पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

जैमिनिरुवाच-
भूय एव महाभाग तुलस्याः पापनाशनम्
अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात् १
सूत उवाच-
ततो व्यासो महातेजास्तुलस्या द्विजसत्तम
माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम् २
व्यास उवाच-
इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया
तस्मादिमां न पश्यंति वृक्षज्ञानेन जैमिने ३
सदैव तुलसीं मर्त्यो यथैव भुवि सेवते
तथैव सेन्द्रा विबुधाः सेवंते तं सुरालये ४
परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति
तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया ५
प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि
तुलसीपत्रगलितं स याति हरिसन्निधिम् ६
तुलसीमृत्तिकापुण्ड्रं यो मृत्युसमये वहेत्
स मुक्तः सकलैः पापैः पुरं गच्छति चक्रिणः ७
यस्य स्यात्तुलसीपत्रं मुखे शिरसि कर्णयोः
मृत्युकाले द्विजश्रेष्ठ तस्य स्वामी न भास्करिः ८
पवित्रनामा सुमतिर्बभूव परमार्थवित्
बभूव ब्राह्मणी तस्य बहुला नाम धारिणी ९
सद्वंशप्रभवा साध्वी पतिसेवापरायणा
अनपत्यपतिर्नाम तत्रैकोस्ति द्विजोत्तमः १०
सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना
ततोऽनपत्यपतिना कथालोभेन सत्तमः ११
उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने
तत्रांतरे महातेजा लोमशो नाम स द्विजः १२
कथयंतौ कथाश्चित्राः समागत्य ददर्श तौ
अथ तं लोमशं विप्रं विप्रावुत्थाय पीठतः १३
पाद्यार्घ्याचमनीयाद्यैः पूजयामासतुश्च तौ
सुप्रीतो लोमशस्ताभ्यां नारायणपरायणः १४
उवास ब्राह्मणश्रेष्ठ आसने कीर्तयन्हरिम्
आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम् १५
पवित्रानापत्यमुनी भक्त्या प्राहतुर्लोमशम्
भगवन्सर्वधर्मज्ञ त्वत्पादयुगलैर्नृभिः १६
सद्भिर्ग्राह्यैराश्रमोऽयं पूतोऽभून्नूनमावयोः
कृतानि यानि पापानि आवाभ्यां मोहतः पुरा १७
तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनात्
भवान्नारायणः साक्षात्पूजनीयोऽमरैरपि १८
सम्यक्ते पूजनं कर्तुं किमावां मानुषौ क्षमौ
अतिथेर्या कृता पूजा तेऽस्माभिर्निजशक्तितः १९
अनया भव सुप्रीतः क्षमस्व दोषमावयोः
इत्युक्त्वा तौ महात्मानौ तस्यागंतोः पदद्वये
निपेततुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ २०
व्यास उवाच-
ततो भक्त्या सुसंतुष्टो लोमशो विदुषांवरः
युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ २१
आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः
साक्षाद्ब्रह्मा शिवो विष्णुरतिथिः प्रोच्यते बुधैः २२
तस्मिन्नेतावतीभक्तिर्युवयोरस्तु मङ्गलम्
आराधितोऽस्म्यहंसम्यगतिथिर्भूरिभोजनैः २३
व्यास उवाच-
तत उत्थाय तौ विप्रौ तत्पादकमलद्वये
भूयोऽपि तं नमस्कृत्य प्राहतुर्लोमशं मुनिम् २४
ब्राह्मणावूचतुः
ब्रह्मन्नतिथिपूजाया माहात्म्यं वक्तुमर्हसि
यां कृत्वा प्राप्यते मुक्तिर्दुःखलभ्यापि मानवैः २५
कोऽतिथिः प्रोच्यते लोके तस्य पूजा च कीदृशी
आतिथेयोऽतिथिश्चेमौ लभेते कामुभौ गतिम् २६
लोमश उवाच-
वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनात्
निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि २७
चतुराश्रममध्येषु प्रधाना गृहिणो मताः
तैश्चातिथीनां कर्तव्या पूजा भक्तिसमन्वितैः २८
गृहिणां परमो धर्मः प्रोक्तश्चातिथिपूजनम्
आश्रमाचारतोऽभ्रष्टास्ततस्ते गृहिणो मताः २९
वंहत्यतिथिपूजायां दक्षतां गृहिणो यदि
तदा प्रयोजनं तेषां किमन्यैः पुण्यकर्मभिः ३०
यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः
अकस्माद्गृहमागच्छेत्सोऽतिथिः प्रोच्यते बुधैः ३१
ब्राह्मणाः क्षत्रिया वापि वैश्या वा वृषलास्तथा
गृहागताः पूजिताश्च विष्णुवत्तत्त्वदर्शिभिः ३२
चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः
विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः ३३
समागतेष्वतिथिषु प्रयाणं कुरुते गृही
अपि स त्वरया दद्यात्पाद्यार्घ्यादीनि च द्विजः ३४
कुर्याच्च कुशलं प्रश्नं वचनैः कोमलाक्षरैः
कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृही ३५
सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः
प्रातर्जिगमिषुं दृष्ट्वा तमायांतं विवर्जयेत् ३६
यदि कर्मविपाकेन गृही भवति वित्तवान्
अतिथ्येनातिथिः पूज्यस्तदहं वच्मि सत्तमौ ३७
समागतेष्वतिथिषु भक्त्या दद्यात्तृणादिकम्
तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेति भक्तितः ३८
पादप्रक्षालनार्थं तुदद्यादुदकमुत्तमम्
अतो मधुरया वाचा पृच्छेच्च कुशलादिकम् ३९
फलादिकं ततो दद्याद्भक्त्या भोजनहेतवे
तदभावेन मतिमान्मुदा विप्र प्रकाशयेत् ४०
वदेच्चाहं महापापी दरिद्र प्रवरोऽतिथे
कर्त्तुमिच्छामि भक्तिं ते दैवतंत्रंविरोधकम् ४१
अनेन विधिना दीनः सत्यक्त्वातिथिपूजनम्
स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात् ४२
अनर्चितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात्
जन्मकोट्यर्जितं पुण्यं तस्य गच्छति संक्षयम् ४३
एक एवातिथिर्येन भक्तिभावेन पूज्यते
हरेत्तस्य हरिः सद्यो पातकं कोटिजन्मजम् ४४
सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नतः
विनातिथिसपर्याभिर्गृहिणो नास्ति वा गतिः ४५
सत्यं सत्यं पुनः सत्यमागंतुपूजया विना
गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणाम् ४६
ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे
बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया ४७
तेन सर्वाणि कर्माणि कृतानि ज्ञातिसेविना
सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया ४८
तत्र दुर्ग्रहसंचाराद्द्वादशाब्दं च वासवः
न ववर्षांबु तेनासीद्दुर्भिक्षं सुमहद्द्विजौ ४९
तस्मिन्महति दुर्भिक्षे लोकास्तद्देशवासिनः
बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ५० 7.25.50
ज्ञानभद्रो महायोगी युगे द्वापर संज्ञके
दुर्भिक्षहृतसंपत्तिर्बभूवात्यन्तदुःखितः ५१
क्षुधाकुलान्सुतान्दृष्ट्वा दारांश्च द्विजसंमतौ
फलमूलादनार्थाय जगामोत्पत्यकां गिरेः ५२
गिरेरुपत्यकाप्रांते चिरायुः स बुभुक्षितः
कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ ५३
समादाय फलं तच्च हर्षितोऽसौ निजालयम्
जवैर्जगाम विप्रेन्द्रो ज्ञानभद्रो महायशाः ५४
एतस्मिन्नन्तरे विप्र मेघैर्न्नीलपदैरिव
आवृते गगने वृष्टिर्महासारैर्बभूव ह ५५
स मुनिश्च तया वृष्ट्या प्लाविताखिलविग्रह
वनाद्वनचरः कश्चिच्छीतार्तश्चाययौ गृहम् ५६
दृष्ट्वातिथिं तु शीतार्तं ववंदे शिरसा ततः
ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः ५७
ततो मधुरया वाचा तेनैवातिथिना सह
तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता ५८
गृहिण्या सह गोपेन स्वामिसेवा सुदक्षया
ततः कूष्माण्डकं नव्यं पक्वमत्यंत यत्नतः ५९
संप्राप्य हर्षिता साध्वी ददौ भागं विधाय सा
अथासौ दुर्बलो गोपो दिनविंशमुपोषणात् ६०
आतिथेयो महाभागं ददौ चातिथये मुदा
ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा ६१
ददौ सा पतितं भागं तस्मै चातिथये मुदा
अथातिथेस्तयोस्तत्र दंपत्योः सुमहात्मनोः ६२
अभूद्भागद्वयं भुक्त्वा सुप्रीतो द्विजसत्तम
विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः ६३
विश्रामं रात्रौ तत्रैव प्रातः स्नात्वा चिरं ययौ
गतैवमुपवासेन दिनानामेकविंशतिः ६४
दंपती तौ महात्मानौ पंचतां ययतुस्ततः
तेन पुण्यप्रभावेण दंपती तौ महाशयौ ६५
प्रापतुर्विष्णुसायुज्यं दुर्ल्लभं योगिनामपि
तयोः पुण्यप्रभावेण विहितातिथिपूजया ६६
तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्ततः
अत्यंतसुखिनोलोकाः शोकव्याधिविवर्जिताः ६७
धनधान्यादिसम्पन्ना बभूवुर्धर्मतत्पराः
विनष्टा दस्यवस्तत्र नृपोऽभूल्लोकपालकः ६८
निजाचाररतालोका जलदाः कामवर्षिणः
पूर्वजाः कोटिपुरुषास्तथैवापरजास्तयोः ६९
तेनैव कर्मणा मुक्तिं जग्मुः पापविवर्जिताः
निर्दोषा धनसंपन्नाः सर्वलोकैकपूजिताः ७०
शोकव्याधिविहीना च ववृधे संततिस्तयोः
लोमश उवाच-
आगंतुपूजामाहात्म्यं सेतिहासं मयोदितम् ७१
युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ
व्यास उवाच-
इति ब्रुवति वै तस्मिँल्लोमशे तपसां धने ७२
कालग्रस्तः कृष्णआखुस्तत्रोत्तस्थौ बिलान्निजात्
तमुत्थितं बिलात्कृष्णमूषकं क्रोधविह्वलः ७३
पवित्रस्तत्र चोत्तस्थौ वदन्निति मुहुर्मुहुः
अयं पापाशयो दुष्टो मूषको निशि चाश्रमम् ७४
खनते तीक्ष्णदंतौघैर्गृहद्रव्यं च कृंतति
सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता ७५
सा च सर्वेषु कर्तव्या न च दुष्टेषु जंतुषु
इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसम् ७६
नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह
स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः ७७
पपात भूमौ विप्रर्षे व्यथया हतचेतनः
आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः ७८
हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः
निजकर्णात्समानीय तुलसीपत्रमुत्तमम् ७९
तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान्
मातस्तु तुलसीदेवि गोगिन्दह्लादकारिणि ८०
अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम्
इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः ८१
हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम्
तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः ८२
श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबंधनात्
ततो दूता महाविष्णोः सर्वलक्षणसंयुताः ८३
आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम्
समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः ८४
जगाम परमं स्थानं मूषको द्विजसत्तम
युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे ८५
ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः
व्यास उवाच-
माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम ८६
इदानीं ब्रूहि किं श्रोतुं महाभागत्वमिच्छसि ८७
इति श्रीपद्मपुराणे क्रियायोगसारे पंचविंशोऽध्यायः २५