यथावा--
कोऽपि स पुमान्विजयतां यद्घण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्त्यमृतैर्दुर्मतकथकविषमूर्छितं भुवनम् ॥ १९६० ॥
यस्य श्रीनिवासस्य घण्टा कर्त्री श्रुतिशिरोगुरुर्भूत्वा--
वित्रासिनी विबुधवैरिवरूथिनीनां |
इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः । शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥
इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः.
अथात्युक्तिसरः (१००)
अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।
अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेर्वर्णनमत्युक्तिर्नामालङ्कारः । आदिशब्देनौदार्यकीर्त्यादेर्ग्रहणम् ॥
यथा--
बहिरन्तर्ज्वलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१ ॥