पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०९
अज्ञातलेखकः
अध्यायः ११० →

कुंजल उवाच-
प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम्
आमंत्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः १
एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या
आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः २
तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन
तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ३
बुभुजे दानवो मांसं रसस्वादुसमन्वितम्
हर्षेणापि समाविष्टो जगामाशोकसुंदरीम् ४
तामुवाच ततस्तूर्णं कामोपहतचेतनः
आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते ५
मामेव भज चार्वंगि भुंक्ष्व भोगान्मनोनुगान्
किं करिष्यसि तेन त्वं मानुषेण गतायुषा ६
प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी
भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः ७
तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः
एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः ८
तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः
अद्यैव भक्षितं मांसमायुपुत्रस्य सुंदरि ९
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः
एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् १०
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः
तप एव मया तप्तं मनसा नियमेन वै
आयुसुतश्चिरायुश्च सत्येनैव भविष्यति ११
इतो गच्छ दुराचार यदि जीवितुमिच्छसि
अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः १२
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति
परित्यज्य महाराज एतामन्यां समाश्रय १३
सूदेन प्रेषितो दैत्यः स हुंडः पापचेतनः
निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति १४
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम्
तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च १५
सूत उवाच-
अशोकसुंदरी सा च महता तपसा किल
दुःखशोकेन संतप्ता कृशीभूता तपस्विनी १६
चिंतयंती प्रियं कांतं तं ध्यायति पुनः पुनः
किं न कुर्वंति वै दैत्या उपायैर्विविधैरपि १७
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा
वर्तंते दनुजश्रेष्ठा नानाभावैश्च सर्वदा १८
मायोपायेन योगेन हृताहं पापिना पुरा
तथा स घातितः पुत्र आयोश्चैव भविष्यति १९
यं दृष्ट्वा दैवयोगेन भवितारमनामयम्
उद्यमेनापि पश्येत किं वा नश्यति वा न वा २०
किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम्
भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति २१
विशेषो भावितो देवैः स कथं चान्यथा भवेत्
एवमेवं महाभागा चिंतयंती पुनः पुनः २२
किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः
सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः २३
द्विभुजो वंशहस्तस्तु हारकंकणशोभितः
दिव्यगंधानुलिप्तांगो भार्यया सह चागतः २४
तामुवाच निरानंदां स सुतां शंकरस्यहि
किमर्थं चिंतसे देवि विद्वरं विद्धि चागतम् २५
किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः
दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति २६
हुंडेन पापचारेण वधार्थं तस्य धीमतः
कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे २७
स तु वै रक्षितो देवैरुपायैर्विविधैरपि
हुंड एवं विजानाति आयुपुत्रो हृतो मया २८
भक्षितस्तु विशालाक्षि इति जानाति वै शुभे
भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः २९
स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः
पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति ३०
पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम्
स्वर्जितस्य महाभागे नाशमिच्छंति घातकाः ३१
दुष्टात्मानो महापापाः परतेजोविदूषकाः
तेषां यशोविनाशार्थं प्रपंचंति दिने दिने ३२
नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः
हंतुमिच्छंति तं पुण्यं पुण्यकर्माभिरक्षितम् ३३
पापिनश्चैव हुंडाद्या मोहनस्तंभनादिभिः
पीडयंति महापापा नानाभेदैर्बलाविलैः ३४
सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि
पुण्यस्यापि महाभागे पुण्यवंतं सुरक्षितम् ३५
वैफल्यं यांति तेषां वै उपायाः पापिनां शुभे
यंत्रतंत्राणि मंत्राश्च शस्त्राग्निविषबंधनाः ३६
रक्षयंति महात्मानं देवपुण्यैः सुरक्षितम्
कर्तारो भस्मतां यांति स वै तिष्ठति पुण्यभाक् ३७
आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे
पुण्यस्य संचयं सर्वे तपसां निधिमेव तु ३८
तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः
सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः ३९
मा कृथा दारुणं दुःखं मुंच शोकमकारणम्
स हि जीवति धर्मात्मा मात्रा पित्रा विना वने ४०
तपोवनेव सत्येकस्तपस्वि परिपालितः
वेदवेदांगतत्त्वज्ञो धनुर्वेदस्य पारगः ४१
यथा शशी विराजेत स्वकलाभिः स्वतेजसा
तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे ४२
विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा
राजते परवीरघ्नो रिपुहा सुरवल्लभः ४३
हुंडं निहत्य दैत्येंद्रं त्वामेवं हि प्रलप्स्यते
त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः ४४
भविष्यति महायोगी यथा स्वर्गे तु वासवः
त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ४५
ययातिं नामधर्मज्ञं प्रजापालनतत्परम्
तथा कन्याशतं चापि रूपौदार्यगुणान्वितम् ४६
यासां पुण्यैर्महाराज इंद्रलोकं प्रयास्यति
इंद्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः ४७
ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति
प्रजापालो महाराजः सर्वजीवदयापरः ४८
तस्य पुत्रास्तु चत्वारो भविष्यंति महौजसः
बलवीर्यसमोपेता धनुर्वेदस्य पारगाः ४९
प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः
उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः ५०
एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः
भविष्यंति महात्मानः सर्वतेजः समन्विताः ५१
यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः
तेषां नामानि भद्रं ते गदतः शृणु सांप्रतम् ५२
भोजश्च भीमकश्चापि अंधकः कुञ्जरस्तथा
वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति ५३
षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः
कालदंष्ट्रो महावीर्यः समरे कालजिद्बली ५४
यदोः पुत्रा महावीर्या यादवाख्या वरानने
तेषां तु पुत्राः पौत्रास्ते भविष्यंति सहस्रशः ५५
एवं नहुषवंशो वै तव देवि भविष्यति
दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय ५६
समेष्यति महाप्राज्ञस्तव भर्ता शुभानने
निहत्य दानवं हुंडं त्वामेवं परिणेष्यति ५७
दुःखजातानि सोष्णानि नेत्राभ्यां हि पतंति च
अश्रूणि चेंदुमत्याश्च संमार्जयति मानदः ५८
आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति
सुखिनं पितरं कृत्वा प्रजापालो भविष्यति ५९
एतत्ते सर्वमाख्यातं देवानां कथनं शुभे
दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय ६०
अशोकसुंदर्युवाच-
कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि
सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय ६१
विद्वर उवाच-
अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुंदरि
एवमुक्त्वा जगामाथ गंधर्वो विबुधालयम् ६२
अशोकसुंदरी सा च तपस्तेपे हि तत्र वै
कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा ६३
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने नवाधिकशततमोऽध्यायः १०९