पृष्ठम्:अद्भुतसागरः.djvu/६३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३१
अश्वाद्भुतावर्त्तः ।

 तदा मासद्वयादूर्ध्वं राज्ञो मरणमादिशेत् ॥
 प्राक्पश्चिमार्धयोरेकदैव प्रज्वलनं भवेत् ।
 यदा ज्वलति पूर्वार्धं तुरङ्गो भीमदर्शनः ॥
 तत्र सेनापतेर्नाशस्तथा राष्ट्रविनाशनम् ।

यदा कृत्स्नं पूर्वार्धं ज्वलितं तदा सेनापतिराष्ट्रविनाशो भवतीत्यर्थः ।

 यदा ज्वलति सर्वत्र सपादतलमस्तकः ।
 तदा राष्ट्रविनाशस्तु राज्ञश्च मरणं भवेत् ॥
 उत्तमाङ्गस्य ज्वलने पुरोहितवधं विदुः ।
 ज्वलने चैकपक्षस्य अश्वनाशं विनिर्दिशेत् ॥
 वामपार्श्वे प्रज्वलिते मन्त्रिनाशमथादिशेत्
 पार्श्वे प्रज्वलिते चैव दक्षिणे मन्त्रिनाशनम् ॥

गर्गस्तु ।

 वामे तु पार्श्वे ज्वलिते हयस्यामात्यनाशनम् ।
 दक्षिणे ज्वलिते पार्श्वे मित्रनाशं विनिर्दिशेत् ॥

शालिहोत्रः ।

 ज्वलने चैकपक्षस्य अश्वनाशं विनिर्दिशेत् ।
 कोशागारविनाशः स्यादुदरे ज्वलितं भवेत् ॥
 मुष्कयोर्वाऽथ मेढ्रे च ज्वलने च विचक्षणः ।
 अन्तःपुरभयं विद्याज्जघने सुतनाशनम् ॥

बृहद्यात्रायां वराह ।

अन्तःपुरं नाशमुपैति मेढ्रे कोशक्षयं स्यादुदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥
स्कन्धासनासज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् ।
ललाटवक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय ॥