किंशुक किं शुकमुखवत्कुसुमानि-मघौ विकाशयस्यनिसम् ।
यस्यां जनोऽनुरागी सा गीरेतैः कदापि चोच्चार्या ॥ २०५ ॥
तइयच्चिय परिचत्ता तुज्झ पलासा पलससउणेहिम् ।
कुसुमग्गमे वजन्ति हयासकसिणी कयं वयणम् ॥ २०६ ॥
अथ पलाशपुष्परसस्य ।
मा गर्वमुद्वह विमूढ पलाशपुष्प
यत्षट्पदः श्रयति मामतिगन्धलुब्धः ।
रे मारुतीविरहतो ज्वलदग्निकल्पं
त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥
अथ बब्बूलान्योक्तयः ।
तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा
शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम् ।
अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि
रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥
[१]आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम-
श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् ।
बब्बूलद्रुम साधुसङ्गरदितस्त्वं तावदास्तामहो
अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥
स्वयमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
कुहरपतनं बब्बूलोऽयं विषह्य वृतीभवन् ।
खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१०॥
- ↑ १. 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पल्लवा निर्गन्धः कुसुमोत्करस्तव 'फलं न क्षुद्विनाशाक्षमम् । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां फल्वताम्' इत्यपि पाठान्तरम्.