पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
326
अलंकारमणिहारे

 हे श्रीनाथ! बहिः अन्तश्च ज्वलता अद्भुततमेन मूषानिहितकनकरजःकणादिविलापनमात्रकारिणः प्रसिद्धादग्नेरपि वक्ष्यमणरविकिरणद्रवीकरणघनीभावोभयकल्पकतया विलक्षणेनेति भावः । तव तेजसा प्रतापेनैव अग्निना । मूषैव मूषिका तैजसद्रव्यविलापनी 'तैजसावर्तनी मूषा' इत्यमरः । तस्यां रवेः रुचिः जात्यभिप्रायकमेकवचनं, किरणा इत्यर्थः। आवर्त्य विलाप्य कनकगिरिः अरचि । आवर्तिताः प्रभाकरकरा एव घनीभावनया सुमेरुत्वेन निष्पादिता इति भावः ॥

 यथावा--

 ब्रह्माण्डान्तरसृष्ट्यै परितो ज्वलता तव प्रतापेन । जगदण्डमूषिकायामस्यामावर्त्यते सुवर्णगिरिः ॥ १९६२ ॥

 ब्रह्माण्डान्तरस्य 'तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्' इत्युक्तप्रकारस्यान्यस्य ब्रह्माण्डस्थ सृष्ट्यै सृष्टिं कर्तुं ‘क्रियार्थ' इत्यादिना चतुर्थी । परितः समन्ततः ज्वलता तव प्रतापेन अस्यां विद्यमानायां जगदण्डमेव मूषिका तस्यां सुवर्णगिरिः हेमाद्रिः आवर्त्यते विलाप्यते । ब्रह्माण्डमूषिकायां सुवर्णगिरिद्रवीकरणोक्त्या प्रतापे अग्नित्वं गम्यते ॥

 यथावा--

 परतस्त्रिपाद्विभूतेः परितस्स्फुरता ककुत्स्थकुलभानो । अत्यर्कानलदीप्तिर्नित्यं त्वद्योधतेजसाऽरचि सा ॥ १९६३ ॥