पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २३ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

सूत उवाच-
एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततः ।
कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम् १।
जैमिनिरुवाच-
विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम् २।
व्यास उवाच-
इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौ ।
संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा ३।
स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम् ।
चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै ४।
यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तम ।
तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ५।
केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः ।
पत्रवृंते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि ६।
लक्ष्मी सरस्वती चैव गायत्री चंडिका तथा ।
सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च ७।
इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथा ।
पवनश्च कुबरेश्च तच्छाखायां वसंत्यमी ८।
आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदा ।
वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः ९।
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले ।
तुलसीदलमाश्रित्य तान्येव निवसंति वै १०।
तुलसीं सेवते यस्तु भक्तिभावसमन्वितः ।
सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा ११।
छिन्दंति तृणजालानि तुलसीमूलजानि ये ।
तद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः १२।
ग्रीष्मकाले द्विजश्रेष्ठ सुगंधैः शीतलैर्जलैः ।
तुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात् १३।
चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति ।
विशेषतो निदाघेषु स मुक्तः सर्वपातकैः १४।
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।
सिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः १५।
प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत् ।
सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः १६।
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः ।
तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला १७।
गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम् ।
संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु १८।
रजांसि तत्र यावंति दूरीभूतानि जैमिने ।
तावत्कल्पसहस्राणि मोदते विष्णुना सह १९।
प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतले ।
स याति मंदिरं विष्णोः कुलकोटिसमन्वितः २०।
गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति ।
शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा २१।
तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः ।
स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः २२।
प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः ।
स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम् २३।
तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः ।
आयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते २४।
तुलसीस्मरणेनैव सर्वपापं विनश्यति ।
तुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम् २५।
योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम् ।
तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात् २६।
तुलसीकाष्ठसंभूतां मालां वहति यो नरः ।
तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते २७।
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् ।
गंगायाः स्नानजं पुण्यं लभते नात्र संशयः २८।
दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम् ।
समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत् २९।
येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः ।
धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः ३०।
स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम् ।
तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र ३१।
यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः ।
कुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम् ३२।
यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च ।
तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ३३।
यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम् ।
यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत् ३४।
त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मंदारकुन्दनलिनादिकमप्यनंतः ।
गृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम् ३५।
उत्पाट्य चैव तुलसीं भुवि निक्षिपंति पापाशयाऽमृतलताभ निदानभूताम् ।
अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति संततमेव सत्यम् ३६।
मूत्रं पुरीषं तुलसीतलेषु कुर्वंति येऽपि च मलं सततं मनुष्याः ।
देवाश्रये संचित पातकानां तेषां हरत्याशु हरिर्धनानि ३७।
नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुते ।
कुसुमैः पारिजाताद्यैर्गंधाद्यैरपि केशवः ३८।
त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभे ।
त्वया विना महाभागे समस्तं कर्म निष्फलम् ३९।
अतस्तु तुलसी देवि चिनोमि वरदा भव ।
चयनोद्भव दुःखं ते यद्देवि हृदि जायते ४०।
तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम् ।
कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः ४१।
करतालद्वयं दत्वा चिनोति तुलसीदलम् ।
यथा न कंपते शाखा तुलस्या द्विजसत्तम ४२।
पत्रस्य चयने देवी भग्नशाखा यदा भवेत् ।
तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः ४३।
शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम् ।
तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः ४४।
कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम् ।
सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा ४५।
जैमिनिरुवाच-
तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभ ।
तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत ४६।
व्यास उवाच-
यथा प्रियतमा विष्णोस्तुलसी सततं द्विज ।
तथा प्रियतमा धात्री सर्वपापप्रणाशिनी ४७।
तुलसीवृक्षमासाद्य या यास्तिष्ठंति देवताः ।
आमलक्यास्तले तास्ता निवसंति द्विजोत्तम ४८।
गंगादीनि च तीर्थानि तत्रैव द्विजसत्तम ।
विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति ४९।
अशुभं वाशुभं वापि यत्कर्मामलकीतले ।
क्रियते मानवैर्विंप्र भवेत्तत्सत्यमक्षयम् ५० 7.24.50।
पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम् ।
स मुक्तः पापजालेन सायुज्यं लभते हरेः ५१।
धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिने ।
स्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत् ५२।
न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा ।
तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम् ५३।
धात्र्या तुलस्या हीनं च निलयं यस्य भूसुर ।
अलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः ५४।
स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न च ।
श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः ५५।
धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराः ।
न धात्री तुलसी पत्रं तत्रैवाखिलपातकम् ५६।
धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः ।
तस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह ५७।
धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरः ।
तस्य देहं समाश्रित्य तिष्ठंति सर्वदेवताः ५८।
धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरः ।
तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम् ५९।
यस्तु धात्रीफलं भुंक्ते मानवोऽखिलतत्ववित् ।
तद्देहाभ्यंतरस्थायि सर्वं पापं विनश्यति ६०।
धात्रीफलमयीं मालां यो वहेद्दिवजसत्तम ।
ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम् ६१।
श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः ।
गङ्गामरणजं पुण्यं संप्राप्नोति न संशयः ६२।
तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः ।
सद्य एव प्रमुच्यंते जन्मकोटिशतैरपि ६३।
नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम् ।
दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः ६४।
धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम् ।
स ददाति हरेरंगे घातं नास्त्यत्र संशयः ६५।
सर्वदेवमयी धात्री विशेषात्केशवप्रिया ।
सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ६६।
धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः ।
भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात् ६७।
इति श्रीपद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः २४ ।