पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

जैमिनिरुवाच-
माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया
इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो १
व्यास उवाच-
शृणु लक्ष्मीपतेर्वत्स सपर्या फलमुत्तमम्
यच्छ्रुत्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् २
विप्र द्वादशमासेषु माघादिषु सनातनः
पूजितव्यो विधानैर्यैः शृणु तानि वदाम्यहम् ३
माघेमासि समायाते सर्वमासोत्तमे शुभे
आमिषं मैथुनं चैव त्याजयेद्वैष्णवोत्तमः ४
प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेत्
द्विर्भोजनं परान्नं च माघेमासि परित्यजेत् ५
प्रातः शुक्लांबरधरः कृतपंच महाध्वरः
सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ६
ईषदुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम्
अतिश्लथैश्चंदनैश्च विष्णोरङ्गानि लेपयेत् ७
पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः
प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ८
स्नापयित्वा जगन्नाथमीषदुष्णेन वारिणा
प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नतः ९
सलिलैरीषदुष्णैश्च प्रस्नापयति केशवम्
माघेमासि द्विजश्रेष्ठ फलं तस्य मयोच्यते १०
विमुक्तः पातकैः सर्वैर्जन्मजन्मांतरार्जितैः
इह भुंक्ते सुखं सर्वं शेषे याति हरेर्गृहम् ११
यत्नात्प्रक्षाल्य पात्राणि कृत्वाशुद्धानिवारिभिः
यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय १२
इह भुक्त्वाखिलान्कामान्सर्वव्याधिविवर्जितः
अंते युगसहस्राणि तिष्ठेत्केशवमंदिरम् १३
प्रभाते विश्वसंध्यायां पुरतश्चक्रपाणिनः
ज्वलंतं स्थापयेद्वह्निं निर्द्धूमं वैष्णवो जनः १४
शीतस्य वारणार्थाय सायंप्रातश्च वैष्णवः
माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलंशृणु १५
इह भुक्त्वाखिलान्कामान्पुत्रपौत्रसमन्वितः
अंते विष्णुपुरं याति दैवतैरपि दुर्ल्लभम् १६
यथैवात्मा तथा विष्णुः संदेहोनात्र विद्यते
स्वपंतं देवदेवेशं पर्यंकोपरि केशवम् १७
आत्मनः कुरुते मर्त्यो यथा शीतनिवारणम्
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनम्
तस्मै देवोत्तमो विष्णुः संतुष्टो न ददाति किम् १८
तथा शीतक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः १९
यः पूजयेत्सकृन्माघे स्नापयित्वा चतुर्भुजम्
नालिकेरोदकैर्दुग्धैः फलं तस्य वदाम्यहम् २०
नरकाब्धौ मज्जमानान्दुस्तरे स्वेन कर्मणा
उद्धृत्य कोटिपुरुषान्स याति चक्रिणः पदम् २१
माघे मासे च शुक्लायां पंचम्यां द्विजसत्तम
एकादश्यां च पंचम्यां हरिपूजा विशेषतः २२
दातव्यो देवदेवाय सपद्माय मुरारये
पायसो धूपसहितो माघेमासि दिने दिने २३
सधूपपायसं यस्तु माघे यच्छति चक्रिणे
तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने २४
अंते विष्णुपुरं गत्वा मन्वंतरचतुष्टयम्
भुंक्ते मनोरमान्भोगान्प्रसादाच्चक्रपाणिनः २५
पुनरागत्य धरणीं चक्रवर्ती नृपो भवेत्
भुंक्ते च भोगं सुचिरं मृतो याति हरेर्गृहम् २६
पंचम्यां वापि सप्तम्यामेकादश्यां च जैमिने
अशक्तो वैष्णवो दद्यात्परमान्नं मुरारये २७
कृष्णपक्षाद्दिवजश्रेष्ठ शुक्लपक्षे विशेषतः
शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये २८
एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे
सपूपंपायसं दद्यान्न तस्य दुर्ल्लभो हरिः २९
यत्किच्चिद्दिवजतुष्ट्यर्थं माघेमासि प्रदीयते
तदक्षयं भवेत्पुंसः कोऽपि नास्त्यत्र संशयः ३०
माघे मासि कृतं कर्म शुभं वाशुभमेव वा
तस्य नास्ति क्षयं विप्र मन्वंतरशतैरपि ३१
माघे चंपकपुष्पेण योऽर्चयेत्कमलापतिम्
स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ३२
यावंति स्वर्णपुष्पाणि दीयंते चक्रपाणये
तावद्युगसहस्राणि स्थीयते विष्णुमंदिरम् ३३
मेरुतुल्यसुवर्णानि दत्वा भवति यत्फलम्
एकेन स्वर्णपुष्पेण हरिं संपूज्य तत्फलम् ३४
सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियम्
माघेमासि विशेषेण पवित्रं केशवप्रियम् ३५
सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः
रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ३६
फलं चंपकपुष्पस्य ब्रवीम्यहं विशेषतः
आकर्णय द्विजश्रेष्ठ सेतिहासमनुत्तमम् ३७
सुवर्णो नाम भूपालो बलवान्सर्वशास्त्रवित्
आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चसा ३८
राजश्रिया विद्यया च वयसा च स भूपतिः
अतिप्रमत्तो विप्रर्षे सदा पापरतोऽभवत् ३९
पाखंडमंत्रिणां वाक्यैर्विनादोषैरपि द्विज
धनलोभात्तेन राज्ञा दंड्यंते साधवो जनाः ४०
अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृतः
समस्तं नाशयामास यज्ञदानविवर्जितः ४१
न ज्ञातिपोषणं चक्रे न देवद्विजभोजनम्
न च याचकसंतुष्टिं सर्वदा पापमोहितः ४२
न चकारातिथेः पूजां सदा पापपरायणः
ययौ च मंदिरान्नित्यं स भूपः पापमंदिरः ४३
कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम्
अपि वर्षशतैः शक्तः संख्यातुं जनितानि किम् ४४
एकदा स महीपालः कामेन परिमोहितः
जगाम वेश्यानिलयं निशीथे दुरिताशयः ४५
तमायांतं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया
सहसोत्थाय पर्यंके चक्रे तत्पादवंदनम् ४६
प्रक्षाल्य तत्पादयुगं भृंगारसलिलैश्च सा
मंचे निवेशयामास दोर्भ्यामालिङ्ग्य तं नृपम् ४७
तत्प्रेमामृतधाराभिः सिक्तोऽसौ पृथिवीपतिः
तस्मिन्नुवास पर्यंके तया सह कुतूहली ४८
ततः सा गणिका प्रीत्या हसंती नवयौवना
ददौ चंपकपुष्पाणां तस्मै भूमिभुजे स्वयम् ४९
पुष्पमाला पुष्पमेकं तस्माद्भूपति हस्ततः
पपात धरणीपृष्ठे गन्धव्याप्तदिगंतरम् ५० 7.10.50
तच्च्युतं कुसुमं दृष्ट्वा स राजाऽत्यतसंभ्रमात्
नमोनारायणायेति जगादोङ्कारपूर्वकम् ५१
नारायणायेति वाक्यात्सर्वाणि पातकानि च
स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजः ५२
ग्रामीणा अथ सर्वेऽपि समागत्यातिदुर्जये
तस्यामेव निशायां तं जघ्नुर्वेश्यागृहे स्थितम् ५३
नेतुं तमथ भूपालं सर्वपातकिनां वरम्
किंकरान्प्रेषयामास क्रुद्धो वैवस्वतो भृशम् ५४
तेनाज्ञप्तास्ततो दूताः पाशमुद्गरपाणयः
अतिवेगात्समायाताः क्रोधसंरक्तलोचनाः ५५
उद्यमं चक्रिरे नेतुं यमदूताः स्वमालयम्
ततो नारायणप्रेष्याः शङ्खचक्रगदाधराः ५६
आयाता गरुडारूढास्तं नेतुं पृथिवीपतिम्
पाशे नियंत्रितं दृष्ट्वा तं भूपं विष्णुकिंकराः ५७
जघ्नुश्चक्रैर्गदाभिश्च यमदूतान्महाबलाः
समारोप्य रथे दिव्ये शंखान्दध्मुरनुत्तमान् ५८
तथा राजा रथारूढस्तुलसीमाल्यभूषितः
पीतकौशेयवासाश्च स्वर्णालंकारभूषितः ५९
स्तूयमानो मुनिगर्णैर्वेदवेदाङ्गपारगैः
विष्णुदूतैः परिवृतो हरेः सालोक्यमाययौ ६०
अथोत्थाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः
तमालिंगितवान्भूपं प्रोक्तवांश्च द्विजोत्तम ६१
श्रीभगवानुवाच-
नृपते कुशलं ब्रूहि सर्वपुण्यात्मनां वर
किमस्ति साध्यं भवतस्तदाज्ञापय संप्रति ६२
नमोनारायणायेति वारैकमपि यो वदेत्
नित्यं तस्यानुपाल्योऽहं स मे भ्राता स मे पिता ६३
नारायणेति मन्नाम कदाचिद्यः स्मेरन्नरः
साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् ६४
भक्तोऽसि नृपतिश्रेष्ठ तस्मान्निजमनोरथम्
प्रकाशयाद्भुतं तात किं ते दास्यामि चाधुना ६५
राजोवाच-
सर्वमेव दयासिन्धो त्वया दत्तं न संशयः
पापिनापि मया प्राप्तं तव स्थानं सुदुर्ल्लभम् ६६
तस्यानेन तु वाक्येन प्रसन्नः कमलापतिः
स्नेहान्निवेशयामास भूपालं तन्निशामय ६७
ततः सुवर्णालंकारैर्विश्वकर्मविनिर्मितैः
चकार मण्डलं तस्य स्वयमेव दयामया ६८
अथ नानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्ल्लभैः
तोषितः स महीपालो विष्णुनाति सहिष्णुना ६९
एवं प्रतिदिनं तस्थौ स राजा विष्णुमंदिरम्
मन्वन्तरसहस्राणि नव वर्ष शतानि च ७०
प्रजानां पालनं चक्रे स राजा धर्मतत्परः
पूजयामास सततं भक्त्या परमया हरिः ७१
चारु चंपकपुष्पैश्च नैवेद्यैर्विविधैश्च सः
आयुःशेषे स भूपालो मरणं जाह्नवी जले ७२
समासाद्य ययौ मोक्षं प्रसादाच्चक्रपाणिनः
व्यास उवाच-
विप्र चंपकपुष्पस्य प्रभावोऽयं प्रकीर्तितः ७३
चपंकैर्हरिमभ्यर्च्य मुक्ताः स्युः पापिनो जनाः
स्फुटचंपकपुष्पेण पूजितो भगवान्हरिः ७४
अचिरेणैव विप्रर्षे ददाति परमं पदम्
ये यजंति परात्मानमिच्छया वाप्यनिच्छया ७५
तेऽपि यांति परं धाम विमुक्ताः सर्वपातकैः ७६
हरौ प्रसन्ने दुरितानिकोऽपि यतः स राजा कृतपातकोऽपि
जगाम मोक्षं कृपयामुरारेर्विश्वार्णवं निम्नमिमं वितीर्य ७७
दिव्यैः सुगन्धैः कनकप्रसूनैर्नारायणं पद्मदलायताक्षम्
भक्त्या यजेद्यः परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् ७८

इति श्रीपद्मपुराणे क्रियायोगसारे चंपकपुष्पमहिमानाम दशमोऽध्यायः १०