पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० पद्मपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

भीष्म उवाच
कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्
तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज१
पुलस्त्य उवाच
तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्
सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्२
तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्
पितॄणां वल्लभं नित्यमृषीणां परमं मतम्३
नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा
तथा मित्रपदं राजंस्ततः केदारमुत्तमम्४
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्५
तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्
गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः६
तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्
यत्र तत्कांचनं दानमष्टादशभुजो हरः७
नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा
तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्८
देवदेवस्य तत्रापि वराहस्य च दर्शनम्
यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्९
कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते
अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः१०
पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः
विरिंचिदर्शनं श्रेष्ठमपवर्गफलप्रदम्११
कृतं नाम महापुण्यं सर्वपापनिषूदनम्
यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः१२
तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा
तुष्यन्ति पितरो नित्यं गंगायमुनसंगमे१३
कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते
अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्१४
नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप
तथा भद्रसरः पुण्यं सरो मानसमेव च१५
मंदाकिनी तथाऽच्छोदा विपाशा च सरस्वती
सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्१६
क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्
तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्१७
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च
गयापिंडप्रदानेन समान्याहुर्महर्षयः१८
एतानि पितृतीर्थानि सर्वपापहराणि च
स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्१९
ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्
संभेदश्चण्डवेगायां तथैवामरकंटकम्२०
कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्
शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्२१
सर्वव्याधिहरंपुण्यंफलंकोटिगुणाधिकम्
श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ२२
कायावारोहणं नाम देवदेवस्य शूलिनः
अवतारं रोचमानं ब्राह्मणावसथे शुभे२३
जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी
शूलतापी पयोष्णी च पयोष्णीसंगमस्तथा२४
महौषधी चारणा च नागतीर्थप्रवर्त्तिनी
महावेणा नदी पुण्या महाशालस्तथैव च२५
गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्
भैरवं भृगुतुंगं च गौरीतीर्थमनुत्तमम्२६
तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्
तथा पापहरं नाम पुण्या वेत्रवती नदी२७
महारुद्रं महालिंगं दशार्णा च महानदी
शतरुद्रा शताह्वा च तथा पितृपदं पुरम्२८
अंगारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ
कालिका च नदी पुण्या पितरा च नदी शुभा२९
एतानि पितृतीर्थानि शस्यंते स्नानदानयोः
श्राद्धमेतेषु यद्दत्तं तदनंतफलं स्मृतम्३०
शतावटा नदी ज्वाला शरद्वी च नदी तथा
द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती३१
नदी मालवती नाम तथा च गिरिकर्णिका
धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा३२
गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा
श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्३३
महेंद्रं च तथा पुण्या पुण्या चापि महानदी
एतेष्वपि सदा श्राद्धमनंतफलदं स्मृतम्३४
दर्शनादपि पुण्यानि सद्यः पापहराणि वै
तुंगभद्रा नदी पुण्या तथा चक्ररथीति च३५
भीमेश्वरं कृष्णवेणा कावेरी चांजना नदी
नदी गोदावरी पुण्या त्रिसंध्या पूर्णमुत्तमम्३६
तीर्थं त्रैयंबकं नाम सर्वतीर्थनमस्कृतम्
यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः३७
श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्
स्मरणादपि पापानि व्रजंति शतधा नृप३८
श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्
तथा मत्स्यनदी कारा शिवधारा तथैव च३९
भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्
पुण्यं रामेश्वरं तद्वद्वेणापुरमलंपुरम्४०
अंगारकं च विख्यातमात्मदर्शमलंबुषम्
वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्४१
गोवर्द्धनं हरिश्चंद्रं पुरश्चन्द्रं पृथूदकम्
सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी४२
नामधेयानि च तथा तथा सौमित्रिसंगतम्
इंद्रनीलं महानादं तथा च प्रियमेलकम्४३
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च
एतेषु सर्वदेवानां सांनिध्यं पठ्यते यतः४४
दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्
बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्४५
तीर्थं पाशुपतं चैव नदी पर्यटिका तथा
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्४६
तथैव पंचतीर्थं च यत्र गोदावरी नदी
युता लिंगसहस्रेण सव्येतर जलावहा४७
जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्
प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी४८
तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्
श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्४९
तथा सहस्रलिंगं च राघवेश्वरमुत्तमम्
सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.50
निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्
तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत् ५१
पुष्करं नाम वै तीर्थं शालग्रामं तथैव च
शोणपातश्च विख्यातो यत्र वैश्वानराशयः ५२
तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च
मलंदरा नदी पुण्या कौशिकी चंद्रका तथा ५३
विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा
कावेरी चोत्तरांगा च तथा जालंधरो गिरिः ५४
एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते
लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च ५५
दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम्
कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा ५६
संसारमोचनं तीर्थं तथैव ऋणमोचनम्
एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते ५७
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च
तथा वसिष्ठतीर्थं च भारतं च ततः परम् ५८
ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च
पिंडारकं च विख्यातं शंखोद्धारं तथैव च ५९
भांडेश्वरं बिल्वकं च नीलपर्वतमेव च
तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम् ६०
वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च
जयंती विजया चैव शुक्लतीर्थं तथैव च ६१
एषु श्राद्धप्रदातारः प्रयांति परमं पदम्
तीर्थं मातृगृहं नाम करवीरपुरं तथा ६२
सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्
तत्र श्राद्धं प्रदातव्यमनंतफलमीप्सुभिः ६३
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ६४
विषयाराधनं पुण्यं नदी या तु पुनःपुना
यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता ६५
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ६६
एषा गाथा विचरति तीर्थेष्वायतनेषु च
सर्वे मनुष्या राजेंद्र कीर्त्तयंतः समागताः ६७
किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः
प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान् ६८
मातामहानामप्येवं श्रुतिरेषा चिरंतनी
गंगायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः ६९
तिलैः सप्ताष्टभिर्वापि दास्यते च जलांजलिम्
अरण्यत्रितये वापि पिंडदानं करिष्यति ७०
प्रथमं पुष्करारण्ये नैमिषे तदनंतरं
धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति ७१
गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा
गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम् ७२
व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति
नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं ७३
कुले तस्य न राजेंद्र प्रेतो भवति कश्चन
प्रेतत्वं मोक्षभावं च पिंडदानाच्च गच्छति ७४
एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ७५
गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते
एकेन पिंडदानेन तृप्तास्ते मोक्षगामिनः ७६
धान्यप्रदानं प्रवरं वदंति वसुप्रदानं च तथामुनींद्राः
गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदंति ७७
सर्वात्मना सुरुचिना महाचल महानदी
ये तु पश्यंति तां गत्वा मानसे दक्षिणोत्तरे ७८
प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं
यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम् ७९
एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया
वागीशोपि न शक्नोति विस्तरात्किमु मानुषः ८०
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः
वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम् ८१
येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते
गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम् ८२
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते
प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ८३
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ८४
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु
अह्नो मुहूर्ता व्याख्याता दशपंच च सर्वदा ८५
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः
मध्याह्नात्सर्वदा यस्मान्मंदी भवति भास्करः ८६
तस्मादनंतफलदस्तत्रारंभो विशिष्यते
खड्गपात्रं च कुतपस्तथा नैपालकंबलम् ८७
रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः
पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः ८८
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः
ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम् ८९
मुहूर्त्तपंचकं चैव स्वधावाचनमिष्यते
विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा ९०
श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः
तिलोदकांजलिर्देयो जलांते तीर्थवासिभिः ९१
सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ९२
ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ९३
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः
सर्वपापोपशांन्त्यर्थमलक्ष्मीनाशनं मतं ९४
इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च
ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशंति तज्ज्ञाः ९५

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे श्राद्धप्रकरणंनाम एकादशोऽध्यायः ११