पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६६
← अध्यायः ०६५ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ६६ अज्ञातलेखकः |
अध्यायः ०६७ → |
ययातिरुवाच-
पापात्पतति कायोयं धर्माच्च शृणु मातले ।
विशेषं न च पश्यामि पुण्यस्यापि महीतले १।
पुनः प्रजायते कायो यथा हि पतनं पुरा ।
कथमुत्पद्यते देहस्तन्मे विस्तरतो वद २।
मातलिरुवाच-
अथ नारकिणां पुंसामधर्मादेव केवलात् ।
क्षणमात्रेण भूतेभ्यः शरीरमुपजायते ३।
तद्वद्धर्मेण चैकेन देवानामौपपादिकम् ।
सद्यः प्रजायते दिव्यं शरीरं भूतसारतः ४।
कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् ।
तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम् ५।
उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादि रूपिणः ।
कृमिकीटपतंगाद्याः स्वेदजानामदेहिनः ६।
अंडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते ।
जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः ७।
तत्र सिक्ता जलैर्भूमिर्रक्ते उष्मविपाचिता ।
वायुना धम्यमाना च क्षेत्रे बीजं प्रपद्यते ८।
यथा उप्तानि बीजानि संसिक्तान्यंभसा पुनः ।
उपगम्य मृदुत्वं च मूलभावं व्रजंति च ९।
तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः ।
पर्णान्नालं ततः कांडं कांडाच्च प्रभवः पुनः १०।
प्रभवाच्च भवेत्क्षीरं क्षीरात्तंदुलसंभवः ।
तंदुलाच्च ततः पक्वा भवंत्योषधयस्तथा ११।
यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः ।
ओषध्यः फलसाराढ्याः शेषा क्षुद्रा प्रःकीर्तिताः १२।
एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः ।
शूर्पोलूखलपात्राद्यैः स्थालिकोदकवह्निभिः १३।
षड्विधा हि स्वभेदेन परिणामं व्रजंति ताः ।
अन्योन्यरससंयोगादनेकस्वादतां गताः १४।
भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खाद्यं च भूपते ।
तासां भेदाः षडंगाश्च मधुराद्याश्च षड्गुणाः १५।
तदन्नं पिंडकवलैर्ग्रासैर्भुक्तं च देहिभिः ।
अन्नमूलाशये सर्वप्राणान्स्थापयति क्रमात् १६।
अपक्वं भुक्तमाहारं स वायुः कुरुते द्विधा ।
संप्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम् १७।
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि ।
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः १८।
वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम् ।
तदन्नमुष्णयोगेन समंतात्पच्यते पुनः १९।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः ।
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् २०।
कर्णाक्षि नासिका जिह्वा दंतोष्ठ प्रजनं गुदा ।
मलान्स्रवेदथ स्वेदो विण्मूत्रं द्वादश स्मृताः २१।
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समंततः ।
तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयते रसम् २२।
रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।
संतर्पयंति ता नाड्यः पूर्णा देहं समंततः २३।
ततः स नाडीमध्यस्थः शारीरेणोष्मणा रसः ।
पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः २४।
त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते ।
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः २५।
स्नायोर्मज्जा तथास्थीनि वसा मज्जास्थिसंभवा ।
मज्जाकारेण वैकल्यं शुक्रं च प्रसवात्मकम् २६।
इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः ।
शुक्रं तस्य परीणामः शुक्राद्देहस्य संभवः २७।
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ।
तदा तद्वायुसंसृष्टं स्त्रीरक्तेनैकतां व्रजेत् २८।
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ।
नित्यं प्रविशते योनिं कर्मभिः स्वैर्नियंत्रितः २९।
शुक्रस्य सह रक्तस्य एकाहात्कललं भवेत् ।
पंचरात्रेण कलले बुद्बुदत्वं ततो भवेत् ३०।
मांसत्वं मासमात्रेण पंचधा जायते पुनः ।
ग्रीवा शिरश्च स्कंधश्च पृष्ठवंशस्तथोदरम् ३१।
पाणीपादौ तथा पार्श्वौ कटिर्गात्रं तथैव च ।
मासद्वयेन पर्वाणि क्रमशः संभवंति च ३२।
त्रिभिर्मासैः प्रजायंते शतशोंकुरसंधयः ।
मासैश्चतुर्भिर्जायंते अंगुल्यादि यथाक्रमम् ३३।
मुखं नासा च कर्णौ च मासैर्जायंति पंचभिः ।
दंतपंक्तिस्तथा जिह्वा जायते तु नखाः पुनः ३४।
कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यंतरे पुनः ।
पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते ३५।
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।
अंगप्रत्यंगसंपूर्णं शिरः केशसमन्वितम् ३६।
विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत् ।
पंचात्मक समायुक्तः परिपक्वः स तिष्ठति ३७।
मातुराहारवीर्येण षड्विधेन रसेन च ।
नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने ३८।
ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके ।
सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम् ३९।
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया दृष्टान्यनेकधा ४०।
अधुना जातमात्रोहं प्राप्तसंस्कार एव च ।
ततः श्रेयः करिष्यामि येन गर्भे न संभवः ४१।
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः ।
अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् ४२।
अवश्यं गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत् ४३।
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।
तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ४४।
पतितः सागरे यद्वद्दुःखमास्ते समाकुलः ।
गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः ४५।
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।
गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना ४६।
सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम् ।
यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत् ४७।
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् ।
देहिनां दुःखमतुलं सुघोरमपि संकटम् ४८।
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् ।
चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ४९।
गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात् ।
संमूर्च्छितस्य जायेत जायमानस्य देहिनः ५०।
इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात् ।
गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः ५१।
जायते सुमहद्दुःखं परित्राणं न विंदति ।
यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः ५२।
तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात् ।
अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम् ५३।
रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम् ।
केशलोमनखच्छन्नं रोगायतनमुत्तमम् ५४।
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ।
ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम् ५५।
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।
जराशोकसमाविष्टं कालवक्त्रानलेस्थितम् ५६।
कामक्रोधसमाक्रांतं श्वसनैश्चोपमर्दितम् ।
भोगतृष्णातुरं गूढं रागद्वेष वशानुगम् ५७।
सवर्णितांगप्रत्यंगं जरायु परिवेष्टितम् ।
संकटेनाविविक्तेन योनिमार्गेण निर्गतम् ५८।
विण्मूत्ररक्तसिक्तांगं षट्कौशिकसमुद्भवम् ।
अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे ५९।
शतत्रयं शताधिकं पंचपेशी शतानि च ।
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ६०।
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरंततः ।
एताभिर्मांसनाडीभिः कोटिभिस्तत्समन्वितम् ६१।
प्रस्वेदमशुचिं ताभिरंतरस्थं च तेन हि ।
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ६२।
पित्तस्य कुडवं ज्ञेयं कफस्यार्धाढकं तथा ।
वसायाश्च पलाः पंच तदर्धं फलकस्य च ६३।
पंचार्बुद पला ज्ञेयाः पलानि दश मेदसः ।
पलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा ६४।
शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् ।
मांसस्य चैकं पिंडेन पलसाहस्रमुच्यते ६५।
रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः ।
इति देहगृहे राजन्वासः स्यान्नित्यमात्मनः ६६।
अशुद्धं च विशुद्धस्य कर्मबंधविनिर्मितम् ।
शुक्रशोणितसंयोगाद्देहः संजायते क्वचित् ६७।
नित्यं विण्मूत्रसंयुक्तस्तेनायमशुचिः स्मृतः ।
यथा वै विष्ठया पूर्णः शुचिः सांतर्बहिर्घटः ६८।
शौचेन शोध्यमानोपि देहोयमशुचिर्भवेत् ।
यं प्राप्यातिपवित्राणि पंचगव्य हवींषि च ६९।
अशुचित्वं प्रयांत्याशु देहोयमशुचिस्ततः ।
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ७०।
अशुचित्वं प्रयांत्याशु कोऽन्य स्यादशुचिस्ततः ।
हे जनाः किं न पश्यध्वं यन्निर्याति दिनेदिने ७१।
देहानुगो मलः पूतिस्तदाधारः कथं शुचिः ।
देहः संशोध्यमानोपि पंचगव्यकुशांबुभिः ७२।
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।
स्रोतांसि यस्य सततं प्रवहंति गिरेरिव ७३।
कफमूत्राद्यमशुचिः स देहः शुध्यते कथम् ।
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ७४।
शुचिरेकप्रदेशोपि शुचिर्न स्यादृतेऽपि वा ।
दिवा वा यदि वा रात्रौ मृत्तोयैः शोध्यते करः ७५।
तथापि शुचिभाङ्नस्यान्न विरज्यंति ते नराः ।
कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः ७६।
न जहाति स्वभावं हि श्वपुच्छमिव नामितम् ।
तथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते ७७।
संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ।
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ७८।
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ।
अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् ७९।
जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते ।
स्वदेहस्य विगंधेन विरज्येत न यो नरः ८०।
विरागकारणं तस्य किमन्यदुपदिश्यते ।
सर्वमेव जगत्पूतं देहमेवाशुचिः परम् ८१।
यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ।
गंधलेपापनोदाय शौचं देहस्य कीर्तितम् ८२।
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुद्ध्यति ।
गंगातोयेन सर्वेण मृद्भारैर्गात्रलेपनैः ८३।
मर्त्यो दुर्गंधदेहोसौ भावदुष्टो न शुध्यति ।
तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति ८४।
स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति ।
अंतर्भावप्रदुष्टस्य विशतोपि हुताशनम् ८५।
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ।
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ८६।
अन्यथा लिंग्यते कांता भावेन दुहितान्यथा ।
मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ८७।
अन्यथैव सती पुत्रं चिंतयेदन्यथा पतिम् ।
यथायथा स्वभावस्य महाभाग उदाहृतम् ८८।
परिष्वक्तोपि यद्भार्यां भावहीनां न कारयेत् ।
नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च ८९।
अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् ।
चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ९०।
भावतः शुचिशुद्धात्मा स्वर्गं मोक्षं च विंदति ।
ज्ञानामलांभसा पुंसः सवैराग्यमृदापुनः ९१।
अविद्या रागविण्मूत्र लेपो नश्येद्विशोधनैः ।
एवमेतच्छरीरं हि निसर्गादशुचिं विदुः ९२।
विद्यादसार निःसारं कदलीसारसन्निभम् ।
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिली भवेत् ९३।
सोतिक्रामति संसारं दृढग्राहोवतिष्ठति ।
एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् ९४।
पुंसामज्ञानदोषेण नानाकर्मवशेन च ।
गर्भस्थस्य मतिर्यासीत्सा जातस्य प्रणश्यति ९५।
सुमूर्च्छितस्य दुःखेन योनियंत्रनिपीडनात् ।
बाह्येन वायुना चास्य मोहसंगेन देहिनाम् ९६।
स्पृष्टमात्रस्य घोरेण ज्वरः समुपजायते ।
तेन ज्वरेण महता महामोहः प्रजायते ९७।
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ।
स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ९८।
रतिः संजायते तस्य जंतोस्तत्रैव जन्मनि ।
रक्तो मूढश्च लोकोयमकार्ये संप्रवर्त्तते ९९।
न चात्मानं विजानाति न परं न च दैवतम् ।
न शृणोति परं श्रेयः सचक्षुरपि नेक्षते १००।
समे पथि शनैर्गच्छन्स्खलतीव पदेपदे ।
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि १०१।
संसारे क्लिश्यते तेन नरो लोभवशानुगः ।
गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च १०२।
तद्दुःखकथनार्थाय स्वर्गमोक्षप्रसाधकम् ।
येन तस्मिञ्छिवे ज्ञाते धर्मकामार्थसाधने १०३।
न कुर्वंत्यात्मनः श्रेयस्तदत्र महदद्भुतम् ।
अव्यक्तेंद्रियबुद्धित्वाद्बाल्येदुःखं महत्पुनः १०४।
इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृती ।
दंतजन्ममहद्दुःखं लौल्येन वायुना तथा १०५।
बालरोगैश्च विविधैः पीडाबालग्रहैरपि ।
तृड्बुभुक्षा परीतांगः क्वचित्तिष्ठति गच्छति १०६।
विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत् ।
कौमारः कर्णवेधेन मातापित्रोश्च ताडनैः १०७।
अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात् ।
प्रमत्तेंद्रियवृत्तेश्च कामरागप्रपीडिनः १०८।
रोगार्दितस्य सततं कुतः सौख्यं हि यौवने ।
ईर्ष्यासु महद्दुःखं मोहाद्दुःखं प्रजायते १०९।
तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम् ।
रात्रौ न विंदते निद्रा कामाग्नि परिखेदितः ११०।
दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया ।
स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः १११।
न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः ।
कृमिभिस्ताड्यमानस्य कुष्ठिनः पामरस्य च ११२।
कंडूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः ।
यादृशं मन्यते सौख्यमर्थोपार्जनचिंतया ११३।
तादृशं स्त्रीषु मंतव्यमधिकं नैव विद्यते ।
मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः ११४।
ततोन्योन्यं पुरा प्राप्तमंते सैवान्यथा भवेत् ।
तदेवं जरया ग्रस्तमामया व्यपिनप्रियम् ११५।
अपूर्ववत्समात्मानं जरया परिपीडितम् ।
यः पश्यन्न विरज्येत कोन्यस्तस्मादचेतनः ११६।
जराभिभूतोपि जंतुः पत्नीपुत्रादिबांधवैः ।
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ११७।
न धर्ममर्थं कामं च मोक्षं च जरयायुतः ।
शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत् ११८।
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ।
वातादीनां समूहेन देहोयं परिकीर्तितः ११९।
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ।
वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पंजरस्य च १२०।
रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा ।
तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् १२१।
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ।
तत्रैकः कालसंयुक्तः शेषाश्चागंतवः स्मृताः १२२।
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः ।
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति १२३।
यदि वापमृत्युर्न स्याद्विषास्वादादशंकितः ।
न चात्ति पुरुषस्तस्मादपमृत्योर्बिभेति सः १२४।
विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा ।
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् १२५।
पीडितं सर्वरोगाद्यैरपि धन्वंतरिः स्वयम् ।
स्वस्थीकर्तुं न शक्नोति कालप्राप्तं न चान्यथा १२६।
नौषधं न तपो दानं न माता न च बांधवाः ।
शक्नुवंति परित्रातुं नरं कालेन पीडितम् १२७।
रसायन तपो जाप्ययोगसिद्धैर्महात्मभिः ।
अवांतरितशांतिः स्यात्कालमृत्युमवाप्नुयात् १२८।
जायते योनिकीटेषु मृतः कर्मवशात्पुनः ।
देहभेदेन यः पश्येद्वियोगं कर्मसंक्षयात् १२९।
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ।
महातमः प्रविष्टस्य छिद्यमानेषु मर्मसु १३०।
यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् ।
हा तात मातः कांतेति क्रंदत्येवं सुदुःखितः १३१।
मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत् ।
बांधवैः स परित्यक्तः प्रियैश्च परिवारितः १३२।
निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यता ।
खट्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः १३३।
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः ।
खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम् १३४।
विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।
याचमानश्च सलिलं शुष्ककंठोष्ठतालुकः १३५।
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि ।
यमदूतैर्नीयमानः कालपाशेन कर्षितः १३६।
म्रियते पश्यतामेवं गलो घुरुघुरायते ।
जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् १३७।
प्राप्नोत्युत्तरमंगं च देहं त्यजति पूर्वकम् ।
मरणात्प्रार्थनाद्दुःखमधिकं हि विवेकिनाम् १३८।
क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् ।
जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः १३९।
अधिकः कोपरस्तस्माद्यो न यास्यति लाघवम् ।
ज्ञातं मयेदमधुना मृत्योर्भवति यद्गुरुः १४०।
न परं प्रार्थयेद्भूयस्तृष्णालाघवकारणम् ।
आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम् १४१।
निसर्गात्सर्वभूतानामिति दुःख परंपरा ।
वर्तमानान्यतीतानि दुःखान्येतानि यानि तु १४२।
न नरः शोचयेज्जन्म न विरज्यति तेन वै ।
अत्याहारान्महद्दुःखमल्पाहारात्तदंतरम् १४३।
त्रुटते भोजने कंठो भोजने च कुतः सुखम् ।
क्षुधा हि सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः १४४।
सच्छांतौषधलेपेन क्षणमात्रं प्रशाम्यति ।
क्षुद्व्याधि वेदना तीव्रा निःशेषबलकृंतनी १४५।
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्नरः ।
तद्रसेपि हि किं सौख्यं जिह्वाग्रपरिवर्तिनि १४६।
तत्क्षणादर्धकालेन कंठं प्राप्य निवर्तते ।
इति क्षुद्व्याधितप्तानामन्नमोषधवत्स्मृतम् १४७।
न तत्सुखाय मंतव्यं परमार्थेन पंडितैः ।
मृतोपमश्च यः शेते सर्वकार्यविवर्जितः १४८।
तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः ।
प्रबोधेपि कुतः सौख्यं कार्येषूपहतात्मनः १४९।
कृषिवाणिज्यसेवाद्य गोरक्षादि परश्रमैः ।
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया १५०।
तृप्ताः काम्येन बाध्यंते निद्रया निशि जंतवः ।
अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे १५१।
नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम् ।
चौरेभ्यः सलिलेभ्योग्नेः स्वजनात्पार्थिवादपि १५२।
भयमर्थवतां नित्यं मृत्योर्देहभृतामिव ।
खे यथा पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि १५३।
जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् ।
विमोहयंति संपत्सु वारयंति विपत्सु च १५४।
खेदयंत्यर्जने काले कदार्थाः स्युः सुखावहाः ।
प्रागर्थपतिरुद्विग्नः पश्चात्सर्वार्थनिःस्पृहः १५५।
तयोरर्थपतिर्दुःखी सुखी मन्येर्विरक्तधीः ।
वसंतग्रीष्मतापेन दारुणं वर्षपर्वसु १५६।
वातातपेन वृष्ट्या च कालेप्येवं कुतः सुखम् ।
विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः १५७।
सूतिवैषम्यदुःखैश्च दुखं विष्ठादिकर्मभिः ।
दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम् १५८।
गावो नष्टाः कृषिर्भग्ना भार्या च प्रपलायिता ।
अमी प्राघूर्णिकाः प्राप्ता भयं मे शंसिनो गृहान् १५९।
बालापत्या च मे भार्या कः करिष्यति रंधनम् ।
विवाहकाले कन्यायाः कीदृशश्च वरो भवेत् १६०।
एतच्चिंताभिभूतानां कुतः सौख्यं कुटुंबिनाम् १६१।
कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।
अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशनम् १६२।
राज्येपि हि कुतः सौख्यं संधिविग्रहचिंतया ।
पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् १६३।
स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम् ।
एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् १६४।
न प्रविश्य वनं कश्चिन्नृपः ख्यातोस्ति भूतले ।
निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः १६५।
युद्धे बाहुसहस्रं हि पातयामास भूतले ।
श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् १६६।
ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः ।
जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः १६७।
जरासंधेन रामस्य तेजसा नाशितं यशः ।
जरासंधस्य भीमेन तस्यापि पवनात्मजः १६८।
हनुमानपि सूर्येण विक्षिप्तः पतितः क्षितौ ।
निवातकवचान्सर्वदानवान्बलदर्पितान् १६९।
हतवानर्जुनः श्रीमान्गोपालैः स विनिर्जितः ।
सूर्यः प्रतापयुक्तोऽपि मेघैः संछाद्यते क्वचित् १७०।
क्षिप्यते वायुना मेघो वायोर्वीर्यं नगैर्जितम् ।
दह्यंते वह्निना शैलाः स वह्निः शाम्यते जलैः १७१।
तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा ।
त्रैलोक्येन समस्ताश्च नश्यंति ब्रह्मणो दिने १७२।
ब्रह्मापि त्रिदशैः सार्धमुपसंह्रियते पुनः ।
परार्धद्वयकालांते शिवेन परमात्मना १७३।
एवं नैवास्ति संसारे यच्च सर्वोत्तमं बलम् ।
विहायैकं जगन्नाथं परमात्मानमव्ययम् १७४।
ज्ञात्वा सातिशयं सर्वमतिमानं विवर्जयेत् ।
एवंभूते जगत्यस्मिन्कः सुरः पंडितोपि वा १७५।
न ह्यस्ति सर्ववित्कश्चिन्न वा मूर्खोपि सर्वतः ।
यावद्यस्तु विजानाति तावत्तत्र स पंडितः १७६।
समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः ।
वित्तस्यातिशयत्वेन प्रभावः कस्यचित्क्वचित् १७७।
दानवैर्निर्जिता देवास्ते दैवैर्निजिताः पुनः ।
इत्यन्योन्यं श्रितो लोको भाग्यैर्जयपराजयैः १७८।
एवं वस्त्रयुगं राज्ञां प्रस्थमात्रांबुभोजनम् ।
यानं शय्यासनं चैव शेषं दुःखाय केवलम् १७९।
सप्तमे चापि भवने खट्वामात्र परिग्रहः ।
उदकुंभसहस्रेभ्यः क्लेशायास प्रविस्तरः १८०।
प्रत्यूषे तूर्यनिर्घोषः समं पुरनिवासिभिः ।
राज्येभिमानमात्रं हि ममेदं वाद्यते गृहे १८१।
सर्वमाभरणं भारः सर्वमालेपनं मलम् ।
सर्वं प्रलपितं गीतं नृत्यमुन्मत्तचेष्टितम् १८२।
इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः ।
नृपाणां विग्रहे चिंता वान्योन्यविजिगीषया १८३।
प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः ।
स्वर्गं प्राप्ता निपतिताः कः श्रिया विंदते सुखम् १८४।
स्वर्गेपि च कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम् ।
उपर्युपरि देवानामन्योन्यातिशयस्थिताम् १८५।
नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते ।
न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः १८६।
छिन्नमूलतरुर्यद्वद्दिवसैः पतति क्षितौ ।
पुण्यस्य संक्षयात्तद्वन्निपतंति दिवौकसः १८७।
सुखाभिलाषनिष्ठानां सुखभोगादि संप्लवैः ।
अकस्मात्पतितं दुःखं कष्टं स्वर्गेदिवौकसाम् १८८।
इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः ।
क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणाम् १८९।
तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनाम् ।
घोरैश्च विविधैर्भावैर्वाङ्मनः काय संभवैः १९०।
कुठारच्छेदनं तीव्रं वल्कलानां च तक्षणम् ।
पर्णशाखाफलानां च पातश्चंडेन वायुना १९१।
उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः ।
दावाग्निहिमशोषैश्च दुःखं स्थावरजातिषु १९२।
तद्वद्भुजंगसर्पाणां क्रोधे दुःखं च दारुणम् ।
दुष्टानां घातनं लोके पाशेन च निबंधनम् १९३।
अकस्माज्जन्ममरणं कीटानां च मुहुर्मुहुः ।
सरीसृपनिकायानामेवं दुःखान्यनेकधा १९४।
पशूनामात्मशमनं दंडताडनमेव च ।
नासावेधेन संत्रासः प्रतोदेन सुताडनम् १९५।
वेत्रकाष्ठादिनिगडैरंकुशेनांगबंधनम् ।
भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम् १९६।
आत्मयूथवियोगैश्च बलान्नयनबंधने ।
पशूनां संति कायानामेवं दुःखान्यनेकशः १९७।
वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणाम् ।
क्लेशमानाति कायानामेवं दुःखान्यनेकधा १९८।
गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणाम् ।
सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनम् १९९।
यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः ।
कृषिवाणिज्यसेवाद्यैर्गोरक्षादिक कर्मभिः २००।
वृद्धभावे च जरया व्याधिभिश्च प्रपीडनात् ।
मरणे च महद्दुःखं प्रार्थनायां ततोधिकम् २०१।
राजाग्निजलदाघातचौरशत्रु भयं महत् ।
अर्थस्यार्जनरक्षायां भयं नाशे व्यये पुनः २०२।
कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महत् ।
अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां सदा २०३।
भृत्यवृत्तिः कुसीदं च दासत्वं परतंत्रता ।
इष्टानिष्टाभियोगश्च संयोगाश्च सहस्रशः २०४।
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता ।
अधरोत्तरभागश्च नारकं राजविक्रमम् २०५।
अन्योन्याभिभवं दुःखमन्यांन्यतो भयं महत् ।
अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम् २०६।
अनित्यतात्र भावानां कृतकाम्यस्य देहिनः ।
अन्योन्य मर्मभेदाच्च अन्योन्य करपीडनात् २०७।
लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणम् ।
इत्येवमादिभिर्दुःखैर्यस्माद्भीतं चराचरम् २०८।
निरयादि मनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ।
स्कंधात्स्कंधेन यन्भारं विश्रामं मन्यते यथा २०९।
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति ।
अन्योन्यातिशयोपेताः सर्वदा भोगसंप्लवाः २१०।
धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितम् ।
नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात् २११।
रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः ।
यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः २१२।
तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि ।
मार्तंडभानोः कुष्ठं च वरुणस्य जलोदरम् २१३।
पूष्णोदशनवैकल्यं भुजस्तंभः शचीपतेः ।
सुमहान्क्षयरोगश्च सोमस्य परिकीर्तितः २१४।
ज्वरश्च सुमहानासीद्दक्षस्यापि प्रजापतेः ।
कल्पेकल्पे च देवानां महतामपि संक्षयः २१५।
परार्धद्वयकालांते ब्रह्मणश्चाप्यनित्यता ।
दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान्पुनः २१६।
क्रोधेन च जयां देवीं योगज्ञां शप्तवान्प्रभुः ।
कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः २१७।
दुःखानि च समस्तानि संस्थितानि न संशयः ।
विशीर्णजन्ममरणं सर्वाशित्वं हविर्भुजः २१८।
स्त्रीवधः कामसक्तिश्च सारथ्यं पांडवे बले ।
रुद्रेण त्रिपुरं दग्धं दक्षयज्ञो विनाशितः २१९।
स्कंदस्य जन्म वै शुक्रात्क्रीडादीनां सहस्रशः ।
एवं त्रयोपि रागाद्यैर्दोषैर्देवाः समन्विताः २२०।
एभ्यः परः प्रभुः शांतः परिपूर्णः स मुक्तिदः ।
एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम् २२१।
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत् ।
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः २२२।
ज्ञानेन तत्परं ज्ञानं शिवं मुक्तिमवाप्नुयात् ।
समस्तदुःखनिर्मुक्त स्वस्थात्मा स सुखी तदा २२३।
सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते ।
मातलिरुवाच-
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् २२४।
धर्माधर्मविवेको हि सर्वज्ञानसमुद्भवः ।
इंद्रलोके प्रगंतव्यं देवराजस्य शासनात् २२५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृमातृतीर्थमाहात्म्ये षट्षष्टितमोऽध्यायः ६६ ।