पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
140
आयुर्वेदसूत्रे

 मधुररसस्तु रसासृग्धातुचरपवनस्य अविकारं कुर्वन् कुण्डलीस्थितः श्वासोच्छ्वासाभ्यां शिरःकमलस्थामृतमाहृत्य आपादमस्तकं तर्पयन् इडामार्गगमनेन पवनेन कुम्भकं कृत्वा अङ्गुष्ठपर्यन्तं सञ्चार्य तत्तदङ्गं प्रसिञ्चेदित्यर्थः ।

 ननु कला प्रबला सती मधुरसजन्यपवनस्य श्वासोच्छ्वासानिलाभ्यां शिरस्स्थितामृतमाहृत्य शिरस्सन्तर्पणं विधत्त इति वक्तव्यम् । कला अबला सती तेन आपादमस्तकसन्तर्पणेन धातुपोषणं कथं विधत्त इत्यस्वरसादाह-- तत्रेति ।

 तत्र स्थितकला दशदलकमलं विकासयन्ती प्रचलति ॥ ८८ ॥

 कुण्डल्युद्भवपित्तकलाधारदशदळपद्मं विकासयन्ती अमृतं विसृजतीत्यर्थः ।

 ननु पवनस्तु शिरःकमलस्थामृतमाहृत्य धातुसन्तर्पणं करोतीत्युक्तम् । इदं तु समाधिसामग्रीसम्पादनप्रकरणम् । समाधिफलं तु आत्मसाक्षात्कारानुभवरूपम् । तत्सामग्री शरीरविकाराभावकार्यं सम्पादयति । तेन आत्मसाक्षात्कारो लभ्यत इत्यस्वरसं ज्ञापयन् अवतारान्तरमाह--अङ्गुष्ठेति ।

 अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ॥ ८९ ॥

  [१]ईश्वरस्सर्वस्य जगतश्शरीरं वहति ॥ ९० ॥

 अमृतेनापादमस्तकं सन्तर्पणं रोगाभावकार्यसम्पादकसामग्रीप्रतिपादितशरीरदार्ढ्यजन्यं समाधिकार्यहेतुकत्वात्, यन्नैवं तन्नैवं

  1. ईश्वरस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् । शरीरं वहति । A & B.