पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
138
आयुर्वेदसूत्रे

 [१]सुखप्रकाशोद्रेकाच्चिच्छक्तिविषयकस्स आनन्दः ॥[२]

 सुखानन्दानुभवार्थोऽपि यत्सुप्ते सति प्रकाश्यते स एवानन्दो भवति । निर्विचारभाव्यमनोद्रेकस्य हेतुर्भवति । तस्माच्चिच्छक्तिविषयकः चित्स्वरूपज्ञानशक्तिविषयकः आनन्दो भवतीत्यर्थः ।

 ननु परब्रह्मणः निर्गुणत्वेऽपि स एव गुणवान्भवति । निर्गुणत्वं नाम निरवयवत्वस्य अवच्छेदकत्वम् । आत्मनोऽपि निर्गुणत्वात् मनसस्तद्गोचरत्वं वक्तुं न शक्यते । निर्गुणत्वस्य निरवयवद्रव्यत्वात्, मनसोऽपि निर्गुणत्वात्, इन्द्रियत्वेन आत्मविषयकज्ञानग्राहकत्वं वक्तुमशक्यत्वात्, इति आत्मनः अगोचरत्वादेव इन्द्रियाणामपि तत्प्राप्यत्वासंभवेन मनसोऽप्यप्रयोजकत्वापत्तिरित्यत आह--अस्मिन्निति ।

 अस्मिन्ग्राह्यसत्यसत्तामात्रविषयकत्वेन समाधिः सा स्मृता ॥ ८६ ॥

 अस्मिन्ब्रह्मणि ग्रहीतुं योग्यो जीवः तस्य परमात्मविषयकत्वेन ब्रह्मसत्ता स्वयं जगस्त्वरूपकारणत्वेन प्रकाश्यत इति सत्यं ब्रह्म मनसोऽप्यविषयो भवति । गुणरहितब्रह्मणः मनोग्राह्यत्वस्य वक्तुमशक्यत्वात् । सत्तेति सत्तामात्रविषयकं ज्ञानमुपलभ्यते । आत्मना सह मनस्समाधीयत इति समाधिः सा स्मृता ।

 ननु निर्गुणब्रह्मणः जगत्कारकत्वं वक्तुमयोग्यमिति चेत्, न,

  1. सुखप्रकाशमानभाव्यमनोद्रेका-- A & B.
  2. एतदुपरि 'रजस्तमोवैशारद्यान्तःकरणसत्वमनोद्रेकात्सानन्दः' इत्याधिकं सूत्रं A B. कांशयोः दृश्यते. तच्च न व्याख्यातं भाष्यकृता.