पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ पद्मपुराणम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →


भीष्म उवाच
सोमवंशः कथं जातः कथयात्र विशारद
तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः१
पुलस्त्य उवाच
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा
अनंतरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः २
यदानंदकरं ब्रह्म भगवन्क्लेशनाशनं
ब्रह्मरुद्रेन्द्रसूर्याणामभ्यंतरमतींद्रियं३
शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः
माहात्म्यं तपसो वापि परमानंदकारकं ४
यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः
तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः ५
अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम्
द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम् ६
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः
गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः७
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ८
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्
स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः९
आरोप्य लोकमनयदात्मीयं स पितामहः
ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्१०
ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च
स्तूयमानस्य तस्याभूदधिकं महदंतरम्११
तेजोवितानादभवद्भुवि दिव्यौषधीगणः
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा१२
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते
वेदधामा रसश्चायं यदिदं मंडलं शुभम्१३
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ१४
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः
ततः शक्तिसहस्राणां सहस्राणि दशैव तु१५
तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः
ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः१६
वरं वृणीष्व चोवाच परमात्मा जनार्दनः
ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्१७
प्रत्यक्षमेव भोक्तारो भवंतु मम मंदिरे
राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः१८
रक्षपालः सुरोस्माकमास्तां शूलधरो हरः
तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना१९
होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्२०
सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः
वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च२१
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता
सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं२२
सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्२३
बृहन्नितंबस्तनभारखेदां पुष्पावभंगेप्यतिदुर्बलांगीं
भार्यां च तां देवगुरोरनंगबाणाभिरामायत चारुनेत्रां२४
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ
सापि स्मरार्ता सहते न रेमे तद्रूपकांत्याहृतमानसैव२५
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि
न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु२६
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव
शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः२७
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः
स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः२८
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः२९
ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव
यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः३०
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः३१
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः
सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः३२
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्३३
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः
शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः३४
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः
ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः३५
अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः३६
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः
पतंति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहंति३७
रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं
तयोर्निपातेन समुद्रभूम्योरथांतरिक्षस्य च भीतिरासीत्३८
तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि
ततः प्रविश्याथ कथंचिदेव निवारयामास सुरैः सहैव३९
अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्४०
पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं
भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्४१
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशांतः
बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः ४२
पुलस्त्य उवाच
ततः संवत्सरस्यांते द्वादशादित्यसन्निभः
दिव्यपीताम्बरधरो दिव्याभरणभूषितः४३
तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः
सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः४४
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः४५
जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली
ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह४६
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा
पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः४७
ततः सा लज्जिता तेषां न किंचिदवदत्तदा
पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना४८
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं
बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले४९
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः
ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.50
पश्यतां सर्वभूतानां तत्रैवांतरधीयत
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्५१
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः५२
हिमवच्छिखरे रम्ये समाराध्य पितामहं
लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा५३
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता५४
सप्तद्वीपावसुमती सशैलवनकानना
धर्मेण पालिता तेन सर्वलोकहितैषिणा५५
चामरग्रहणाकीर्तिः स्वयं चैवांगवाहिका
ब्रह्मप्रसादाद्देवेंद्रो ददावर्द्धासनं तदा५६
धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्
धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः५७
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्
भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः५८
आसनत्रयमानीय दिव्यं कनकभूषणम्
निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः५९
जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति
अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि६०
कामोप्याह तवोन्मादो भविता गंधमादने
कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्६१
धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि
संततिस्तव राजेंद्र यावदाचंद्रतारकम्६२
शतशो वृद्धिमायाति न नाशं भुवि यास्यति
षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसंभवः६३
अचिरादेव भार्यापि वशमेष्यति चाप्सराः
इत्युक्त्वांतर्दधुः सर्वे राजा राज्यं तदान्वभूत्६४
अहन्यहनि देवेंद्रं द्रष्टुं याति पुरूरवाः
कदाचिदारुह्य रथं दक्षिणांबरचारिणा६५
सार्धं शक्रेण सोऽपश्यन्नीयमानामथांबरे
केशिना दानवेंद्रेण चित्रलेखामथोर्वशीम्६६
तं विनिर्जित्य समरे विविधायुधपातनैः
पुरा शक्रोपि समरे येन वज्री विनिर्जितः६७
मित्रत्वमगमत्तेन प्रादादिंद्राय चोर्वशीं
ततःप्रभृति मित्रत्वमगमत्पाकशासनः६८
सर्वलोकेतिशयितं पुरूरवसमेव तम्
प्राह वज्री तु संतुष्टो नीयतामियमेव च६९
सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्
लक्ष्मीस्वयंवरंनाम भरतेन प्रवर्तितम्७०
मेनकां चोर्वशीं रंभां नृत्यध्वमिति चादिशत्
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी७१
सा पुरूरवसं दृष्ट्वा नृत्यंती कामपीडिता
विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्७२
शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले
पंचपंचाशदब्दानि लताभूता भविष्यसि७३
ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं
शापानुभवनांते च उर्वशी बुधसूनुना७४
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे
आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः७५
दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च७६
रजिर्दंडो विशाखश्च वीराः पंचमहारथाः
रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं७७
रजिराराधयामास नारायणमकल्मषं
तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः७८
देवासुरमनुष्याणामभूत्स विजयी तदा
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्७९
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः
ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः८०
अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः८१
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्
नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा८२
स्वामी भव त्वमस्माकं बलनाशय विद्विषः
ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः८३
पुत्रत्वमगमत्तुष्टस्तस्येंद्रः कर्मणा ततः
दत्त्वेंद्राय पुरा राज्यं जगाम तपसे रजिः८४
रजिपुत्रैस्तदाछिन्नं बलादिंद्रस्य वैयदा
यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः८५
राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः
प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः८६
न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप८७
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्
ग्रहशांतिविधानेन पौष्टिकेन च कर्मणा८८
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः
जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्८९
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्९०
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्९१
यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः९२
यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा९३
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता९४
ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्९५
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः९६
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ९७
भारावतारणार्थाय पांडवानां हिताय च
यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः९८
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः९९
शतजितश्च दायादास्त्रयः परमधार्मिकाः
हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.100
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः१०१
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्१०२
वाराणस्यामभूद्राजा कथितः पूर्वमेव हि
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः१०३
दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः१०४
कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः१०५
जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः१०६
दत्तमाराधयामास कार्त्तवीर्योत्रिसंभवम्
तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः१०७
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः
अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्१०८
युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम्
संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्१०९
एतेनेयं वसुमती सप्तद्वीपा सपत्तना
सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता११०
जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः
सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः१११
सर्वे कांचनयूपास्ते सर्वे कांचनवेदिकाः
सर्वे देवैश्च संप्राप्ता विमानस्थैरलंकृतैः११२
गंधर्वैरप्सरोभिश्च नित्यमेवापि सेविताः
यस्य यज्ञे जगौ गाथा गंधंर्वो नारदस्तथा११३
कार्त्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः
न नूनं कार्त्तवीर्यस्य गतिं यास्यंति पार्थिवाः१४
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च
सप्तद्वीपाननुचरन्वेगेन पवनोपमः११५
पंचाशीतिसहस्राणि वर्षाणां च नराधिपः
सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह११६
स एव पशुपालोभूत्क्षेत्रपालः स एव हि
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत्११७
योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा
भाति रश्मिसहस्रेण शारदेनेव भास्करः११८
एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै११९
क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः
ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी१२०
ऊर्मिभ्रुकुटिमाला सा शंकिताभ्येति नर्मदा
एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्१२१
करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ१२२
भवंति लीना निश्चेष्टाः पातालस्था महासुराः
तदूरुक्षोभचकिता अमृतोत्पादशंकिताः१२३
नता निश्चलमूर्द्धानो भवंति च महोरगाः
एष धन्वी च चिक्षेप रावणं प्रति सायकान्१२४
एष धन्वी धनुर्गृह्य उत्सिक्तं पंचभिः शरैः
लंकेशं मोहयित्वा तु सबलं रावणं बलात्१२५
निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबंध तम्
ततो गतोहं तस्याग्रे अर्जुनं संप्रसादयन्१२६
मुमोच राजन्पौत्रं मे सख्यं कृत्वा च पार्थिवः
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः१२७
युगांताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः
अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्१२८
मृधे सहस्रं बाहूनां हेमतालवनं यथा
यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्विभुः१२९
यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय
तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति१३०
छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली
तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः१३१
तस्य रामोथ हंतासीन्मुनिशापेन धीमतः
तस्य पुत्रशतं त्वासीत्पंच तत्र महारथाः१३२
कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल
शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च१३३
जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः
जयध्वजस्य पुत्रस्तु तालजंघो महाबलः१३४
तस्य पुत्राश्शतान्येव तालजंघा इति स्मृताः
तेषां पंचकुलान्यासन्हैहयानां महात्मनाम्१३५
वीतिहोत्राश्च संजाता भोजाश्चावंतयस्तथा
तुंडकेराश्च विक्रांतास्तालजंघाः प्रकीर्तिताः१३६
वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान्
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः१३७
सद्भावेन महाराजः प्रजाधर्मेण पालयन्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्१३८
येन सागरपर्यंता धनुषा निर्जिता मही
यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः१३९
न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः
यथा यष्टा यथा दाता स्वर्गलोके महीयते१४०

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे यदुवंशकीर्तनं नाम द्वादशोऽध्यायः१२