पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
69
द्वितीयप्रश्नः

कार्यं वर्णोच्चारणहेतुपूर्वकं तत्तद्वर्णग्रहणीकलाषोडशकैकफलमात्रकार्यत्वात् श्रोत्रान्तस्स्थितसिरासंबन्धकरणेन ग्रहणीकलायाः शब्दबोधककार्यहेतुकत्वं व्यपदिश्यत इत्यर्थः । पादपद्ममारभ्य कर्णशष्कुलीकृतपद्मपर्यन्तस्थितवर्णानां क्षेत्रान्तस्स्थितसिरासंबन्धकार्यकारणं सप्तशतसङ्ख्यापूर्वकानां सिराणां आवेध्यत्वं विधिरिति ज्ञाप्यते । किं च देहधारकाष्टाशीतिसिरा न वेध्याः सिरासङ्कीर्णग्रन्थिकृतक्षुद्रवक्रग्रन्थिषु स्थिताश्च रक्तविमोचनकरणे न योग्या इत्यर्थः । ग्रहणीकलायाः रोगाभावकार्यहेतुकत्वं अविरुद्धरसादनाज्जातकर्मानुसारेण पाचकपित्ताख्या ग्रहणीकला वातपित्तकफैर्जुष्टानुबोधिकानुस्वारान् सवर्णान् सुबलान् अकारादिक्षकारान्तवर्णान् स्वस्य चापरस्य च बोधयितुं समर्था भवन्तीत्यर्थः ॥

 यदि विरुद्धरसादनाज्जाताजीर्णात् अनिलोऽजीर्णः तथा सति दोषगतयो विरुद्धा विकारकाः सत्यः शरीरं पीडयन्ति । यत्तदुद्बोधकं रसादनानुसारेण विरुद्धबोधकत्वं विवर्णज्ञापकत्वं अबलत्वं स्वरहीनत्वं तत्तद्वर्णेषूपलभ्यते । तत्तद्वर्णाधिष्ठितस्थलं विकारभूतमिति विज्ञाय तत्तन्निवर्तककार्यकरणं विधिरिति ।

येनारोग्यं भवेद्यस्य भवेद्यत्तद्बलं तथा ।
तदेव भेषजं सौख्यं भवेत्तेनैव तत्तदा ॥

इति उक्तत्वात् । येन केन प्रकारेण तन्निवर्तनं कारयेदिदित्यर्थः । श्रोत्रोपलब्धवर्णात्मकशब्दः सिरान्यदोषगतिक्रियाजन्यहेतुवत् अन्याहेतुकत्वे सति तद्धेतुजन्यत्वात् घटवत् । एतदनुमानेन सर्ववर्णात्मकशब्दानां सिरान्यदोषगतिक्रियाजन्यत्वं भासते । त्रयाणां कारणत्वं सङ्घे सङ्घे शक्तिः न त्वेकैकस्येति