पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
70
आयुर्वेदसूत्रे

प्रतिपादितम् । ननु सिराणां शरीरयन्त्रधारणप्रयोजककार्यहेतुकत्वं ब्रूमः । सशब्दोत्पादककार्यहेतुभूतत्वस्य अन्यथासिद्धत्वात् । दोषगतिप्रकोपेन च रोगसम्भवात् । तथा हि विरुद्धरसादनादजीर्णे सति यावत्कारणाधिक्यजाताः तत्तद्रोगकार्यहेतुकाः सशब्दोपलम्भकान्यहेतुकाः । तत्तद्रोगनिवृत्यर्थं तत्तत्प्रदेशसिरागतासृग्विमोचनेन तत्तद्धेतुभूतरोगनिवर्तनस्य दृष्टत्वात् । सिरान्यगतरोगस्य तन्निष्ठासृग्विमोचननिवर्तककार्यस्य कार्यकारणभावः सूच्यते । करणस्य क्रियाविशेषवैलक्षण्यमात्रप्रतिपादकत्वात् । तत्र वचनम्--

सिराविधिश्शल्यविधिश्शस्त्रक्षाराग्निकर्म च ।

इति । सूत्रवचनस्य सिरासृग्विमोचनरूपकार्यप्रतिपादकत्वाच्च न ते शब्दजन्यकार्यहेतुका इति । अत्रोच्यते-- विरुद्धरसादनाज्जातरोगनिदानभूतलक्षणात्तत्तत्सिराप्रबोधकवर्णनिष्ठविकारविरुद्धस्वराघोषवर्णात्मकानि लिङ्गानि विज्ञाय तत्तद्रोगनिवृत्त्यर्थं तत्तत्सिरागतदुष्टरक्तविमोचनमात्र एव चरितार्थत्वात् । तस्मान्नान्यथासिद्धिरित्यर्थः ।

 ननु वर्णप्रबोधकसिराः सप्तशतसङ्ख्याकाः । ता एव मर्मस्थानभूताः आवेध्या इत्युक्तम् । यत्र यत्र विकारे जाते तत्तत्प्रदेशस्थितसिरासृग्विमोचनं कर्तव्यमित्युक्तम् ।

शिरोनेत्रविकारेषु ललाट्यां मोचयेत्सिराम् ।

इत्यादिवचनानि बहूनि सन्ति । तत्तद्वचनानुसारेण तत्तत्प्रदेशस्थितसिरा वेध्याः । वेधार्हसिराणामवेधकत्वप्रतिपादनपरं सिरास्यसूत्रं व्यर्थं स्यादित्यस्वरसादाह-- रिक्तेति ।