अयं घट इत्यत्र घटज्ञानविषयकत्वमिव निर्गुणब्रह्म मनोविषयकं भवति । सैव प्रमा भवति । अत एवोक्तं "सा स्मृता" इति । प्रकृतिरेव स्मृतेत्यर्थः । सर्वेषां मोक्षहेतुस्समाधिः । तस्य सर्वेषामसम्भावितत्वात् तत्प्रमाफलकसामग्र्या अभावाच्च । तेषां मधुररसवद्द्रव्यादनस्य सात्विकगुणप्रदायकत्वात् सात्विकगुणस्समाधिहेतुः, राजसतामसगुणजनकाम्लोषणरसव्यतिरिक्तसात्विकगुणहेतुमधुररसजन्यत्वात् । तस्मान्मधुररस एव समाधिहेतुरित्यत आह-- मधुरेति ।

 मधुररसो रसासृग्गतपवनाविकृतमधुप्रवोहात्साहोदयः पूरयन् अङ्गुष्ठं च समाश्रितः ॥ ८७ ॥