पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
काव्यमाला।

 इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं
  निदाने [१]वृङ्कोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥
 निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा
  बाह्यं कण्टकखर्परैः परिवृतं निःसारमन्तर्वपुः।
 वृद्धिर्गृध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं
  हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥१८९]॥
  छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि
   कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि ।
  यत्त्वं फलेऽर्थिषु विसंवदसे प्रकाम-
   मस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात्‌ ॥ १९० ॥

(इति शाल्मलत्यन्योक्तयः)
 

अथ निम्बान्योक्तयः ।

 दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः।
 तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९१ ॥
 शर्करासर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम्‌ ।
 क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥
 निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
 यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
 सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलसोद्धुरः।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
 स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १९४ ॥
जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो ।
तो वायसाणजुग्गो नहु जुग्गो इयर पष्षीणम्‌ ॥ १९५ ॥
जन्मन्तरंमि वसिओ निम्बतरू इक्खुवाडमब्भम्मि ।
ता किं होइ गुलिओ संसग्गी जइ गुणा हन्ति ॥ १९६ ॥

(इति निम्बान्योक्तयः)
 

  1. 'तूलोऽन्तः' इत्यपि पाठः