सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६७

विकिस्रोतः तः
← अध्यायः ०६६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६७
अज्ञातलेखकः
अध्यायः ०६८ →


ययातिरुवाच-
अस्मद्भाग्यप्रसंगेन भवतो दर्शनं मम ।
संजातं शक्रसंवाह एतच्छ्रेयो ममातुलम् १।
मानवा मर्त्यलोके च पापं कुर्वंति दारुणम् ।
तेषां कर्मविपाकं च मातले वद सांप्रतम् २।
मातलिरुवाच-
श्रूयतामभिधास्यामि पापाचारस्य लक्षणम् ।
श्रुते सति महज्ज्ञानमत्रलोके प्रजायते ३।
वेदनिंदां प्रकुर्वंति ब्रह्माचारस्य कुत्सनम् ।
महापातकमेवापि ज्ञातव्यं ज्ञानपंडितैः ४।
साधूनामपि सर्वेषां यः पीडां हि समाचरेत् ।
महापातकमेवापि प्रायश्चित्ते न हि व्रजेत् ५।
कुलाचारं परित्यज्य अन्याचारं व्रजंति च ।
एतच्च पातकं घोरं कथितं कृत्यवेदिभिः ६।
मातापित्रोश्च यो निंदां ताडनं भगिनीषु च ।
पितृस्वसृनिंदनं च तदेव पातकं ध्रुवम् ७।
संप्राप्ते श्राद्धकालेपि पंचक्रोशांतरेस्थितम् ।
जामातरं परित्यज्य तथा च दुहितुः सुतम् ८।
स्वसारं चैव स्वस्रीयं परित्यज्य प्रवर्तते ।
कामात्क्रोधाद्भयाद्वापि अन्यं भोजयते यदा ९।
पितरो नैव भुंजंति देवाश्चैव न भुंजते ।
एतच्च पातकं तस्य पितृघातसमं कृतम् १०।
दानकालेपि संप्राप्ते आगते ब्राह्मणे किल ।
भूरिदानं परित्यज्य कतिभ्यो हि प्रदीयते ११।
एकस्मै दीयते दानमन्येभ्योपि न दीयते ।
एतच्च पातकं घोरं दानभ्रंशकरं स्मृतम् १२।
यजमानगृहे सेवा संस्थितान्ब्राह्मणान्निजान् ।
परित्यज्य हि यद्दानं न दानस्य च लक्षणम् १३।
समाश्रितं हि यं विप्रं धर्माचारसमन्वितम् ।
सर्वोपायैः सुपुष्येत्तं सुदानैर्बहुभिर्नृप १४।
न गणयेन्मूर्खं विद्वांसं पोष्यो विप्रः सदा भवेत् ।
सर्वैः पुण्यैः समायुक्तं सुदानैर्बहुभिर्नृप १५।
तं समभ्यर्च्य विद्वांसं प्राप्तं विप्रं सदार्हयेत् ।
तं हि त्यक्त्वा ददेद्दानमन्यस्मै ब्राह्मणाय वै १६।
दत्तं हुतं भवेत्तस्य निष्फलं नात्र संशयः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि चतुर्थकः १७।
पुण्यकालेषु सर्वेषु संश्रितं पूजयेद्द्विजम् ।
मूर्खं वापि हि विद्वांसं तस्य पुण्यफलं शृणु १८।
अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते ।
कस्माद्धिकारणाद्राजञ्छक्यं प्राप्य न कारयेत् १९।
अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि ।
उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्ततः २०।
तांबूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः ।
श्राद्धभुक्ताय दातव्यं सदा दानं च दक्षिणा २१।
न ददेच्छ्राद्धकर्ता यो गोहत्यादि समं भवेत् ।
द्वावेतौ पूजयेत्तस्माच्छ्रद्धया नृपसत्तम २२।
निर्द्धनत्व प्रभावाद्वै तमेकं हि प्रपूजयेत् ।
व्यतीपातेपि संप्राप्ते वैधृतौ च नृपोत्तम २३।
अमावास्यां तथा राजन्क्षयाहे परपक्षके ।
श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादि त्रिवर्णकैः २४।
यज्ञे तथा महाराज ऋत्विजश्च प्रकारयेत् ।
तथा विप्राः प्रकर्तव्याः श्राद्धदानाय सर्वदा २५।
अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता ।
यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तथा २६।
आचारश्च तथा राजंस्तं विप्रं सन्निमंत्रयेत् ।
कुलं न ज्ञायते यस्य आचारेण विचारयेत् २७।
श्राद्धदाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि ।
अविज्ञातो भवेद्विप्रो वेदवेदांगपारगः २८।
श्राद्धदानं प्रकर्तव्यं तस्माद्विप्रं निमंत्रयेत् ।
आतिथ्यं तु प्रकर्तव्यमपूर्वं नृपसत्तम २९।
अन्यथा कुरुते पापी स याति नरकं ध्रुवम् ।
तस्माद्विप्रः प्रकर्तव्यो दाने श्राद्धे च पर्वसु ३०।
आदौ परीक्षयेद्विप्रं श्राद्धे दाने प्रकारयेत् ।
नाश्नंति तस्य वै गेहे पितरो विप्रवर्जिताः ३१।
शापं दत्त्वा ततो यांति श्राद्धाद्विप्रविवर्जितात् ।
महापापी भवेत्सोपि ब्रह्मणः सदृशो यदि ३२।
पैत्राचारं परित्यज्य यो वर्तेत नरोत्तम ।
महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः ३३।
ये त्यजंति शिवाचारं वैष्णवं भोगदायकम् ।
निंदंति ब्राह्मणं धर्मं विज्ञेयाः पापवर्द्धनाः ३४।
ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।
हरिं निंदंति ये पापा ब्रह्मद्वेषकराः सदा ३५।
आचारनिंदका ये ते महापातककृत्तमाः ।
आद्यं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा ३६।
वैष्णवं हरिवंशं वा मत्स्यं वा कूर्ममेव च ।
पाद्मं वा ये पूजयंति तेषां श्रेयो वदाम्यहम् ३७।
प्रत्यक्षं तेन वै देवः पूजितो मधुसूदनः ।
तस्मात्प्रपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम् ३८।
देवस्थाने च नित्यं वै वैष्णवं पुस्तकं नृप ।
तस्मिन्प्रपूजिते विप्र पूजितः कमलापतिः ३९।
असंपूज्य हरेर्ज्ञानं ये गायंति लिखंति च ।
अज्ञाय तत्प्रयच्छंति शृण्वंत्युच्चारयंति च ४०।
विक्रीडंति च लोभेन कुज्ञान नियमेन च ।
असंस्कृतप्रदेशेषु यथेष्टं स्थापयंति च ४१।
हरिज्ञानं यथाक्षेमं प्रत्यक्षाच्च प्रकाशयेत् ।
अधीते च समर्थश्च यः प्रमादं करोति च ४२।
अशुचिश्चाशुचौ स्थाने यः प्रवक्ति शृणोति च ।
इति सर्वं समासेन ज्ञाननिंदा समं स्मृतम् ४३।
गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति ।
न करोति च शुश्रूषामाज्ञाभंगं च भावतः ४४।
नाभिनंदति तद्वाक्यमुत्तरं संप्रयच्छति ।
गुरुकर्मणि साध्ये च तदुपेक्षां करोति च ४५।
गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा ।
अरिभिः परिभूतं वा यः संत्यजति पापकृत् ४६।
पठमानं पुराणं तु तस्य पापं वदाम्यहम् ।
कुंभीपाके वसेत्तावद्यावदिंद्राश्चतुर्दश ४७।
पठमानं गुरुं यो हि उपेक्षयति पापधीः ।
तस्यापि पातकं घोरं चिरं नरकदायकम् ४८।
भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च ।
इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महत् ४९।
ब्रह्महा स्वर्णस्तेयी च सुरापी गुरुतल्पगः ।
महापातकिनश्चैते तत्संयोगी च पंचमः ५०।
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य विशेषतः ।
मर्मातिकृन्तको यश्च ब्रह्मघ्नः स प्रकीर्तितः ५१।
ब्राह्मणं यः समाहूय याचमानमकिंचनम् ।
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा नृप ५२।
यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम् ।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ५३।
मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः ।
गुरुं विरोधयेद्यस्तु स च वै ब्रह्महा स्मृतः ५४।
क्षुत्तृषातप्तदेहानामन्नभोजनमिच्छताम् ।
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ५५।
पिशुनः सर्वलोकानां रंध्रान्वेषणतत्परः ।
उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः ५६।
देवद्विज गवां भूमिं पूर्वदत्तां हरेत्तु यः ।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ५७।
द्विजवित्तापहरणं न्यासेन समुपार्जितम् ।
ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम् ५८।
अग्निहोत्रं परित्यज्य पंचयज्ञीयकर्मणि ।
मातापित्रोर्गुरूणां च कूटसाक्ष्यं च यश्चरेत् ५९।
अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणम् ।
वने निरपराधानां प्राणिनां च प्रमारणम् ६०।
गवां गोष्ठे वने चाग्नेः पुरे ग्रामे च दीपनम् ।
इति पापानि घोराणि सुरापानसमानि तु ६१।
दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् ।
गोभूरजतवस्त्राणामोषधीनां रसस्य च ६२।
चंदनागुरुकर्पूर कस्तूरी पट्ट वाससाम् ।
परन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ६३।
कन्याया वरयोग्याया अदानं सदृशे वरे ।
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ६४।
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ।
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ६५।
महापातकतुल्यानि पापान्युक्तानि यानि तु ।
तानि पातकसंज्ञानि तन्न्यूनमुपपातकम् ६६।
द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः ।
तत्र विस्मरते विप्रस्तुल्यं तदुपपातकम् ६७।
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम् ।
अतिमानातिकोपश्च दांभिकत्वं कृतघ्नता ६८।
अन्यत्र विषयासक्तिः कार्पर्ण्यं शाठ्यमत्सरम् ।
परदाराभिगमनं साध्वीकन्याभिदूषणम् ६९।
परिवित्तिः परिवेत्ता यया च परिविद्यते ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ७०।
पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा ।
भार्याणां च परित्यागः साधूनां च तपस्विनाम् ७१।
गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम् ।
शिवायतनवृक्षाणां पुण्याराम विनाशनम् ७२।
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ।
तद्भृत्यपरिवर्गस्य पशुधान्यवनस्य च ७३।
कर्ष धान्य पशुस्तेयमयाज्यानां च याजनम् ।
यज्ञारामतडागानां दारापत्यस्य विक्रयः ७४।
तीर्थयात्रोपवासानां व्रतानां च सुकर्मणाम् ।
स्त्रीधनान्युपजीवंति स्त्रीभगात्यंतजीविता ७५।
स्वधर्मं विक्रयेद्यस्तु अधर्मं वर्णते नरः ।
परदोषप्रवादी च परच्छिद्रावलोककः ७६।
परद्रव्याभिलाषी च परदारावलोककः ।
एते गोघ्नसमानाश्च ज्ञातव्या नृपनंदन ७७।
यः कर्ता सर्वशास्त्राणां गोहर्ता गोश्च विक्रयी ।
निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः ७८।
मिथ्या प्रवदते वाचमाकर्णयति यः परैः ।
स्वामिद्रोही गुरुद्रोही मायावी चपलः शठः ७९।
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान् ८०।
ये तु मृष्टं समश्नंति नो वांच्छंतं ददंति च ।
पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः ८१।
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।
प्रव्रज्यागमिता यैश्च संयुक्ता ये च मद्यपैः ८२।
ये चापि क्षयरोगार्तां गां पिपासा क्षुधातुराम् ।
न पालयंति यत्नेन ते गोघ्ना नारकाः स्मृताः ८३।
सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः ।
साधून्विप्रान्गुरूंश्चैव यश्च गां हि प्रताडयेत् ८४।
ये ताडयंत्यदोषां च नारीं साधुपदेस्थिताम् ।
आलस्यबद्धसर्वांगो यः स्वपिति मुहुर्मुहुः ८५।
दुर्बलांश्च न पुष्णंति नष्टान्नान्वेषयंति च ।
पीडयंत्यतिभारेण सक्षतान्वाहयंति च ८६।
सर्वपापरता ये च संयुक्ता ये च भुंजते ।
भग्नांगीं क्षतरोगार्तां गोरूपां च क्षुधातुराम् ८७।
न पालयंति यत्नेन ते जना नारकाः स्मृताः ।
वृषाणां वृषणौ ये च पापिष्ठा घातयंति च ८८।
बाधयंति च गोवत्सान्महानारकिणो नराः ।
आशया समनुप्राप्तं क्षुत्तृषाश्रमपीडितम् ८९।
ये चातिथिं न मन्यंते ते वै निरयगामिनः ।
अनाथं विकलं दीनं बालं वृद्धं भृशातुरम् ९०।
नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ।
अजाविको माहिषिको यः शूद्रा वृषलीपतिः ९१।
शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते ।
शिल्पिनः कारवो वैद्यास्तथा देवलका नराः ९२।
भृतकामात्यकर्माणः सर्वे निरयगामिनः ।
यश्चोदितमतिक्रम्य स्वेच्छया आहरेत्करम् ९३।
नरकेषु स पच्येत यश्च दंडं वृथा नयेत् ।
उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते ९४।
यस्य राज्ञः प्रजा राज्ये पच्यते नरकेषु सः ।
ये द्विजाः प्रतिगृह्णंति नृपस्य पापवर्तिनः ९५।
प्रयांति तेपि घोरेषु नरकेषु न संशयः ।
पारदारिकचौराणां यत्पापं पार्थिवस्य च ९६।
भवत्यरक्षतो घोरो राज्ञस्तस्य परिग्रहः ।
अचौरं चौरवद्यश्च चौरं चाचौरवत्पुनः ९७।
अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् ।
घृततैलान्नपानादि मधुमांस सुरासवम् ९८।
गुडेक्षुक्षीरशाकादि दधिमूलफलानि च ।
तृणकाष्ठं पुष्पपत्रं कांस्यभाजनमेव च ९९।
उपानच्छत्रकटक शिबिकामासनं मृदु ।
ताम्रं सीसं त्रपुकांस्यं शंखाद्यं च जलोद्भवम् १००।
वादित्रं वेणुवंशाद्यं गृहोपस्करणानि च ।
ऊर्णाकार्पासकौशेय रंगपद्मोद्भवानि च १०१।
तूलं सूक्ष्माणिवस्त्राणि ये लोभेन हरंति च ।
एवमादीनि चान्यानि द्रव्याणि विविधानि च १०२।
नरकेषु द्रुतं गच्छेदपहृत्याल्पकान्यपि ।
यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् १०३।
अपहृत्य नरो याति नरके नात्र संशयः ।
बह्वल्पकाद्यपि तथा परस्य ममताकृतम् १०४।
अपहृत्य नरो याति नरके नात्र संशयः ।
एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम् १०५।
शरीरघातनार्थाय पूर्वाकारमवाप्नुयात् ।
यमलोकं व्रजंत्येते शरीरस्था यमाज्ञया १०६।
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः ।
देवतिर्यङ्मनुष्याणामधर्मनियतात्मनाम् १०७।
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।
विनयाचारयुक्तानां प्रमादान्मलिनात्मनाम् १०८।
प्रायश्चित्तैर्गुरुः शास्ता न च तैरीक्ष्यते यमः ।
पारदारिकचौराणामन्यायव्यवहारिणाम् १०९।
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट् ।
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ११०।
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।
यः करोति स्वयं कर्म कारयेद्वानुमोदयेत् १११।
कायेन मनसा वाचा तस्य चाधोगतिः फलम् ।
इति संक्षेपतः प्रोक्ताः पापभेदास्त्रिधाधुना ११२।
कथ्यंते गतयश्चित्रा नराणां पापकर्मणाम् ।
एतत्ते नृपते धर्म फलं प्रोक्तं सुविस्तरात् ११३।
अन्यत्किंते प्रवक्ष्यामि तन्मे ब्रूहि नरोत्तम ।
अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् ११४।
इत्युक्त्वा मातलिस्तत्र राजानं सर्ववत्सलम् ।
तस्मिन्धर्मप्रसंगेन इत्याख्यातं महात्मना ११५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे सप्तषष्टितमोऽध्यायः ६७।