पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

व्यास उवाच-
सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत्
स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् १
सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसंज्ञकम्
दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः २
ततस्तु पालनार्थाय जगतो जगतीपतिः
विष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ३
अथ संहरणार्थाय जगतो रुद्रमव्ययम्
मुने ससर्ज मध्यांगात्कृतपद्मालयः प्रभुः ४
रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम्
वदंति केचिद्ब्रह्माणं विष्णुं केचिच्च शंकरम् ५
एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति च
तस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ६
आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनः
निदानंभूतविश्वस्य विद्या विद्येति गीयते ७
भावाभावस्वरूपा सा जगद्धेतुः सनातनी
ब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ८
सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुने
आद्यां चैवाद्यपुरुषस्तत्रैवांतरधीयत ९
यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज ह
पृथिव्याकाशवाय्वंबु वह्नीन्पञ्चसमाधिना १०
भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथा
तपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ११
अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विज
ततोऽधःसुतलं चैव ततोऽधश्च तलातलम् १२
महातलमधस्तस्मात्ततोऽधश्च रसातलम्
तस्मादधश्च पातालं लोकानेवं यथाक्रमम् १३
देवतानांनिवासार्थं रत्नसानुं महागिरिम्
सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् १४
मंदरं चरमं चैव त्रिकूटमुदयाचलम्
अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि १५
लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः
सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयंभुवा १६
जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसंज्ञितः
विज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः १७
ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताः
समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः १८
सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः
तेषां नामानि वक्ष्यामि सागराणां निशामय १९
लवणेक्षु सुरा सर्पिर्दधिदुग्धजलांतकाः
एते समुद्रा देवर्षे पूर्वस्माच्च परः पराः २०
विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताः
द्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् २१
तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तम
अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा २२
क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन्
ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवांत्यजांस्तथा २३
तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिः
हेमाद्रि दक्षिणं यद्वै विंध्याद्रेरुत्तरं तथा २४
आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम्
आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः २५
धर्मकर्माणि कुर्वंति ते सर्वे केशवोपमाः
कर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा २६
तत्फलं भुंजते लोको भोगभूमिषु सत्तम
कर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः २७
न च तेन समः कोऽपि त्रिषुलोकेषु विद्यते
तस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् २८
श्रीनारायणसेवायां मतिर्यस्य न विद्यते
जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके २९
नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम्
समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ३०
त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः
जन्मांतरार्जितं पापं स्वल्पं वा यदि वा बहु ३१
तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात्
वैष्णवांघ्रिजलं यस्तु समस्तपातकापहम् ३२
वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम्
मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ३३
स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि
धर्मकर्माणि विप्रेन्द्र क्रियंते यानि कानि च ३४
भगवद्भक्तपुरतस्तानि स्युरक्षयाणि च
मुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठंति वैष्णवाः ३५
सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम्
अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ३६
यत्किंचिद्दीयते विप्र तद्दानमक्षयं भवेत्
समस्तदेवतारूपो वैष्णवः परिकीर्तितः ३७
स चेत्संतोषितो येन तोषिताः सर्वदेवताः
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ३८
भगवद्भक्तपुरुषः कदाचिन्नावसीदति
तस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ३९
समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम्
सूत उवाच-
तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ४०
शिरसांजलिमादाय जैमिनिः पर्यपृच्छत
जैमिनिरुवाच-
भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ४१
गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि सांप्रतम्
कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ४२
आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः
व्यास उवाच-
मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ४३
पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम्
कल्पांते रुद्ररूपेण संहार्य सकलं जगत् ४४
स्वयमेकश्च भगवान्सुष्वाप योगमायया
सुप्ते तस्मिन्भगवति योगनिद्रा विमोहिते
अभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ४५
अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि
तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ४६
तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विज
जातौ महासुरौ घोरौ मधुकैटभसंज्ञितौ ४७
अंतरिक्षे भ्रमंतौ तौ दानवावतिदारुणौ
श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ४८
तं हंतुमथ दैत्यौ तौ महाबलपराक्रमौ
उद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ४९
ततो ब्रह्मा जगत्स्रष्टा विचिंत्य तद्वधं हृदा
योगनिद्रां भगवतीं तुष्टाव श्लक्ष्णया गिरा ५० 7.2.50
तस्य स्तवं समाकर्ण्य ब्रह्मणः परमेष्ठिनः
उवाचेति वचः प्रीत्या किं तेऽभिमतमुच्यताम् ५१
ब्रह्मोवाच-
अत्युग्रदानवावेतौ हंतुं मां कृतनिश्चयौ
मायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ५२
ततो भागवती निद्रा महाविष्णुं तमत्यजत्
दानवाभ्यां ततस्ताभ्यामंतरिक्षे कृपामयः ५३
युयुधे बाहुयुद्धेन शरणागतवत्सलः
पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ५४
विजयं नागमत्कोऽपि न च कोऽपि पराभवम्
अथ तौ दानवौ तत्र महामायाविमोहितौ ५५
वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रति
ततः प्रहस्य देवेश उवाचेति वचो द्विज ५६
यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौ
ततस्तौ दानवौ घोरौ भगवंतं जनार्दनम् ५७
इत्यूचतुर्महामायौ महामायाविमोहितौ
अयमेव वरो दत्तो भवते नात्र संशयः ५८
मारयावां विना वारि मही यत्र जनार्द्दन
महासुरौ ततस्तौ तु आनीय जघनं प्रति ५९
निहतौ सहसा विप्र चित्रया चक्रधारया
चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौ
तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ६०
ब्रह्मोवाच-
नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनाय
नमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ६१
त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याः
एतन्मया ज्ञातमनंतकीर्ते सद्यो हृतेयं महती ममापत् ६२
योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेश
त्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ६३
यद्यप्यत्यंतकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम्
यस्मात्स्वजीवनविनाश वरप्रदानैः संतोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ६४
रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यंति सर्वरिपवः स्वकुलैः समेताः
वृद्धिं व्रजंति सुहृदोऽखिलबांधवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ६५
लक्ष्मीमुखांबुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन्
त्वच्चारुपादकमलद्वयमाश्रयंतं मां पाहि नाथ कृपया सततं नमस्ते ६६
प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वर
प्रसीद सर्वभूतेश विश्वंभर नमोस्तु ते ६७
नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने
नमस्ते ज्ञानरूपाय शरणं मे भवानघ ६८
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः
परित्राहि परित्राहि परित्राहि जगन्मय ६९
व्यास उवाच-
एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणा
स्तुतः स देवो भगवान्परमां प्रीतिमाययौ ७०
श्रीभगवानुवाच -
स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासन
किमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ७१
ब्रह्मोवाच-
यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय
नापदस्तव भक्तानां भवंत्विति वरो मम ७२
श्रीभगवानुवाच-
एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः
मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ७३
वैष्णवानां शरीरेषु सततं निवसाम्यहम्
लभंते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ७४
ब्रह्मोवाच-
सर्वमेव जगन्नाथ त्वया दत्तं न संशयः
यद्येतौ च महादैत्यौ संग्रामे विनिपातितौ ७५
कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभो
स्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ७६
अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे
स त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ७७
क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत्
स त्वं वैष्णवसंगेन भ्रमसीत्यद्भुतं महत् ७८
के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम्
कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ७९
श्रीभगवानुवाच-
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि
सम्यग्वक्तुं न शक्तोऽस्मि संक्षेपाच्छृणु सत्तम ८०
संसारो वैष्णवाधीनो देवा वैष्णवपालिताः
अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ८१
क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम्
तिष्ठामि नाहमन्यत्र वैष्णवा मम बांधवाः ८२
कामक्रोधविहीना ये हिंसादंभविवर्जिताः
लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ८३
अमत्सरा दयायुक्ताः सर्वभूतहितैषिणः
सत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८४
धर्मोपदेशिनश्चैव धर्माचारधरास्तथा
गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८५
समानं ये च पश्यन्ति त्वां च मां च महेश्वरम्
कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ८६
वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदा
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ८७
एकादशीव्रतं ये च भक्तिभावेन कुर्वते
गायंति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ८८
देवायतनकर्तारस्तुलसीमाल्यधारकाः
पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ८९
शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः
ब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ९०
धात्रीफलस्रजो येषां गलेषु कमलासन
मां पूजयंति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ९१
तुलसीमूलमृद्भिश्च तिलकानि नयंति ये
तुलसीकाष्ठपंकैश्च ज्ञेयास्ते वैष्णवा जनाः ९२
गङ्गास्नानरता ये च गङ्गानामपरायणाः
गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ९३
शालग्रामशिला येषां गृहे वसति सर्वदा
शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ९४
संमार्जयंति ये नित्यं मम स्थानानि सत्तम
दीपं यच्छंति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ९५
शीर्णं मन्मंदिरं ये च कुर्वन्ति नूतनं पुनः
तत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ९६
अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन
विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ९७
मत्पादसलिलैर्येषां सिक्तानि मस्तकानि च
मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ९८
क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छंत्यन्नमंबु च
कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ९९
आरामकारिणो ये च पिप्पलारोहिणोऽपि च
गोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः १०० 7.2.100
अत्यन्तभक्ता ये ब्रह्मन्पितृयज्ञं प्रकुर्वते
कुर्वन्ति दीनशुश्रूषां ज्ञैयास्ते वैष्णवा जनाः १०१
तडागग्रामकर्तारः कन्यादानरताश्च ये
सेवंते श्वशुरौ ये च ज्ञेयास्ते वैष्णवा जनाः १०२
सेवंते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव च
परनिंदां न कुर्वंति ज्ञेयास्ते वैष्णवा जनाः १०३
वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यते
तस्माच्चतुर्मुख त्वं च वैष्णवो भव सांप्रतम् १०४
समाराधय मां नित्यं क्रियायोगैः प्रजापते
सर्वमेवाशु भद्रं ते भविष्यति न संशयः १०५
देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुख
पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः १०६
पाखंडभक्तिरहिताः शिवभक्तिपरायणाः
चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः १०७
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः
ममार्चां ये च कुर्वंति विज्ञेयास्ते च वैष्णवाः १०८
भूयः पूर्वस्थितमिव सृज्यतां सकलं जगत्
इत्युक्त्वांतर्द्दधे देवस्तत्रैव परमेश्वरः १०९
ततस्तु पूर्ववद्ब्रह्मा सृष्टवान्सकलं जगत्
क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदम् ११०
ये पठंती ममध्यायं भक्त्या नारायणाग्रतः
सर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् १११
इति श्रीपाद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः २