पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २१ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

जैमिनिरुवाच-
गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा ।
अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् १।
विप्रपादोदकस्यापि माहात्म्यं पापनाशनम् ।
त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया २।
इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम् ।
एकादश्याः फलं सर्वं सर्वपातकनाशनम् ३।
कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः ।
कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ४।
का वा पूज्यतमा तत्र देवता सद्गुणार्णव ।
अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ५।
व्यास उवाच-
एकादश्याः फलं सर्वं वक्तुं नारायणादृते ।
शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ६।
सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् ।
सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ७।
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् ।
स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ८।
स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम् ।
न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ९।
परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम् ।
शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् १०।
गुरुनिंदा सक्थिभागं कन्याविक्रय शेफसम् ।
विश्वासवाक्यकथनं पायुं प्रीतिवधांघ्रिकम् ११।
उपपातकरोमाणं महाकायं भयंकरम् ।
कृष्णवर्णं पिंगनेत्रं स्वाश्रयात्यंतदुःखदम् १२।
तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम् ।
सदयश्चिंतयामास प्रजाक्लेशहरः प्रभुः १३।
सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः ।
प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् १४।
अथासौ भगवान्विष्णुर्बभूव स्वयमंतकः ।
ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् १५।
पापं यः सेवते मूढो न याति परमं पदम् ।
यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् १६।
एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः ।
वैनतेयं समारुह्य जगाम यममंदिरम् १७।
तं दृष्ट्वा जगतामीशं नारायणमनामयम् ।
धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः १८।
यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः ।
उवास द्विजशार्दूल पीठे कनकनिर्मिते १९।
तत्रोपविष्टो भगवान्यमेन सह दैत्यहा ।
शुश्राव क्रंदनं ध्यानं दक्षिणस्यां दिशि प्रभो २०।
अथासौ कमलाकांतो विस्मयाविष्टमानसः ।
उवाचेति यमं तेषां कुतोऽयं क्रंदनध्वनिः २१।
यम उवाच-
देवपातकिनो मर्त्या निरयेऽत्यंतदुःखदे ।
स्वहस्तार्जितदोषेण सीदंति च ममालये २२।
पापवृक्षफलं विष्णो भोक्तुमत्यंतदुःखदम् ।
रुदंति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् २३।
इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः ।
जगाम सहसा तत्र पापवंतो रुदंति ते २४।
तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान् ।
भगवांश्चिंतयामास हृदिजातदयः प्रभुः २५।
मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम् ।
मयि स्थितेऽपि नरके सीदंत्येकांतदुःखदे २६।
एतच्चान्यच्च विप्रेन्द्र विचिंत्य करुणामयः ।
बभूव सहसा तत्र स्वयमेकादशी तिथिः २७।
ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम् ।
ते च सर्वे परं धाम ययुर्गलितकल्मषाः २८।
तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः ।
समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् २९।
एकादशीं तिथिं कृत्वा पावयंतीं जगत्त्रयम् ।
शंकितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ३०।
ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज ।
तुष्टाव कमलाकांतं भगवंतं जनार्दनम् ३१।
तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः ।
उवाचाहं प्रसन्नोऽस्मि किंतेऽभिमतमुच्यताम् ३२।
पापपुरुष उवाच-
सृष्टो भगवता विष्णो निजानुग्रहदुःखदः ।
एकदश्याः प्रभावेण क्षयं प्राप्नोमि सांप्रतम् ३३।
मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः ।
भविष्यंति विनिर्मुक्ता भवबंधैः शरीरिणः ३४।
सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम् ।
संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ३५।
क्रीडितुं यदि ते वांछा जगत्कौतुकमंदिरे ।
एकादशी तिथि भयात्तदा मां त्राहि केशव ३६।
अन्यैः पुण्यसहस्रैस्तु मां हंतुं न हि शक्यते ।
शक्नोत्येकादशी पुण्या मां हंतुं वरदो भव ३७।
मनुष्यपशुकीटेषु तथाऽन्येषु च जंतुषु ।
पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ३८।
नदीषु च समुद्रेषु वनेषु प्रांतरेषु च ।
स्वर्गे मर्त्ये च पाताले देवगंधर्वपक्षिषु ३९।
एकादशीतिथि भयाद्भूयान्विष्णो पलायितः ।
कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ४०।
कोटिब्रह्माण्डमध्येषु देवदेव सनातन ।
एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ४१।
एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो ।
तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ४२।
व्यास उवाच-
इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम् ।
भूमौ निपत्य चक्रंद स्रवद्वाष्पविलोचनः ४३।
ततः प्रहस्य भगवान्मधुकैटभमर्दनः ।
एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ४४।
श्रीभगवानुवाच-
उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु ।
एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ४५।
एकादश्यां समायांत्यां प्रपुनन्त्यां जगत्त्रयम् ।
स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ४६।
अन्नमाश्रित्य तिष्ठंतं भवंतं पापपूरुषम् ।
न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ४७।
ततो देवोऽपि विप्रर्षे तत्रैवांतर्हितोऽभवत् ।
कृतार्थः पापपुरुषो ययौ च स यथागतः ४८।
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः ।
आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ४९।
संसारे यानि पापानि तान्येवैकादशीदिने ।
अन्नमाश्रित्य तिष्ठंति श्रीमन्नारायणाज्ञया ५० 7.22.50।
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् ।
येचान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः ५१।
भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः ।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ५२।
ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम ।
सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ५३।
अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः ।
क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः ।
त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ५५।
तैः पंञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम ।
पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ५६।
तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः ।
महापातकयुक्तोऽपि करोत्येकादशीं यदि ५७।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ।
माता न प्रोच्यते माता माता ह्येकादशी तिथिः ५८।
इहैव पालयेन्माता सर्वत्रैकादशी तिथिः ।
एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ५९।
स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः ।
एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ६०।
तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च ।
एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ६१।
शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः ।
तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ६२।
यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः ।
तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ६३।
आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६४।
वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम् ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६५।
कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६६।
व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः ।
तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ६७।
यथा समस्तदानानामन्नदानं वरं स्मृतम् ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६८।
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः ।
तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ६९।
इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः ।
मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ७०।
यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः ।
तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ७१।
वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज ।
कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ७२।
निर्भया मानवाः सर्वे तिष्ठंति क्षितिमण्डले ।
एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ७३।
एकामेकादशीं सम्यक्कुर्वतां किंकरो यमः ।
एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ७४।
एकादशीव्रतविधिं संक्षेपात्कथयाम्यहम् ।
समाहितमना भूत्वा शृणु सत्तम जैमिने ७५।
दशम्यां प्रातरुत्थाय कर्तव्यं दंतधावनम् ।
ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ७६।
ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम् ।
हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ७७।
आमिषं लवणं चैव तथा मांसं मसूरकम् ।
बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ७८।
द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा ।
भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ७९।
निम्बपत्रं च वृंताकं दग्धं जंबीरमेव च ।
घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ८०।
अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम् ।
तांबूलभक्षणं चैव दशम्यां परिवर्जयेत् ८१।
दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम ।
द्वादश्यामपि तान्येव निषिद्धानि न संशयः ८२।
दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः ।
सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ८३।
अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती ।
अपराह्णे पुनः कुर्याद्विधिना दंतधावनम् ८४।
सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम् ।
केशवं मनसा ध्मायन्मंत्रमेतमुदीरयेत् ८५।
एतद्गृहीतं गोविंद मया त्वत्पुरतो व्रतम् ।
सिद्धिं गच्छतु निर्विघ्नं तव पादानुकंपया ८६।
अतिचंचलचित्तोऽहं लोभमोहमयो नरः ।
शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ८७।
इमौ मंत्रौ पठित्वा तु तमेव कुसुमांजलिम् ।
दत्वा नारायणायाथ दंडवत्प्रणमेद्भुवि ८८।
तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः ।
कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ८९।
ततः प्रभाते विमले न कुर्याद्दंतधावनम् ।
कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ९०।
नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम् ।
ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ९१।
एकत्र जागरं कुर्यात्पुरतो जगतांपतेः ।
समातृकः सभार्यश्च सभ्राता सपिता तथा ९२।
तथा सपुत्रमित्रश्च कुरुते जागरं हरेः ।
स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ९३।
शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमंदिरे ।
बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ९४।
तंडूलचूर्णपंकेन विष्णोरायतनेषु च ।
अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ९५।
पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम् ।
शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ९६।
वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः ।
उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ९७।
पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः ।
मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ९८।
पताकाप्रचलंती च यावद्भवति वायुना ।
तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ९९।
पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे ।
स्थापितव्याः परं स्थानमिच्छद्भिर्हरिवासरे १०० 7.22.100।
विष्णोः शिरसि यच्छत्रं धत्ते चारुतरं जनः ।
प्रतिजन्मनि विप्रर्षे क्षत्त्री भवति स क्षितौ १०१।
वासरे वासुदेवस्य पुष्पमंडपकृन्नरः ।
प्रतिपुष्पं लभेत्पुण्यं वाजिमेधशतोत्तरम् १०२।
वासुदेवदिने पुष्पैः सुंगधैर्मंडयन्बुधः ।
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०३।
यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे ।
स सौधवासी विप्रर्षे भवति त्रिदशालये १०४।
निर्माय वस्त्रभवनं तत्र बध्नाति मानवः ।
श्वेतं वा लोहितं वापि कृष्णं वासोऽच्युतप्रियः १०५।
शालिग्रामशिलां तत्र प्रतिमां वा श्रियःपतेः ।
पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तितो व्रती १०६।
आदौ स्वस्त्ययनं कुर्यात्संकल्पं च तथा बुधः ।
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०७।
भूतशुद्धिं निजां विप्र विधानं शास्त्रभाषितैः ।
ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् १०८।
ध्यायन्नारायणं देवं हृदयांभोजवासिनम् ।
आसीनं हेमपीठे च तथा मणिमयेऽपि च १०९।
आसीनं हेमपीठे मणिमयज्वलनालंकृतं क्रीडवेशं बिभ्रल्ले।
खोज्ज्वलाभ्रद्युतिरुचिरतनुं दीर्घदोर्भिश्चतुर्भिः ।
नित्यं विभ्राजमानं सकलकरलयैः सायुधैः पद्मनेत्रैः ।
पश्यंतं श्रीमुखं तच्छ्रमनुदमनिशं तं भजेऽपाङ्गदृष्ट्या ११०।
आगच्छ भगवन्देवसहितः श्रीपतेः प्रिय ।
कर्तव्या हि मया भक्त्या सपर्यास्मिन्व्रते तव १११।
सर्वलक्षणसंपन्न लक्ष्म्या सह जगद्गुरो ।
अस्मिन्वरासने तिष्ठ यावत्पूजां करोमि ते ११२।
समस्तलोकविख्यात कीर्ते नारायणप्रभो ।
कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित ११३।
पाद्यं गृहाण देवेश नारायणसुवासितम् ।
पादद्वयरजोहारि पवित्रमतिशीतलम् ११४।
अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुतम् ।
अखंडतंडुलोपेतं पुंडरीकनिभेक्षण ११५।
इदमाचमनीयं ते सुपवित्रं ददाम्यहम् ।
गृहाण परमानंद परमानंदवर्द्धनम् ११६।
मया दत्तेन गंधेन जरासंधविनाशन ।
तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगंधिना ११७।
ददाम्यहं पवित्रार्थं जगतामादिकारकम् ।
इदमाचमनं देव तद्गृहाण सुरेश्वर ११८।
सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये ।
अतस्तुभ्यं सुरश्रेष्ठ धूपोऽयं दीयते मया ११९।
तमसः स्तोमसंहर्ता घृतपूर्णो जनार्दन ।
तवास्तु प्रीतये देव एष दीपो जनार्दन १२०।
सोत्तरीयमिदं वस्त्रं बस्तिश्रोणिसुशोभनम् ।
ददाम्यहं ते देवेश सोपवीतं जगद्गुरो १२१।
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वर १२२।
मुखदुर्गन्धहरणं कर्पूरखदिरान्वितम् ।
गृहाण विष्णो तांबूलं कैवल्यद महामते १२३।
विधिनानेन गोविन्दमुपहारैरनुत्तमैः ।
पूजयेत्संवृतो भक्त्या प्रहरेषु चतुर्ष्वपि १२४।
नानोपहारान्हरये यो यच्छेद्धरिवासरे ।
वित्तशाठ्यं न कर्तव्यं कर्मणां फलमिच्छता १२५।
ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः ।
निशि जागरणं कार्य्यं नृत्यगीतस्तवादिभिः १२६।
प्रदक्षिणं द्विजश्रेष्ठ नामानि कमलापतेः ।
सर्वपापविनाशीनि स्मर्तव्यानि व्रते रतैः १२७।
स्फुरंतं प्रतिवक्त्रेभ्यो हरिनामध्वनिं जनाः ।
शृण्वंति ते विमुक्ताः स्युर्महद्भिः पापसंचयैः १२८।
न पाखंण्डजनालापः कर्तव्यो हरिवासरे ।
पाखंडालापमात्रेण सर्वधर्मो विनश्यति १२९।
नारायणयशोगीतं प्रतिकंठं विनिःसृतम् ।
श्रुत्वा मूढा न तृप्यंति श्वानो वीणाक्वणं यथा १३०।
संतो हर्षं समायांति श्रुत्वा गीतं जगत्पतेः ।
समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः १३१।
गायंतं हरिगीतानि नृत्यंति नृत्यमुत्तमम् ।
तृप्यंति व्रतिनो दृष्ट्वा तृप्यंति कमलापतेः १३२।
व्रतिनो येन तृप्यंति विष्णोरायतने द्विज ।
प्रतिजन्मनि वै तेषां पशुता शाश्वती भवेत् १३३।
न ये गीतानि गायंति व्रतिनो हरिवासरे ।
विहीना वचनैस्ते च भ्रमंति प्रतिजन्मनि १३४।
मृदंगादीनि वाद्यानि कर्तव्यानि हरेः पुरः ।
यतो वाद्यैर्भवेत्तुष्टो भगवान्मधुसूदनः १३५।
कुर्वंति जागरं विष्णोर्वेदाध्ययनमुत्तमम् ।
पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः १३६।
रामायणं भागवतं भारतं व्यासभाषितम् ।
अन्यानि च पुराणानि पाठ्यानि हरिवासरे १३७।
ये पठंति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने ।
प्रत्यक्षरे लभंते ते कपिलादानजं फलम् १३८।
निशि जागरणं कुर्यात्सानंदो वैष्णवो जनः ।
जितनिद्रो भवेत्सम्यग्ध्यायते केशवं हृदा १३९।
प्रदक्षिणाकारतया भूयोभूयो हरेर्द्दिने ।
निपत्य दण्डवद्भूमौ प्रणमेच्च जनार्द्दनम् १४०।
ततः प्रभाते विमले कृतपंचमहाध्वरः ।
हरिं संस्नाप्य दुग्धेन पूजयेद्भक्तिमान्व्रती १४१।
व्रतस्य दक्षिणां दद्यान्निजशक्त्या द्विजन्मने ।
ततस्तु द्वादशीमध्ये व्रती पारणमाचरेत् १४२।
पारणं कुरुते यस्तु विलंघ्य द्वादशीतिथिम् ।
जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति १४३।
द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः ।
न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः १४४।
उपवासदिने विप्र निशायामपि वैष्णवः ।
उपवासफलप्रेप्सुर्यत्नात्स्वापं विवर्जयेत् १४५।
विना जागरणं नूनमुपवासो निरर्थकः ।
अतो जागरणं कार्य्यमुभयोरपि पक्षयोः १४६।
एकादशीव्रतं येन विधिनानेन कुर्वते ।
सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः १४७।
जन्ममृत्युहरणैकनिदानं सेंद्र देवनिकरैरपि कार्यम् ।
वासुदेवदिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् १४८।
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये द्वाविंशोऽध्यायः २२ ।