पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

जैमिनिरुवाच-
क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः १
व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् २
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ३
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ४
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम्
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ५
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ६
जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ७
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम्
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ८
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ९
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये १०
व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम्
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ११
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा १२
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम्
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् १३
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे १४
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम्
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने १५
दैवयोगान्मुने तत्र ये त्यजंति कलेवरम्
मनुष्य पशु कीटाद्या लभंते परमं पदम् १६
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते १७
मनोभद्रो नाम राजा सोमवंश समुद्भवः
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्म्मवित् १८
तस्य हेमप्रभा नाम महिषी प्रियवादिनी
पतिव्रता महाभागा सर्वलक्षणसंयुता १९
स राजा समरे हत्वा सकलानेव शात्रवान्
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः २०
स एकदा महीपालः समाहूय स्वमंत्रिणः
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः २१
मनोभद्र उवाच-
अमात्याः पृथिवी सर्वा मयेयं परिपालिता
निहता रिपवः सर्वे सपुत्रबलवाहनाः २२
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः २३
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः
एतद्धि जरया सर्वं महत्या मे बलं हृतम् २४
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते २५
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले २६
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा
समस्तगुणसम्पन्नामपि तद्गतमानसम् २७
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः २८
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने २९
मूर्खमात्रवचो ग्राही स नृपः शत्रुनंदनः
ततोऽहं सकलं राज्यं विभज्य वरमंत्रिणः ३०
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ३१
तदेव मतमस्माकं संदेहो नात्र विद्यते
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ३२
वीरभद्र यशोभद्र नामानौ तनयावुभौ
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ३३
पितृभक्तौ सदा शांतौ बलिनौ धर्मतत्परौ
ततः स भूपः सहसा राजनीति विदांवरः ३४
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात्
अत्रांतरे गृध्र एकः स्वकीयस्त्री समन्वितः ३५
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ३६
राजाह युवयोः कस्माच्छुभागमनमुच्यताम्
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परंतपः ३७
आगतोऽस्मि मुदा द्रष्टुं संपदं पुत्रयोस्तव
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ३८
इह जन्मनि संपत्तिं द्रष्टुमावां समागतौ
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम्
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ३९
राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ४०
यदि जानासि तत्वेन पूर्ववृत्तांतमेतयोः
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ४१
गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसंज्ञके
गरसंगरनामानौ सत्यघोषसुतौ स्थितौ ४२
एककाले च भूपाल मृतौ निज गृहांतरे
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिंकराः ४३
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः
बबंधुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ४४
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ४५
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम्
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ४६
मूलाद्विचारयामास तत इत्याह चांतकम्
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ४७
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम्
स्वयंदानं समुत्सृज्य न हि दत्तं द्विजातये ४८
तेनैव कर्मणा राजन्निमौ नरकगामिनौ
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ४९
स याति नरकं घोरं सर्वभूतभयावहम्
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ५१
नयंतु किंकराः शीघ्रं नरकं प्रतिदारुणम् ५२
यमाज्ञया ततो दूताः संदष्टौष्ठपुटाः क्रुधा
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ५३
तस्मिन्नेव दिने राजन्ननया भार्यया सह
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ५४
मयापि तत्कृतं कर्म तदाकर्णय भूपते
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ५५
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ५६
इयं मंजूकषा नाम मम पत्नी यशस्विनी
पतिव्रता महाभागा पवित्रकुलसंभवा ५७
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ५८
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत्
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ५९
ममैव पुंसः पितरौ तौ च पापपरायणौ
मुखरौ दययाहीनौ पाखंडिसङ्ग लोलुपौ ६०
पौरुषं जीवनं चैव धनं चैव कुलं तथा
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ६१
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ६२
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ६३
एताभ्यां सह पापाभ्यां सदारेण मया नृप
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ६४
युगकोटिसहस्राणि युगकोटिशतानि च
अनुभूतं महादुःखं नरकस्य नृपोत्तम ६५
नरकांते ततः सोऽहं कांतया सह भूपते
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ६६
एतावपि च तौ राजन्नरकांत गतैषिणौ
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ६७
यदेताभ्यां कृतं कर्म्म राजञ्छलभजन्मनि
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ६८
एकदा सुमहान्वायुः समायातो महीपते
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ६९
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा
जग्मतुः पंचतां सद्यः समस्तकलुषापहम् ७०
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः
आयातानि विमानानि सर्वभोगान्वितानि च ७१
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ७२
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ७३
भुक्तवंतौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुंधराम् ७४
पवित्रे भवतो वंशे जातावेतौ महायशौ
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ७५
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ७६
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम्
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ७७
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तांतमेतयोः
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ७८
गङ्गामरणमासाद्य गतावेतौ दशामिमाम्
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ७९
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ८०
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा
इह संपद्विनाशाय परत्र नरकाय च ८१
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम्
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ८२
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम्
पित्रवज्ञाकुठारेण च्छिंदंति भुवि मानवाः ८३
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परंतप
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ८४
प्रत्यक्षदेवौ पितरौ सेवंते येत्वहर्निशम्
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ८५
पितृभक्तिविहीना ये दिनं तिष्ठंति मानवाः
तावत्कल्पसहस्रं तु तिष्ठंति नरके जनाः ८६
तस्मादिदं महादुःखं बभूव मम सांप्रतम्
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ८७
व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ८८
राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव
मम चैषां च हृदये प्रतीतिर्न हि जायते ८९
अथांतरिक्षे वागुच्चैरिति जाता नृपोत्तम
सत्यं सत्यं सत्यमिदं संदेहोनात्र विद्यते ९०
ततः स पक्षी विप्रर्षे सहसा भार्यया सह
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ९१
दिवि दुंदुभयो नेदुर्जगुर्गन्धर्वसत्तमाः
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ९२
विमानमागतं दिव्यं सर्वभोगसमन्वितम्
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ९३
अथासौ सर्वगो विप्र प्रियया सह भार्यया
सद्यो विमानमारुह्य जगाम भवनं हरेः ९४
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ९५
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ९६
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ९७
अध्यायमेतत्परमादरेण पठंति ये देवगृहे मनुष्याः
शृण्वंति ये च द्विजवर्गभक्ता नश्यंति तेषां दुरितानि सद्यः ९८
इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३