पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
325
अत्युक्तिसरः (१००)

 यथावा--

 कोऽपि स पुमान्विजयतां यद्घण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्त्यमृतैर्दुर्मतकथकविषमूर्छितं भुवनम् ॥ १९६० ॥

 यस्य श्रीनिवासस्य घण्टा कर्त्री श्रुतिशिरोगुरुर्भूत्वा--

वित्रासिनी विबुधवैरिवरूथिनीनां
पद्मासनेन परिचारविधौ प्रयुक्ता ।
उत्प्रेक्ष्यते भुवि जनैरुपपत्तिभूम्ना
घण्टा हरेस्समज्जनिष्ट यदात्मनेति ॥

 इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः । शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥

इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः.


अथात्युक्तिसरः (१००)


 अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।

 अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेर्वर्णनमत्युक्तिर्नामालङ्कारः । आदिशब्देनौदार्यकीर्त्यादेर्ग्रहणम् ॥

 यथा--

 बहिरन्तर्ज्वलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१ ॥