पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०८

विकिस्रोतः तः
← अध्यायः १०७ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०८
अज्ञातलेखकः
अध्यायः १०९ →

कुंजल उवाच-
ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः ।
नहुषं तं समाहूय इदं वचनमब्रवीत् १।
वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम् ।
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ २।
तत्र किंचित्सुवृत्तांतं शुश्राव नहुषो बलः ।
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ३।
आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः ।
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ४।
अशोकसुंदरी तेपे तपः परमदुष्करम् ।
कदा पश्यति सा देवी पुत्रमिंदुमती शुभा ५।
नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः ।
तपस्तेपे निरालंबा शिवस्य तनया वरा ६।
अशोकसुंदरी बाला आयुपुत्रस्य कारणात् ।
अनेनापि कदा सा हि संगता तु भविष्यति ७।
एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ।
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ८।
स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति ।
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ९।
बद्धांजलिपुटोभूत्वा भक्त्या नमितकंधरः ।
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् १०।
भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम् ।
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ११।
मात्रा सह सुदुःखैस्तु इंदुमत्या हि दानवैः ।
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् १२।
निमित्तमस्य धीरस्य नहुषस्येति वै गुरो ।
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् १३।
कोसावायुः स धर्मात्मा कासा त्विंदुमती शुभा ।
अशोकसुंदरी कासा नहुषेति क उच्यते १४।
एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ।
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च १५।
तत्सर्वं तात मे ब्रूहि कारणांतरमेव हि ।
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली १६।
भार्या इंदुमती तस्य सत्यरूपा यशस्विनी ।
तस्यामुत्पादितः पुत्रो भवान्वै गुणमंदिरम् १७।
आयुना राजराजेन सोमवंशस्य भूषणम् ।
हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता १८।
अशोकसुंदरी नाम्ना सुभगा चारुहासिनी ।
तस्य हेतोस्तपस्तेपे निरालंबा तपोवने १९।
तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ।
गंगायास्तीरमाश्रित्य ध्यानयोग समाश्रिता २०।
हुंडश्च दानवेंद्रो यो दृष्ट्वा चैकाकिनीं सतीम् ।
तपसा प्रज्वलंतीं च सुभगां कमलेक्षणाम् २१।
रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः ।
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च २२।
एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी ।
मा हुंड साहसं कार्षीर्मा जल्पस्व पुनः पुनः २३।
अप्राप्याहं त्वया वीर परभार्या विशेषतः ।
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः २४।
नहुषो नाम मेधावी भविष्यति न संशयः ।
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि २५।
ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि ।
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः २६।
व्याजेनापि हृता तेन प्रणीता निजमंदिरे ।
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः २७।
नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति ।
अजाते त्वयि संजाता वदसे त्वं यथैव तत् २८।
स त्वमायुसुतो वीर हृतो हुंडेन पापिना ।
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् २९।
भवंतं वनमध्ये च दृष्ट्वा चारणकिन्नरैः ।
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ३०।
जहि तं पापकर्तारं हुंडाख्यं दानवाधमम् ।
नेत्राभ्यां हि प्रमुंचंतीमश्रूणि परिमार्जय ३१।
इतो गत्वा प्रपश्य त्वं गंगातीरं महाबलम् ।
निपात्य दानवेंद्रं तं कारागृहात्समानय ३२।
अशोकसुंदरी याहि तस्या भर्ता भवस्व हि ।
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ३३।
आभाष्य नहुषं विप्रो विरराम महामतिः ३४।
आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिंत्यमानः ।
तस्यांतमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ३५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः १०८।