पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

व्यास उवाच-
ब्रह्मणो वचनं श्रुत्वा हरिशर्मा द्विजोत्तमः ।
भूयोऽपि तं नमस्कृत्य भक्त्या प्राहेति जैमिने १।
हरिशर्मोवाच-
प्रोक्तानि यानि दानानि सुखहूनि त्वया प्रभो ।
कस्मै देयानि दानानि तन्मे गदितुमर्हसि २।
ब्रह्मोवाच-
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ।
तस्मै देयानि दानानि भक्तिश्रद्धासमन्वितैः ३।
सर्वदेवाश्रयो विप्रः प्रत्यक्षस्त्रिदशो भुवि ।
स तारयति दातारं दुस्तरे विश्वसागरे ४।
ब्राह्मण उवाच-
सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम ।
तेषां मध्ये तु कः श्रेष्ठः कस्मै दानं प्रदीयते ५।
ब्रह्मोवाच-
सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि ।
स्तेयादिदोषतप्ता ये ब्राह्मणा ब्राह्मणोत्तम ६।
अस्माकं द्वेषिणस्ते च परेभ्यो न कदाचन ।
अनाचारा द्विजाः पूज्या न च शूद्रा जितेन्द्रियाः ।
अभक्ष्यभक्षका गावो लोकानां मातरः स्मृताः ७।
माहात्म्यं भूमिदेवानां विशेषादुच्यते मया ।
तव स्नेहाद्द्विजश्रेष्ठ निशामय समाहितः ८।
क्षत्त्रियाणां च वैश्यानां शूद्राणां गुरवो द्विजाः ।
अन्योन्यं गुरवो विप्राः पूजनीयाश्च भूसुराः ९।
ब्राह्मणं पूजयेद्यस्तु विष्णुबुद्ध्या नरोत्तम ।
आयुः पुत्रश्च कीर्तिश्च संपत्तिस्तस्य वर्द्धते १०।
संचिनोति द्विजं यस्तु मूढधीर्मानवो भुवि ।
सुदर्शनेन तच्छीर्षं हंतुमिच्छति केशवः ११।
पुष्पहस्तं पयोहस्तं देवहस्तं च जैमिने ।
न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यंगितविग्रहम् १२।
जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम् ।
देवपूजां प्रकुर्वंतं न नमेद्ब्राह्मणं बुधः १३।
बहिष्क्रियां प्रकुर्वंतं भुंजानं च द्विजोत्तम ।
तथा सामानि गायंतं न नमेद्ब्राह्मणं बुधः १४।
ब्राह्मणा यत्र तिष्ठंति बहबो द्विजसत्तम ।
प्रत्येकं तु नमस्कारस्तत्र कार्यो न धीमता १५।
कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् ।
स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदाचन १६।
कृतप्रणामंतनयंनमेतांपितरौनच ।
कृतप्रणामाः सर्वेऽपि नमस्कार्या द्विजैर्द्विजाः १७।
कृतदोषान्द्विजान्गाश्च न द्विषन्ति विचक्षणाः ।
द्विषंति वापि मोहेन तेषां रुष्टः सदा हरिः १८।
याचकान्ब्राह्मणान्यस्तु कोपदृष्ट्या प्रपश्यति ।
सूचीप्ररोपणं तस्य नेत्रयोः कुरुते यमः १९।
विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते ।
तस्मिन्वक्त्रे यमस्तप्तं लोहदंडं ददाति वै २०।
ब्राह्मणो यद्गृहं भुंक्ते तद्गृहे केशवः स्वयम् ।
देवताः सकला ये च पितरश्च सुरर्षयः २१।
विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः ।
देहस्थं पातकं तस्य सर्वमेवाशु नश्यति २२।
कोटिब्रह्माण्डमध्येषु संति तीर्थानि यानि वै ।
तीर्थानि तानि सर्वाणि विप्रपादे तु दक्षिणे २३।
विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम् ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः २४।
सर्वपापानि घोराणि ब्रह्महत्यादिकानि च ।
सद्यस्तस्य विनश्यंति विप्रपादांबुधारणात् २५।
क्षयाद्या व्याधयः सर्वाः परमक्लेशदायिकाः ।
गच्छंति विलयं सद्यो विप्रपादांबुधारणात् २६।
पित्रर्थं यानि तोयानि दीयंते विप्रपादयोः ।
तैस्तृप्ताः पितरः स्वर्गे तिष्ठंत्याचंद्रतारकम् २७।
प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः ।
तेनार्चितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः २८।
विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत् ।
सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती २९।
विप्रं प्रदक्षिणीकृत्ये वंदते यो नरोत्तमः ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ३०।
यो दद्यात्फलतांबूलं विप्राणां पादसेचनात् ।
रोगी रोगात्प्रमुच्येत पापी मुच्यत पातकात् ३१।
मुच्यते बन्धनाद्बद्धो विप्राणां पादसेचने ।
अनपत्याश्च या नार्यो मृता पत्याश्च याः स्त्रियः ३२।
बह्वपत्या जीववत्सा विप्रपादस्य सेचनात् ।
माहाम्त्यं शृणु विप्रेन्द्र सर्वपापप्रणाशनम् ३३।
द्विजांघ्रिसेचनस्याहं समासेन ब्रवीमि ते ।
पूर्वं भद्रक्रियो नाम पवित्रकुलसंभवः ३४।
बभूव ब्राह्मणो विष्णोः परिचर्यापरायणः ।
वेदवित्सदयः शांतः पितृभक्तिपरायणः ३५।
अतिथीनां कृता पूजा ज्ञातिपूजाकरस्तथा ।
एकदा स द्विजश्रेष्ठस्तैलाभ्यंगितविग्रहः ३६।
जगाम सरसीं स्नातुं गृहीतस्नानवस्त्रकः ।
कृतस्नानः स विप्रेन्द्रो विधिना तर्पणादिकम् ३७।
चकार सर्वशास्त्रज्ञः सर्वलोकहिते रतः ।
समाप्य स्नानकर्माणि हरिनामानि कीर्तयन् ३८।
आजगाम स्वके गेहे हरिपूजापरोऽभवत् ।
पादौ प्रक्षालयामास पानीयैरतिशीतलैः ३९।
प्रक्षालितांघ्रिहस्तोऽसौ ब्राह्मणो ब्राह्मणार्चकः ।
स्थापयामास सर्वाणि स्नानोपकरणानि च ४०।
द्वारदेशे द्विजश्रेष्ठ निदाघतपनातपैः ।
तापितो भषकः कश्चिदग्निकल्पैः समागतः ४१।
विप्रपादोदके तस्मिन्प्रसुप्तोत्यंतशीतले ।
विप्रपादोदकस्पर्शाद्भषक्तोऽत्यंतपातकी ४२।
विमुक्तः पातकैः सर्वैः कोटिजन्मकृतैरपि ।
स सुप्तो मन्दिरद्वारि भषको विकलस्तृषा ४३।
पानीयं याचयामास ताडितो द्विजकिंकरैः ।
जगाम पंचतां सद्यस्तत्रैव भषको द्विजः ४४।
द्विजाङ्घ्रिसेचनस्पर्शाद्भषको वीतकल्मषः ।
तमालोक्य महात्मानं मूर्तिमंतमिवेश्वरम् ४५।
विनयावनतः प्राह ब्राह्मणोऽसौ तपोधनः ।
ब्राह्मण उवाच-
कस्त्वं ब्रूहि महाभाग केन दुःखी तु कर्मणा ।
भषकस्य कुले जातो नानादुःखसमाकुले ४६।
ब्रह्मोवाच-
वचनं तस्य विप्रर्षेः समाकर्ण्य महायशाः ।
कथयामास वृत्तांतं मूलतः सर्वमात्मनः ४७।
अहमासं सर्वभौमः शङ्खनामा महाबलः ।
चतुर्वर्षसहस्राणि महीं कृत्स्नामपालयम् ४८।
मयाज्ञया कृताः सर्वे जिताश्च रिपवो युधि ।
दत्तानि सर्वदानानि पालिताज्ञा तयोनिजाः ४९।
एकदाऽहं महाभागं संधितः स्मरसायकैः ।
बलाज्जनवधूं कांचिज्जहार भृशसुंदरीम् ५० 7.21.50।
तेन पापप्रभावेण मम श्रीः संशयं गता ।
ततस्समस्तैर्लोकैश्च निरस्तोऽहं महाबलः ५१।
ततस्तु भ्रष्टराज्योऽहं काननाभ्यंतरे स्थितः ।
क्षुधातृषापरिश्रांतःकदाचित्पंचतां गतः ५२।
अंतकस्य पुरं गत्वा दुःखं भुक्तं मया चिरम् ।
तदाकर्ण्य विप्रेन्द्र शृण्वतां चित्तदुःखदम् ५३।
संतप्तलोहशस्त्रायां तप्ता ताम्रमयीं महीम् ।
संरेमे प्रज्वलद्वह्निं शिखाततिसुभीषणाम् ५४।
ततस्तु शमनादेशाल्लोहस्तंभं सुभीषणम् ।
ज्वलता वह्निना तप्तं समालिङ्ग्य स्थितोऽस्म्यहम् ५५।
शीते क्षुरांबुधाराभिः सिक्तोऽहं यमकिङ्करैः ।
दुःखमन्यच्च सुमहद्भुक्तं तत्र यमालये ५६।
ततो नरकशेषे च जन्मासाद्य मुहुर्मुहुः ।
पापयोनौ मया दुःखमनुभूतं चिरं महत् ५७।
त्वत्पादजलसंसर्गान्मुक्तोऽहं पापरज्जुना ।
गच्छामि परमं धाम दुर्ल्लभं योगिनामपि ५८।
त्वं मे गुरुर्द्विजश्रेष्ठ नमस्तेऽस्तु महात्मने ।
त्वत्प्रसादाद्विमुक्तोऽहं पापैर्यामि पुरं हरेः ५९।
भद्रक्रिय उवाच-
पूर्वजन्मकथा राजन्मनुष्यो न कदाचन ।
अतस्तु तनयं त्यक्त्वा सर्वदा नीतिमाचरेत् ६०।
नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै ।
चिरं भुनक्ति पृथिवीं कंटकैः परिवर्जिताम् ६१।
यस्मै न रोचते नीतिर्भूपालाय दुरात्मने ।
भ्रष्टश्रीरचिरेणापि स भवेन्नात्र संशयः ६२।
आयुर्बलं यशो मित्रं विजयं सुखमिच्छता ।
मंत्रिणः पंडिता राज्ञा नियोज्याः सर्वदैव हि ६३।
अवज्ञाय महीभर्तुस्त्यजंते सादरं बुधाः ।
सभायां बुधहीनायां नीतिर्बलवती नहि ६४।
ततो नीतौ विनष्टायां सहसा धरणीपतेः ।
राजश्रियो विनश्यंति सकोशबलवाहनाः ६५।
ब्राह्मणान्गणकांश्चैव वैद्यांश्च बांधवांस्तथा ।
नृपाः कल्याणमिच्छंति न द्विषंति कदाचन ६६।
गतश्रीर्गणकद्वेष्टा वैद्यद्वेष्टायुवर्जितः ।
ज्ञातिद्वेष्टानिष्कुलः स्याद्द्विजद्वेष्टाखिलार्तिभाक् ६७।
राजानः पितरः प्रोक्ताः पुत्रा जानपदास्तथा ।
ततो भूपाः पालयंति प्रजाः पुत्रमिवौरसान् ६८।
पौरलोके तथा कुर्याद्यथा स्नेहो निजात्मजे ।
प्रजापीडाकरा ये च भूपाला अतिपापिनः ६९।
शिरःस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः ।
विवेकिनो महीपालाः पालयंति यथा प्रजाः ७०।
तथा तानपि देवेशः पालयत्यनिशं हरिः ।
प्रजानां पालनं दंडं द्वेऽपि राज्ञे शुभावहे ७१।
द्वाभ्यां विवर्जिता भूपास्ते विज्ञेया नृपाधमाः ।
दुष्टानां शासनं चैव शिष्टानां प्रतिपालनम् ७२।
प्रकुर्वंतो महीपालाश्चिरं नंदंति भूतले ।
न्यायेनोपार्जितं वित्तं यत्नाद्रक्षेन्महीपतिः ७३।
दुर्वृत्तो हि महीपालो विपत्तौ न हि विस्तरेत् ।
नृपाः कल्याणमिच्छंतो निजराज्यं शुभाशुभम् ७४।
पश्यंति नित्यं विप्रेन्द्र सत्वराश्चारचक्षुषा ।
परचक्रभयं यावन्नायाति चिंतयेद्भयम् ७५।
आगते तु भये भूप आचरेन्निर्भयोऽपि च ।
ज्ञातौ वापि च मित्रे वा पुत्रे वापि च मंत्रिणि ७६।
कुर्यान्मुखेन गांभीर्यं मनसा प्रेमकेवलम् ।
मंत्रिणो ज्ञातयः पुत्राः प्रजाश्च भ्रातरस्तथा ७७।
गांभीर्यहीनं भूपालं मन्यंते नहि भूपवत् ।
तिष्ठंति प्रथमं दूरे न संति पुरतस्तथा ७८।
लोकाश्रयं न हीच्छन्ति त्यक्तगांभीर्यभूपतेः ।
एकश्च मंत्री राजा वै चिरं राज्यत्वमिच्छता ७९।
कर्तव्यः सकले राज्ये वृद्धये न हि भूसुर ।
अत्यंतबुद्धिवृत्तीनां भृत्यानां सपदं हरेत् ८०।
तस्मात्संसदि भूपालो भृत्यमन्यं नियोजयेत् ।
मूर्खस्त्रीविजितो राजा गीतवाद्यरतः सदा ८१।
तुरंगवाहनैर्हीनः सहसा विपदं व्रजेत् ।
आचारग्रहणं सत्यं स्ववाक्यप्रतिपालनम् ८२।
गांभीर्यं चेति भूपानां लक्षणानि द्विजोत्तम ।
स कथं नृपतिर्यस्तु प्रतापेन विवर्जितः ८३।
स कथं नृपतिर्येनाऽनिर्जिता परमेदिनी ।
जितायां परमेदिन्यां यावत्पादं व्रजेन्नृपः ८४।
प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ।
परभूमिजयाकांक्षी हतो नृपतिभिर्युधि ८५।
तदागच्छेत्परं स्थानं विमुक्तः सर्वपातकैः ।
युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् ८६।
संग्रामे प्राप्तमृत्युर्वा दिवीन्द्र संपदं लभेत् ।
त्यक्तशस्त्रं त्यक्तसत्वं पलायनपरायणम् ८७।
योद्धारं यदि यो हंति स भूपो यात्यधोगतिम् ।
पलायनपरो युद्धे तद्धंता च द्विजोत्तम ८८।
तावुभावपि तिष्ठेतां नरकेऽत्यंतदुःसहे ।
युद्ध्येत्साहसवान्योद्धा तद्धंता च द्विजोत्तम ८९।
तिष्ठेतां तावपि स्वर्गे यावच्चन्द्र दिवाकरौ ।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ९०।
प्रजापालनकृद्राजा कदाचिन्नावसीदति ।
ब्रह्मोवाच-
इति ब्रुवति भूपाले तस्मिन्गलितकल्मषे ९१।
पुष्पवृष्टिरभूत्तस्मिन्महती गगनाद्द्विज ।
अथ दूताः समायाताः केशवस्य महात्मनः ९२।
राजहंसयुतं दिव्यं रथमादाय सुन्दरम् ।
रथं स तं समारुह्य दिव्यं कनकनिर्मितम् ९३।
जगाम विष्णुभवनं स राजा गतकल्मषः ।
विप्रपादोदकस्यैतन्माहात्म्यं ते प्रकीर्तितम् ९४।
तच्छ्रुत्वा भक्तिभावेन नरो निर्वाणमाप्नुयात् ।
इति ते कथितं सर्वं श्रोतुं यद्वांछितं त्वया ९५।
गच्छ ब्राह्मण भद्रं ते चक्रिणो निलयं प्रति ।
हरिशर्मोवाच-
क्षुधानलेन महता शरीरं मम दह्यते ९६।
केनोपायेन भगवन्क्षुधाशांतिर्भवेन्मम ।
एतन्मे वद देवेश भक्तस्त्वं भक्तवत्सलः ९७।
प्राप्नोमि सुमहद्दुःखं नित्यं दग्धक्षुधानलैः ।
ब्रह्मोवाच-
यच्छरीरं त्वया पुष्टं सततं भोजनैः कृतम् ९८।
भुंक्ष्व तस्य शरीरस्य मांसानि द्विजसत्तम ।
आत्मतृप्तिं प्रकुर्वन्ति भोजनेन परस्य ये ।
मांसानि स्वशरीराणां भुंजते तेपरत्र हि ९९।
व्यास उवाच-
ब्रह्मणो वचनं श्रुत्वा निष्ठुरं द्विजसत्तमः ।
पुनस्तुष्टाव तं देवं वचनैः कोमलाक्षरैः १०० 7.21.100।
ब्राह्मण उवाच-।
प्रसीद देवदेवेश शरणागतपालक ।
क्षमस्व सकलं दोषं सुरश्रेष्ठ नमोऽस्तु ते १०१।
मलमूलप्रकीर्णानि वपूंषि वहतां नृणाम् ।
सर्व एव प्रभो दोषाः संति केचिद्गुणा न च १०२।
कृतं मया मोहवता दूषणं क्षंतुमर्हसि ।
शरणापन्नलोकानां सद्भिर्दोषो न चेक्ष्यते १०३।
आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ।
देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः १०४।
इत्येवमुक्तं वचनं भक्त्या तेनाग्रजन्मना ।
उवाच सदयो ब्रह्मा सर्वज्ञो ब्राह्मणप्रियः १०५।
ब्रह्मोवाच-
शोकं मा कुरु विप्रेन्द्र शृणु मे वचनं शुभम् ।
आहारो लभते येन प्रकारेणात्र संप्रति १०६।
आत्मनो जायते पुत्रो यथैवात्मा तथा सुतः ।
तस्मात्पुत्रकृतं कर्म लभंते पितरः खलु १०७।
चिरं तिष्ठसि देवस्य भवनेऽत्यंतशोभने ।
एवमुक्तस्ततस्तेन स विप्रः क्षुधयाकुलः १०८।
स्वप्ने संदर्शनं दत्वा पुत्रं वचनमब्रवीत् ।
ब्राह्मण उवाच-
दीक्षितोऽसि सुतश्रेष्ठ तथास्तु परमां शिवम् १०९।
तवास्मि जनकः सौम्य ममदुःखं निशामय ।
तपःप्रभावैः परमं धाम प्राप्तं मया सुत ११०।
क्षुधानलेन संतप्तस्तत्र सीदाम्यहं सदा ।
यदा मयि पितृस्नेहस्तवास्ति सुत संप्रति १११।
तदान्नमुदकं चापि मदर्थं दीयतां द्विज ।
यत्किंचिद्दीयते पुत्रैः पित्रर्थं क्षितिमंडले ११२।
लभंते पितरस्तच्च यत्पुत्राः पितृदेहजाः ।
पुरा परमया भक्त्या पूजितो भगवान्मया ११३।
गीतैर्वाद्यैश्चनृत्यैश्च स्तवपाठैश्च शोभनैः ।
गंधैर्धूपैश्च नैवेद्यैर्घृतपूर्णप्रदीपकैः ११४।
पाद्यार्घ्याचमनीयैश्च ध्यानैरावाहनादिभिः ।
न दत्तं जगदीशाय कृपणेन मयात्मज ११५।
अन्नमत्रमपि क्वापि नैवेद्यं पापहारिणे ।
अतिथेर्न कृता पूजा तोयैरन्यैः कदाचन ११६।
ज्ञातीनां याचकानां च संतुष्टिर्न कृता मया ।
तेनैव कर्मणा पुत्र नारायणगृहेऽपि च ११७।
क्षुधानलेन संतप्तः सीदामि प्रतिवासरे ।
अतोऽन्नतोयदानानि दरिद्राय द्विजातये ११८।
दत्वा क्षिप्रं सुरश्रेष्ठ प्राणरक्षां कुरुष्व भोः ।
अथवा न करोषि त्वं निष्ठुरत्वाद्यदा भवान् ११९।
स्वमांसान्येव भोक्ष्यामि तदा वै विष्णुमंदिरे ।
अथाऽसौ क्षुधितो विप्रः शुष्ककंठोष्ठतालुकः १२०।
इत्युक्त्वा दीक्षितं पुत्रमदृश्यः सहसाऽभवत् ।
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे १२१।
स्वप्ने यदुक्तं पित्रा तु चिंतयामास दीक्षितः ।
आत्मनः कर्मदोषेण परलोकेऽपि मत्पिता १२२।
क्षुधया दग्धसर्वाङ्गः सीदति प्रतिवासरम् ।
धिगस्तु मां मंदधियं कृपणप्रवरञ्जनम् १२३।
मयापि पितृपुण्येन न किञ्चिदपि दीयते ।
इति संचिंत्य बहुधा दीक्षितोऽपि द्विजोत्तम १२४।
ददौ दानानि विप्रेभ्यः श्रद्धाभक्तिसमन्वितः ।
तेन पुण्यप्रभावेण तृषयारहितः क्षुधा १२५।
तस्थौ नारायणागारे यावत्कालं शृणुष्व तत् ।
चतुर्युगसहस्राणि ब्रह्मणोऽहं प्रकीर्तितम् १२६।
भवंति तस्मिन्नेवाह्नि मनवश्च चतुर्दश ।
इंद्राश्चतुर्द्दश प्रोक्तास्तस्मिन्नेव दिने च ते १२७।
भुंजते ब्राह्मणः श्रेष्ठ विषयान्स्वान्पृथक्पृथक् ।
एकस्मिन्ब्रह्मदिवसे भुक्त्वा स्वान्विषयाञ्छुभान् १२८।
इन्द्राश्च मनवश्चैव विनश्यंति चतुर्दश ।
विष्णुलोके स्थिते तस्मिन्हरिशर्मातिभास्वरे १२९।
समस्तसुखदे रम्ये ब्रह्मणो दिवसो गतः ।
तत्रासौ कालमेतावद्भुक्त्वा भोगान्मनोरमान् १३०।
परमं ज्ञानमासाद्य प्रविवेश हरेस्तनुम् ।
व्यास उवाच-
अन्नतोयसमं दानं संसारे नास्ति जैमिने १३१।
सर्वदानफलान्येव अन्नतोयप्रदानतः ।
न च पात्रपरीक्षा च न कालनियमः क्वचित् २३२।
अन्नतोयप्रदानेषु निरुक्तस्तत्वदर्शिभिः ।
अन्नतोयप्रदानानि कर्तव्यानि सदैव हि १३३।
एतत्पठंति मनुजाः परमादरेण माहात्म्यमन्नजलयोश्च तथा द्विजानाम् ।
ते प्राप्य चान्नजलदानफलं ततोंऽते नारायणस्य निलयं सुखदं प्रयांति १३४।
इति श्रीपद्मपुराणे क्रियायोगसारे अन्नदानजलदानमाहात्म्यंनाम एकविंशतितमोऽध्यायः २१ ।