पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
आयुर्वेदसूत्रे

ताल्वोष्ठपुटव्यापारो यत्र दृश्यते तत्रैव वातशब्दनिमित्तकशब्दो निगमेन श्रूयते । तस्मात्तयोस्संयोगः समवायकारणमिति द्योत्यते । ताल्वोष्ठपुटव्यापारहेतुककार्यस्यास्यसंयोगस्य सिरादीनां वर्णभेदस्य निमित्तकारणत्वं ज्ञाप्यते । वर्णभेदात् शब्दविषयकज्ञानभेदकार्यं विचित्रहेतुप्रतिपादकसामग्रीजन्यं कारणस्य क्रियाविशेषमात्रवैलक्षण्यतया विचित्रवर्णज्ञापकत्वमनुभूयते । सोऽनुभवः सामग्रीभेदाद्भवतीति देशतः कालतः घटनारूपकार्यविशेषतः सिरादिबाहुल्यसंयोगात् हीनाल्पतरोच्चरितस्वरादिवर्णभेदज्ञानं तत्सामग्रीभेदात् भवतीति यत्र यस्संबन्धवर्णः स एव वौसिष्टक ? इत्युभ्युपगमात् श्रोत्राकाशस्य व्यवधानसामीप्यदेशभेदजातमरिम्ना उच्चोच्चतरोच्चतमोच्चारणभेदात्तत्तद्वर्णात्मकशब्दभेदो ज्ञायते । शब्दभेदबोधकवाक्यं सिराभेदोद्भववर्णभेदबोधककार्यं च पक्षद्वयं गृहीतम् । साध्यं तु तदुच्चारणहेतुभूतवर्णभेदविषयकज्ञानपूर्वं सिरादिभेदजन्यवर्णविषकज्ञानात्मकत्वात् भेर्यादिशब्दवत् ।

 अत्र शारीरवचनं--

दोषधातुमलादीनां ऊष्मेत्यात्रेयशासनम् ।
तदधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता ॥
सैव धन्वन्तरिमते कला पित्तधराह्वया ।
आयुरारोग्यवीर्यौजो भूतधात्वग्निपुष्टये ॥

एतद्वचनानुसारेण तत्तत्प्रदेशोद्भववर्णज्ञापिका ग्रहणीकला । तत्तद्रसादनाज्जातवर्णादिभेदज्ञानं तत्तद्रसद्रव्यपाकज्ञातपोषकैककार्यविषयकं रसविरसादनजातदोषादोषज्ञापकं उच्चोच्चतरशब्दभेदविषयकज्ञानगोचरजनकत्वात् । तत्तद्रसाहाराद्रसजातफल