पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

व्यास उवाच-
विष्णुपूजाफलं विप्र संक्षेपात्कथितं मया
इदानीं वच्मि दानानि निशामय समाहितः १
दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम्
तपसा पापमित्युक्तं न पापो दानकर्मणि २
तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च
सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ३
तस्मात्कलियुगे दानं प्रीतये कमलापतेः
कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ४
कलया कलया चन्द्र कलां संवर्द्धते तथा
दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ५
पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसंग्रहः
संचितं तु धनं प्राज्ञो दानकर्मणि संक्षिपेत् ६
धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः
दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ७
वित्तं केन सहायाति याति तेन तु को द्विज
आयाति तत्पुरा दत्तमिह पंचत्वमागते ८
दत्वा दत्वा सदा दानं मानवा ये दरिद्रति
न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ९
धनं रक्षंति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः
अंते त्यक्त्वा च तत्सर्वं निराशा यांति जैमिने १०
परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः
निर्द्धने बंधुहीने च नादत्तमुपतिष्ठते ११
स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः
नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः १२
सर्वेषामेव दानानामन्नदानं द्विजोत्तम
जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् १३
विनान्नेन न तिष्ठंति प्राणा देहेषु देहिनाम्
अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः १४
तस्मात्समस्तदानानामन्नदो लभते फलम्
अन्नदानसमं दानं जलदानं च जैमिने १५
विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते
क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते १६
तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः
जीवनं जीवनं नॄणां जीवनं न च जीवनम् १७
अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत्
अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले १८
तेन सर्वाणि दानानि कृतानि नात्र संशयः
अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु १९
बभूव हास्तिनपुरे कुबेर इव वित्तवान्
तस्मिन्नेव पुरे वेश्या बभूव सुरसुंदरी २०
ख्याता रतिविदग्धेति सर्वलक्षणसंयुता
तत्र क्षेमंकरी नाम ब्राह्मणी श्रेष्ठवंशजा २१
समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा
सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा २२
निषिद्धं कर्म कुर्वंती त्यक्त्वा यात्यविवेकताम्
तया संनिहिता विप्र वेश्यापि ब्राह्मणी च सा २३
चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा
सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने २४
पापानि चक्रतुः प्रीत्या असंख्यातानि जैमिने
ततो रतिविदग्धा सा वृद्धभावमुपागता २५
ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यंतपापिनी
कदाचिद्वारमुख्या सा जरंती तां निजां सखीम् २६
प्राहेति विस्मिता विप्र वचनं विनयान्विता
रतिविदग्धोवाच -
सखि त्वया सहानेकं दारुणं पातकं कृतम् २७
अद्यापि पातके दृष्टिर्महती वर्तते मम
सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् २८
इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते
स्थावरं सुमहत्प्राप्तं कृतपातकया मया २९
समागतमिवैतर्हि समीक्ष्य मरणं गतम्
उपार्जितेन पापेन यानि वित्तानि वै मया ३०
रक्षिष्यंत्यनपत्यायां मृतायां मयि तानि के
तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ३१
दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि
ब्राह्मण्युवाच-
मया यावन्ति वित्तानि पश्येति संचितानि च ३२
असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः
तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ३३
अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु
तस्या एवं वचः श्रुत्वा सा वेश्यात्यंतहर्षिता ३४
वित्तेन सकलेनैव अन्नदानं चकार ह
हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ३५
पूजयामास सततं भगवंतं जनार्दनम्
जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ३६
प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः
गंधपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ३७
पूजयामास देवेशं नित्यमेव जनार्दनम्
धनवानपि विप्रोऽसौ वित्तस्य क्षयशंकितः ३८
पिपीलिकामूषिकाश्च तथान्येऽपि च जंतवः
कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ३९
उपार्जितं धनं सर्वं स्वयमेव दिनेदिने
बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ४०
सुहृदां ब्राह्मणानां च बांधवानां कदापि सः
चकार न च संभाषामर्थप्रार्थनशंकया ४१
विगणय्य स्ववित्तानि सुबहूनि निजालये
मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ४२
कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यंतवित्तवान्
गणिका ब्राह्मणी सा च एककाले मृता द्विज ४३
अथ दूताः समायातास्तान्नेतुमतिभीषणाः
धर्मराजस्य देवस्य पाशमुद्गरपाणयः ४४
ते च चण्डादयो दूतास्तान्समादाय जैमिने
ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ४५
चण्ड उवाच-
आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा
तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ४६
तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम
चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ४७
यम उवाच-
एतेषां सर्वकार्याणि शुभदान्यशुभानि च
मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ४८
यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः
सर्वं विचारयामास शुभकर्माशुभं तथा ४९
चित्रगुप्त उवाच-
देवाकर्णय वक्ष्यामि पुण्यं च पातकं तथा
इयं वेश्या ब्राह्मणी च हरिशर्मा चकार यत् ५० 7.20.50
एषा रतिविदग्धाख्या गणिकाति दुराशया
चकार यानि पापानि वक्तुं तानि न शक्यते ५१
अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज
अन्नदानं चकारेयं गणिका गतयौवना ५२
अन्नदानप्रभावेण यातनागृहवासदैः
त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ५३
अन्नदानं महाराज ये कुर्वंति जनाः क्षितौ
ते पापिनोऽपि गच्छंति तद्विष्णोः परमं पदम् ५४
यावन्त्यन्नानि यच्छंति मानवाः क्षितिमण्डले
तावंत्यो ब्रह्महत्याश्च तस्य नश्यंत्यसंशयः ५५
अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम्
गृह्णतामेव पात्राणि सहसा याति सूर्यज ५६
तस्मात्पापिनामन्नानि न गृह्णंति विचक्षणाः
मोहाद्गृह्णंति ये मूढास्त एव पापभागिनः ५७
शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो
ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ५८
इयं क्षेमंकरी नाम ब्राह्मणी शुद्धवंशजा
भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ५९
त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता
बभूवात्यंतपापिष्ठा जारसंगमलोलुपा ६०
कदाचिच्छैशवे राजन्खेलंती शिशुभिः सह
रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ६१
तस्मिन्नेव दिने मेघ उदकानि ववर्ष च
पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ६२
ततो मध्याह्नसमये गौरेकस्तृषितो नृप
अपिबत्तत्र पानीयं तापितस्तपनातपैः ६३
तेनैव सर्वपापानि विनष्टानि महांति वै
तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ६४
विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम्
कृतपापा हि देवेश ब्राह्मणीयं दुराशया ६५
विमुक्ता सकलैः पापैर्जलदानप्रभावतः
अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ६६
ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः
व्यास उवाच-
चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दंडभृत् ६७
तां वेश्यां ब्राह्मणीं चापि ववंदे ब्राह्मणं च तम्
दिव्यैः सुवर्णालंकारैर्वस्त्रैर्नानाविधैस्तथा ६८
तेषां पूजां यमः श्रुत्वा कुटुंबिनां च जैमिने
उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ८९
यम उवाच-
यूयं सर्वे महात्मानो विनष्टाखिलपातकाः
समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ७०
तानारोप्य ततो दिव्ये यमः कांचननिर्मिते
राजहंसयुते स्थाने प्रेषयामास चक्रिणः ७१
ततो दिव्यरथारूढाः सर्वाभरणभूषिताः
पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ७२
गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा
सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ७३
हरिशर्माणमालोक्य समायांतं जनार्द्दनः
ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ७४
पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम्
वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ७५
श्रीभगवानुवाच-
द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत्
चिरं मे मंदिरं तिष्ठ सर्वोपद्रववर्जिते ७६
ब्राह्मण उवाच-
त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो
त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ७७
व्यास उवाच-
एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम्
दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ७८
ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः
आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ७९
दिनद्वयांतरे विप्रो निराहारः क्षुधाकुलः
प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ८०
ब्राह्मण उवाच-
प्रभोप्राप्तंतवस्थानमनेकतपसांफलैः
अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ८१
देवकन्या गणैर्दिव्यैः संप्राप्तनवयौवनैः
श्वेतचामरवातेन मंचेष्वपि निवीजितः ८२
सुगंधानां प्रसूनानां महास्रग्भिरलंकृतः
चंदनैर्लिप्तसर्वांगो राजश्रेष्ठ इव प्रभो ८३
चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो
गीतेन नृत्यते चापि नारायण तवाज्ञया ८४
वासवाद्याः सुराः सर्वे रजांसि मम पादयोः
शिरः किरीटशोभीनि नित्यमेव वहंति वै ८५
देवदेवर्षयश्चापि मुनयश्च जगत्पते
स्तुवंति मां स्तवैर्नित्यं किंकरा इव सर्वदा ८६
चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत्
प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ८७
स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा
दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ८८
सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो
ददासि कथमाहारं न मह्यं परमेश्वर ८९
क्षुधाग्निना च सुमहच्छरीरं मम दह्यते
यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ९०
सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते
प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ९१
कर्मणा मनसा वाचा त्वां विना जगदीश्वरम्
न पूजितो मया कश्चिद्देवदेव गणार्चितः ९२
स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि
आहारं केन दोषेण ददासि नहि मे प्रभो ९३
व्यास उवाच-
अथासौ भगवान्विष्णुः कौतुकी समुवाच तम्
गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ९४
इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ
ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ९५
ब्रह्मोवाच-
दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे
स्वयं न भुंजते तच्च नष्टमेव न संशयः ९६
कारणं तव दुःखस्य सर्वमेव मयोदितम्
गच्छ ब्राह्मण भद्रं ते निःसंदेहोयमागतः ९७
ब्राह्मण उवाच-
निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः
इदानीं ब्रूहि दानानि कानि देयानि मानवैः ९८
ब्रह्मोवाच-
बहूनि संति दानानि तानि वक्तुं न शक्यते
संक्षेपात्कथ्यते विप्र निशामय समाहितः ९९
भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमम्
कृतं पुण्यात्मना येन स ज्ञेयः सर्वदानकृत् १०० 7.20.100
गोचर्ममात्रं भूमिं यो ददाति द्विजसत्तम
स गच्छेत्परमं स्थानं विमुक्तः सर्वपातकैः १०१
भूमिं सस्यसमेतां यो दरिद्राय द्विजातये
ददाति ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय १०२
सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेत्
तत्र भुंक्ते सुखं सर्वं यावदिंद्राश्चतुर्दश १०३
भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेत्
चिरं भुक्त्वा महीं कृत्स्नां नरो नारायणो भवेत् १०४
यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशतान्यपि
भूमिदो भूमिनेता च द्वावपि स्वर्गगामिनौ १०५
मंदबुर्द्धिर्द्विजो यस्तु भूमिदानं परित्यजेत्
प्रतिजन्मनि विप्रेन्द्र स भवेदतिदुःखितः १०६
अन्येभ्योऽपि समादाय भूमिदानं य आचरेत्
तस्य विष्णुरति प्रीतो ददाति परमं पदम् १०७
ग्रामं यच्छति यो विप्र दरिद्राय द्विजातये
दापयत्यपि वा तस्य पुण्यं वापि निशामय १०८
यावंतो रेणवो भूमौ यावंतो वृष्टिबिंदवः
मन्वंतराणि तावंति विष्णुलोके वसेत्सुधीः १०९
धेनुं पयस्विनीं यस्तु सवत्सां यच्छति द्विज
तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः ११०
सप्तद्वीपां महीं दत्वा ससस्यां यत्फलं लभेत्
तत्फलं लभते मर्त्यो धेनुं यच्छन्द्विजातये १११
ददाति वृषभं यस्तु ब्राह्मणाय कुटुंबिने
विमुक्तः पातकै रुद्रै रुद्रलोकं स गच्छति ११२
तस्य यावंति रोमाणि शरीरे वृषभस्य च
तावत्कल्पसहस्राणि रुद्रेण सह मोदते ११३
यस्तु वेदविदे धेनुं दद्यादुभयतोमुखीम्
न तस्य पुनरावृत्ती रुद्रलोकात्कदाचन ११४
वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति
स रुद्रभवने तिष्ठेद्द्विजेन्द्र तिलसंख्यया ११५
तिलप्रमाणमपि च स्वर्णं दद्याद्द्विजातये
स याति विष्णुभवनं कुलकोटिसमन्वितः ११६
यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजातये
चंद्रलोकं समासाद्य सुधापानं करोति सः ११७
हीरकं मौक्तिकं चापि प्रवालं च मणिं तथा
यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति ११८
अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः
गन्धर्वराजराजत्वं स प्राप्नोति न संशयः ११९
ददाति वारणं यस्तु युवानं दोषवर्जितम्
देवराज्ये विभागी स भवेदिन्द्र इव द्विज १२०
नरदोलां च यो दद्याद्ब्राह्मणाय सदक्षिणाम्
सोऽपीन्द्रपदमासाद्य वसेत्कल्पचतुष्टयम् १२१
शालिग्रामशिलादानं यो ददाति द्विजातये
तस्य पुण्यं प्रवक्ष्यामि समासेन शृणु द्विज १२२
सप्तद्वीपां महीं दत्वा सशैलवनकाननाम्
यत्फलं तच्च लभते शालग्रामशिलाप्रदः १२३
तुलापुरुषदानेन यत्फलं प्राप्यते नरैः
शालग्रामशिलां यच्छंस्तस्मात्कोटिगुणं लभेत् १२४
शालग्रामशिला येन प्रदत्ता द्विजसत्तम
नूनं तेन प्रदत्तानि भुवनानि चतुर्दश १२५
तुलापुरुषदानं यः प्रकरोति नरोत्तम
दिवि दिव्यांबरधरश्चिरं स च महीपतिः १२६
जननीजठरे भूयस्तस्य जन्म न विद्यते
ददाति यस्तु वै कन्यां सालंकारां नरोत्तमः १२७
स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः
यः कन्याविक्रयं मूढो मोहात्प्रकुरुते नरः १२८
स गच्छेन्नरकं घोरं पुरीषह्रदसंज्ञकम्
विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज १२९
स चांडाल इव ज्ञेयः सर्वधर्मबहिष्कृतः
कन्याविक्रयिणः पुंसो मुखं पश्येन्न शास्त्रवित् १३०
पश्येदज्ञानतो वापि कुर्याद्भास्करदर्शनम्
यत्किंचित्क्रियते कर्म कन्याविक्रयिणः पुरः १३१
शुभं तत्सकलं कर्म गच्छेद्विफलतां द्विज
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः १३२
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः
बहुनात्र किमुक्तेन संक्षेपेण ब्रवीमि ते १३३
हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम्
उपानहं चातपत्रं यस्तु यच्छति भूतले १३४
शृणु तस्य तु वै पुण्यं संक्षेपेण ब्रवीमि ते
इह वर्षशतं जीवेत्सर्वसंपत्समन्वितः १३५
मृतः शक्रपुरं प्राप्य शतकल्पचतुष्टयम्
ददाति नूतनं वस्त्रं स याति परमां गतिम् १३६
वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा
कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेत् १३७
फलदो मानवो विप्र गच्छति त्रिदशालयम्
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् १३८
शाकप्रदो याति विप्र शंभोर्भगवतः पदम्
तत्र कल्पद्वयं भुंक्ते पायसं दुर्ल्लभं सुरैः १३९
दुग्धदो दधिदश्चैव घृतदस्तक्रदस्तथा
प्राप्नोति वै सुधापानं पुरो भगवतो हरेः १४०
पुष्पदो मनुजो विप्र गन्धदश्च सुरालयम्
तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः १४१
शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम
स ब्रह्मलोकमागत्य पर्यंकशयनश्चिरम् १४२
दीपदः पीठदश्चैव सर्वपापविवर्जितः
दिव्यसिंहासनस्थश्च जलदीपावलीवृतः १४३
तांबूलदो नरो राजन्भुवि भुंक्तेऽखिलं शुभम्
दिवि देवाङ्गनाक्रोडे सुप्तस्तांबूलमत्ति वै १४४
विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम
संप्राप्य संनिधिं विष्णोस्तिष्ठेद्युगशतद्वयम् १४५
ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम
प्राप्नोति दुर्ल्लभं मोक्षं प्रसादात्कमलापतेः १४६
अनाथं ब्राह्मणं यस्तु पाठयत्यतिदुःखितम्
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् १४७
कुलीनोऽपि द्विजश्रेष्ठो न भाति विद्यया विना
तस्माद्दिवजं पाठयंतः प्रयांति परमं पदम् १४८
भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः
सर्ववर्णगुरुर्नैव विद्याहीनो विराजते १४९
संसारे यानि दानानि संति हेमादिकानि च
तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः १५० 7.20.150
कुर्यात्पुस्तकदानं यो नरो भक्तिसमन्वितः
तस्य पुण्यं द्विजश्रेष्ठ संक्षेपात्ते वदाम्यहम् १५१
तत्राक्षराणि यावंति पत्रे पत्रे च पुस्तके
प्रत्यक्षरे लभेत्पुण्यं कपिलाकोटिदानजम् १५२
यावद्दिनं पुस्तकं तत्प्रपठंति द्विजातयः
तावन्मन्वंतरं तिष्ठेद्वैकुंठे पुस्तकप्रदः १५३
एवमादीन्यनेकानि संति दानानि भूसुर
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो द्विशतैरपि १५४
ब्रह्महत्यादि पापानि क्रियंते यानि मानवैः
हन्यंते तानि पापानि तस्माद्दानं समाचरेत् १५५
आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः
यावद्द्रव्यं फलं तस्मात्तस्य दानस्य लभ्यते १५६
प्रीतये कमलाभर्तुर्यद्दानं दीयते जनैः
तस्यकोटिगुणं पुण्यं लभते नात्र संशयः १५७
तस्मान्नारायणप्रीतिहेतवे मतिमान्नरः
दानं समाचरेद्विप्र भक्तिकर्मसमन्वितः १५८
तपसोऽपि परं दानं निरुक्तं तत्वदर्शिभिः
अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेत् १५९
दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः
तस्य तुल्यो जगत्यस्मिन्विद्यते न हि भूसुर १६०
इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यंनाम विंशोऽध्यायः २०