अथ खदिरान्योक्तयः ।
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कृतः ।
रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥१९७]
[१]पदं तदिह नास्ति यन्न खदिरैः खरैरावृतं
न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः ।
न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
स्तदुज्झत वृथा स्थितिं वत सहध्वमध्वश्रमम् ॥ १९८ ॥
अथ वंशस्य।
गाढग्रन्थिविसंस्थुलेऽपि कलयन्काठिन्यमप्यन्वहं
छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः ।
मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया
धिङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥
अथ वेतसस्य ।
सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः।
नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥
अथ किंशुकान्योक्तयः ।
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०१ ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
अदातरि समृद्धेऽपि किं कुवेन्त्युपजीविनः ॥ २०२ ॥
रक्तेन वा विरक्तेन किं पाशेन पक्षिणाम् ।
यस्य पुष्पे न सौभाग्यंं फले न मधुरो रसः ॥ २०३ ॥
त्यज कुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन ।
विकचकुसुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम् ॥ २०४ ॥
- ↑ १.'परम्' इति पुस्तकान्तरे