पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः ।

अथ क्रियायोगसारखण्डमारभ्यते ।

लक्ष्मीनाथपदारविंदयुगलं ।
ब्रह्मेश्वराद्यामरश्रेणीनम्रशिरोलिरोलिमा अमलं।
वंदामहे संततम् ।
भक्त्या योगिमनस्तडागसुषमासंदोहपुष्यत्तमं गङ्गाम्भोमकरं दविन्दुनिकरं संसारदुःखापहम् १।
यो मूर्तीर्बहुधा विधाय भगवान्रक्षन्नशेषं जगद्यत्पादार्चनतत्परा न हि पुनर्मज्जंति विश्वार्णवे ।
सर्वप्राणिहृदंबुजेषु वसतिर्यस्य प्रभोः संततं रम्यक्रोडवपुर्धराय हरये देवाय तस्मै नमः २।
वेदेभ्य उद्धृत्य समस्तधर्मान्योऽयं पुराणेषु जगाद देवः ।
व्यासस्वरूपेण जगद्धिताय वंदेतमेतं कमला समेतम् ३।
एकदा मुनयः सर्वे सर्वलोकहितैषिणः ।
सुरम्ये नैमिषारण्ये गोष्ठींचक्रुर्मनोरमाम् ४।
तत्रांतरे महातेजा व्यासशिष्यो महायशाः ।
सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ५।
तमायांतं समालोक्य सूतं शास्त्रार्थपारगम् ।
नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ६।
सोऽपि तान्सहसा भक्त्या मुनीन्परमवैष्णवान् ।
ननाम दंडवद्भूमौ सर्वधर्मविदांवरः ७।
वरासने महाबुद्धिस्तैर्द्दत्ते मुनिसत्तमैः ।
उवास ह मुनिर्मध्ये सर्वैः शिष्यगणैर्वृतः ८।
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः ।
बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ९।
शौनक उवाच-
महर्षे सूत सर्वज्ञ कलिकाले समागते ।
केनोपायेन भगवन्भूरिभक्तिर्भवेन्नृणाम् १०।
कलौ सर्वे भविष्यंति पापकर्मरता जनाः ।
वेदविद्याविहीनाश्च तेषां श्रेयः कथं भवेत् ११।
कलावन्नगताः प्राणा लोकाः स्वल्पायुषस्तथा ।
निर्धनाश्च भविष्यंति नानादुःखप्रपीडिताः १२।
प्रयाससाध्यं सुकृतं शास्त्रेषु क्रियते द्विज ।
तस्मात्केऽपि करिष्यंति कलौ न सुकृतं जनाः १३।
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि ।
सवंशाः प्रलयं सर्वे गमिष्यंति दुराशयाः १४।
स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम ।
यथा भवेन्महापुण्यं तद्वै कथय सूतज १५।
यस्योपदेशतः पुण्यं पापं वा कुर्वते जनाः ।
स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम् १६।
पुण्योपदेशः सदयः कैतवैश्च विवर्जितः ।
पापमार्गविरोधी च चत्वारः केशवोपमाः १७।
ज्ञानं संप्राप्य संसारे यः परेभ्यो न यच्छति ।
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते १८।
ज्ञानरत्नैश्च रत्नैश्च परसंतोषकृन्नरः ।
स ज्ञेयः सुमतिर्नूनं नररूपधरो हरिः १९।
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः ।
त्वदृते न हि वक्ताऽन्यो यतस्त्वं व्यासशासितः २०।
सूत उवाच-
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः ।
यतः समस्तलोकानां हितं वाञ्छसि सर्वदा २१।
शृणु शौनक वक्ष्यामि यत्त्वया श्रोतुमिच्छितम् ।
सर्वलोकहितार्थाय वैष्णवानां विशेषतः २२।
पृष्टो जैमिनिना सर्वं यदुवाच शृणुष्व तत् ।
महर्षिर्जैमिनिर्नाम योगाभ्यासरतः सदा २३।
प्रणम्य शिरसा व्यासं पप्रच्छ मुनिसत्तमः ।
जैमिनिरुवाच-
भगवन्सर्वधर्मज्ञ व्यास सत्यवती सुत २४।
कलौ कस्माद्भवेन्मोक्षस्तन्ममाचक्ष्व मूलतः ।
सूत उवाच-
जैमिनेर्वचनं श्रुत्वा व्यासः संतुष्टमानसः २५।
प्रारेभे मुनिशार्दूल कथां मंगलसंयुताम् ।
व्यास उवाच-
जैमिने मुनिशार्दूल धन्योऽसि त्वं महामते २६।
नारायणकथां श्रोतुं यतो वांछसि सर्वदा ।
सत्कथाश्रवणे बुद्धिर्यस्य यस्य प्रवर्तते २७।
तस्य तस्य भवेज्ज्ञानं ज्ञानं मोक्षप्रदं विदुः।
न वैष्णवकथा यस्मै रोचते पापिने भुवि २८।
वृथैव सृष्ट्वा विधिना भूमिर्भारवती कृता ।
कथायै जगती वक्तुं श्लाघ्यते वैष्णवैर्जनैः २९।
तां मिथ्यामिव यो वक्ति स ज्ञेयः पापिनां वरः ।
यस्मिन्दिने मुनिश्रेष्ठ श्रूयते न हरेः कथा ३०।
तद्दिनं दुर्दिनं मन्ये घनच्छन्नं न दुर्दिनम् ।
यत्र यत्र महीभागे वैष्णवी वर्तते कथा ३१।
सांनिध्यं तत्र भगवान्न जहाति कदाचन ।
यो वैष्णवकथारम्भे विघ्नकृन्मानवो भवेत् ३२।
तमेव शप्त्वा भगवान्दैवतैः सह गच्छति ।
प्रभावं वासुदेवस्य श्रुत्वा हृष्यंति ये जनाः ३३।
ज्ञेयास्त एव देवांशाः पूज्या दृश्याश्च सत्तमाः ।
नारायणप्रभावं ये श्रुत्वा चोपहसंति वै ३४।
ते विज्ञेया दानवांशा नरा नरकभागिनः ।
तत्र तीर्थानि सर्वाणि गङ्गादीनि द्विजोत्तम ३५।
देवर्षयश्च देवाश्च मुनयश्च तपोधनाः ।
शृण्वतां लोकसंघानां पापव्याधिविनाशनी ३६।
नारायणकथा यत्र वर्तते प्रतिवासरम् ।
मुने क्रियायोगसारं बह्वर्थं पापनाशनम् ३७।
नारायणकथोपेतं सेतिहासं निशामय ३८।
इति श्रीपाद्मे महापुराणे क्रियायोगसारे जैमिनिव्याससंवादे प्रथमोऽध्यायः १ ।