पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 किंशुक किं शुकमुखवत्कुसुमानि-मघौ विकाशयस्यनिसम्‌ ।
 यस्यां जनोऽनुरागी सा गीरेतैः कदापि चोच्चार्या ॥ २०५ ॥
 तइयच्चिय परिचत्ता तुज्झ पलासा पलससउणेहिम्‌ ।
 कुसुमग्गमे वजन्ति हयासकसिणी कयं वयणम्‌ ॥ २०६ ॥

(इति किंशुकान्योक्तयः)
 

अथ पलाशपुष्परसस्य ।

 मा गर्वमुद्वह विमूढ पलाशपुष्प
  यत्षट्पदः श्रयति मामतिगन्धलुब्धः ।
 रे मारुतीविरहतो ज्वलदग्निकल्पं
  त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥

अथ बब्बूलान्योक्तयः ।

 तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा
  शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम्‌ ।
 अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि
  रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥
 [१]आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम-
  श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम्‌ ।
 बब्बूलद्रुम साधुसङ्गरदितस्त्वं तावदास्तामहो
  अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥
 स्वयमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
  कुहरपतनं बब्बूलोऽयं विषह्य वृतीभवन्‌ ।
 खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
  न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१०॥


  1. १. 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पल्लवा निर्गन्धः कुसुमोत्करस्तव 'फलं न क्षुद्विनाशाक्षमम्‌ । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां फल्वताम्‌' इत्यपि पाठान्तरम्‌.