पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

जैमिनिरुवाच-
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे १
गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ २
व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च
सम्यग्वक्तुं न शक्नोमि संक्षेपाच्छ्रूयतां द्विज ३
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने
प्रयांति तानि सर्वाणि प्रयागप्रतिमां तु किम् ४
गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे
प्रशंसंति सुराः सर्वे ब्रह्मविष्णुशिवादयः ५
मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते
तेषामागमनं नास्ति विष्णुलोकात्कदाचन ६
गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज ७
कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः ८
माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत्
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः ९
सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः १०
वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत्
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः ११
फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु १२
कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक्
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते १३
माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः
कल्पकोटिशतं विष्णुं संपूज्यान्यत्र यत्फलम् १४
एकाहमपि संपूज्य मकरस्थे दिवाकरे
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत् १५
यावद्दिनं माघमासे तत्र तिष्ठति मानवः
तावत्कल्पशतं विप्र मोदते विष्णुना सह १६
गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत्
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः १७
तर्तुं यदीच्छंति जनाः संसाराब्धिं सुदुस्तरम्
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यंतु माधवम् १८
यजंति मानवास्तत्र यद्यदिष्ट्वा कलेवरम्
सद्यो लभंते विप्रर्षे तत्तदेव न संशयः १९
इतिहासमिहैवाहं कथयामि निशामय
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः २०
प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी
देवतातिथिपूजासु विप्रभक्त्येकतत्परः २१
तस्य पद्मावती नाम धर्मपत्नी पतिव्रता
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी २२
स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना
तच्छरीरे गुणास्ते ते निवसंति द्विजोत्तम २३
अथासौप्रणिधिर्वैश्यः समादायधनं बहु
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ २४
धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते २५
धनहीनं जनं दृष्ट्वा सखापि वा पलायते
मेघःशरद्यंबुहीनः खंडं खंडं नयेन्महत् २६
खादितुं प्राप्यते यावत्तावदेव हि बांधवाः
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पंडितः २७
अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते २८
ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम्
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम् २९
शिक्षितव्या सदा विद्या पुंभिरेव विचक्षणैः
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम् ३०
धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम्
काष्ठं तृणं तुषं वापि संप्राप्य न परित्यजेत् ३१
पुमान्संचयशीलोऽपि कदाचिन्नावसीदति
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये ३२
गृहव्यापारनिष्णातो वाणिज्येन जगाम ह
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् ३३
सखीभिः सह विप्रर्षे जगाम स्नानहेतवे
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः ३४
निजेच्छया प्रकुर्वंतीं स्नानकर्म ददर्श ताम्
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम् ३५
मृगशावदृशं चारु पीनोन्नतपयोधराम्
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः ३६
उवाच प्रहसन्वाणीं निजमूर्तिमचिंतयन्
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि ३७
मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये
विशालजघने तन्वि मया गुणवता सह ३८
गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम्
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज ३९
ऊचुर्वाक्यं तथा क्रुद्धाः संदष्टदशनच्छदाः
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव ४०
पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते
इयं पतिव्रता नारी धर्मकर्मपरायणा ४१
आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते
परस्त्रीमुखसौंदर्यं परद्रव्यं च सर्वदा ४२
दृष्ट्वा कामाग्निसंखिन्ना दह्यंते मूढमानसाः
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम् ४३
वयमेव भवंतं न स्पृशामश्चरणैरपि
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं संजानन्नखिलं गुणम् ४४
संभावितो न युष्माभिः श्वपचत्वे यतोऽधुना
कनकं मदिरापूर्णं कलशाभ्यंतरस्थितम् ४५
संप्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान्
अतोऽहं युवतीमेनां यथा प्राप्नोमि सांप्रतम् ४६
तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत्
इति ब्रुवंतं तं मूढं भूयोभूयो द्विजोत्तम ४७
ऊचुर्वाक्यमिदं तास्तु जातात्यंतकुतूहलाः
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्म्मते ४८
गङ्गायमुनयोः शीघ्रं शरीरं संगमे त्यज
मिथःकृतमुखालोका हसंत्यस्तास्ततो द्विज ४९
तां साधुपत्नीमादाय ययुर्निजगृहांतरम्
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५० 7.4.50
गंगायमुनयोस्तोये तामिष्ट्वा पंचतां गतः
तत्स्वामिसदृशाकारः समस्तगुणवान्बली ५१
स च एव श्वपाकोऽसौ स्ववृत्तांतं स्मरन्नभूत्
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे ५२
कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह ५३
प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ ५४
कस्याहं दयिता को वा मम भर्त्तेत्यचिंतयत्
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम् ५५
तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः ५६
पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम्
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् ५७
नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम्
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय ५८
नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम्
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यांतकराय तुभ्यम् ५९
गङ्गांबुधौ तांघ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलांतकाय
नमोस्तु ते रावणवंशहंत्रे अलं च दैत्यांतकराय तुभ्यम् ६०
नमोस्तु ते चाध्वरनिंदकाय नमोस्तु ते म्लेच्छकुलांतकाय
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय ६१
प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव
प्रसीद लक्ष्मीमुखपद्मभृंग प्रसीद विष्णो सततं नमस्ते ६२
प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम्
प्रसीद विष्णो धृतपांचजन्य नमोस्तु ते पद्मधराय नित्यम् ६३
संसारकौतुहलमंदिरे ते मोहांधकारे च विवेकदीपे
संमोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि ६४
विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकंपम् ६५
व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः ६६
आविर्बभूव सहसा सूर्यकोटिसमप्रभः
सा मूर्ध्ना भूमिमालोक्य ववंदे तत्पदद्वयम् ६७
नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम् ६८
श्रीभगवानुवाच-
भ्रमं जहीहि चार्वंगि द्वावेतौ हि पती तव
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा ६९
यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम् ७०
अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह
तथा त्वमपि सुश्रोणि भुंक्ष्व ताभ्यां सुखं सदा ७१
पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय ७२
श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि
तदा मत्पुरमागच्छ ताभ्यां सह वरानने ७३
विमानमागतं सद्यस्ततो भगवदाज्ञया
तौ समादाय वैकुण्ठं सा गंतुमुपचक्रमे ७४
अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम् ७५
धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि ७६
विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वरांगना
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती ७७
के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः ७८
ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः ७९
विष्णुदूता ऊचुः
विष्णुदूता वयं साध्वि पुण्यात्मानमिमंजनम्
समादाय पदं याम उदारं लोकमुत्तमम् ८०
पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम्
विष्णुदूता महात्मानः कथ्यतामित्यहो मम ८१
विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत्
अरण्यादिनिवासी च महाबलपराक्रमः ८२
परदारपरद्रव्यहारको रिपुकोद्यतः
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः ८३
यद्यत्पापरतं कर्म्म तदनेन कृतं सदा
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते ८४
अयं रथं समारुह्य सततं कामपीडितः
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन् ८५
यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः ८६
अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम्
ददर्श क्रीडामध्यस्थां सुंदरीं नवयौवनाम् ८७
अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम्
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् ८८
सैवोवाच ततः कांता भीमकेशस्य भूपतेः
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता ८९
अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ ९०
स्थीयते नित्यमत्रैव भर्त्राखंडितचर्चया
मया स्वकर्मशोचंत्या विरहानलतप्तया ९१
कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि ९२
अथायमित्याह वचः पूर्णचन्द्र निभानने
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः ९३
जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम्
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम् ९४
ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा
बबंध बाहुलतया विन्यस्य वदने मुखम् ९५
स तामालिंग्य युवतीं विवेकोद्वेगविह्वलाम्
अनया सह सुश्रोणि दिव्यमारूढवान्रथम् ९६
दंपतीभावमाश्रित्य तौ जातावतिकौतुकम्
वायुवेगरथारूढौ यातौ गगनवर्त्मनि ९७
अथैनामयमित्याह पश्यतन्विवरानने
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे ९८
ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम्
जगाम पंचतां सद्यः संदृश्यात्यंतसाध्वसैः ९९
विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः
गतप्राणां समालोक्य सद्यो मृत्युं जगाम ह १०० 7.4.100
वैनतेयध्वजादेशादिमौ गलितकल्मषौ
नयामः पुण्यकर्माणौ वैकुण्ठं प्रति संप्रति १०१
जलेस्थले चांतरिक्षे गङ्गासागरसङ्गमे
देहं संत्यज्य गच्छन्ति पापिनो हि परां गतिम् १०२
त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसंगमे
माघे तपसि शुक्लायामेकादश्यामुपोषितः १०३
तत्र शुद्धिमवाप्नोति ब्रह्महापि न संशयः
गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवम् १०४
कार्तिकेयमुखं दृष्ट्वा पुनर्जन्म न विद्यते
कार्तिकेयो हरिः साक्षादित्यभेदः कृतः सदा १०५
ये कार्तिंकेयं पश्यंति ते सर्वे मोक्षगामिनः
सर्वतीर्थाधिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु १०६
जले स्थले चांतरिक्षे मृतो मोक्षमवाप्नुयात्
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने १०७
जग्मुर्विष्णुगृहं सर्वे सह साकाशवर्त्मनि
या च पद्मावती साध्वी भर्तृद्वयसमन्विता १०८
गता सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः
तत्र भुक्त्वाखिलान्भोगान्दुर्ल्लभान्द्विजसत्तम १०९
परमं ज्ञानमासाद्य ययुः सारूप्यतां हरेः
सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः ११०
गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते
गङ्गाब्धिसंगमे पूर्वं माधवो नाम भूभुजः १११
तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान् ११२
जैमिनिरुवाच-
त्वयोक्तो माधवः कोऽसौ किं कर्म स चकार ह
कथं तेपे तपस्तन्मे सर्वं कथय सत्तम ११३
व्यास उवाच-
चरितं तस्य विप्रर्षे माधवस्य महात्मनः
आकर्णय प्रवक्ष्यामि समासेन महामते ११४
इति श्रीपद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनंनाम चतुर्थोऽध्यायः ४