पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९ पद्मपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →


पुलस्त्य उवाच
एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा
मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि१
दशाहं शावमाशौचं ब्राह्मणस्य विधीयते
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि२
शूद्रेषु मासमाशौचं सपिंडेषु विधीयते
नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्३
जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा
अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते४
प्रेताय पिंडदानं तु द्वादशाहं समाचरेत्
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्५
यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते
गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति६
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा
सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्७
ततस्त्वेकादशाहेपि द्विजानेकादशैव तु
गोत्रादिसूतकांते च भोजयेन्मनुजो द्विजान्८
द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्
नावाहनाग्नौकरणं दैवहीनं विधानतः९
एकं पवित्रमेकोर्घ एकः पिंडो विधीयते
उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं१०
स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्
शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः११
अनेन विधिना सर्वमनुमासं समाचरेत्
सूतकांते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्१२
कांचनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्
प्रपूज्य द्विजदांपत्यं नानाभरणभूषितम्१३
उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्
रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्१४
अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्
पाययेदिद्वजदांपत्यं पितृभक्त्या समन्वितः१५
एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः
तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः१६
गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति
वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता१७
ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः
ग्रथितां वसुजालेन शय्यां दांपत्यसेविताम्१८
ये स्पृशंति न जानंतः सर्वे नरकगामिनः
नवश्राद्धेन भोक्तव्यं भुक्त्वा चांद्रायणं चरेत्१९
पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत्
वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा२०
उदकुंभश्च दातव्यो भक्ष्यभोज्यफलान्वितः
यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्२१
ततः संवत्सरे पूर्णे सपिंडीकरणं भवेत्
सपिंडीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः२२
वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः
सपिंडीकरणं श्राद्धं देवपूर्वं नियोजयेत्२३
पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्
गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्२४
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
तद्वत्संकल्प्य चतुरः पिंडान्पितृपरस्तदा२५
ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा
अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्२६
ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु
अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्२७
सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते
पितृष्वेव च दातव्यं तत्पिंडं येषु संस्थितम्२८
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु
त्रिपिंडमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि२९
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्
स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः३०
मृताहे पार्वणं कुर्वन्नधो याति स मानवः
संपृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्३१
आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः
तेनाग्नौकरणं कुर्यात्पिंडांस्तेनैव निर्वपेत्३२
त्रिभिः सपिंडीकरणं मासैक्ये त्रितये तथा
यदा प्राप्स्यति कालेन तदा मुच्येत बंधनात्३३
मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात्
लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिंडभागिनः३४
पिण्डदः सप्तमस्तेषां सपिंडाः सप्तपूरुषाः
भीष्म उवाच
कथं हव्यानि देयानि कव्यानि च जनैरिह३५
गृह्णंति पितृलोके वा प्रायः के कैर्निगद्यते
यदि मर्त्ये द्विजो भुंक्ते हूयते यदि वानले३६
शुभाशुभात्मकाः प्रेतास्तदन्नं भुंजते कथम्
पुलस्त्य उवाच
वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः३७
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः
नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः३८
श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः३९
नामगोत्रास्तदा देशा भवंत्युद्भवतामपि
प्राणिनः प्रीणयत्येतदर्हणं समुपागतं४०
दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः
तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति४१
दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्
श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति४२
पानं भवति यक्षत्वे राक्षसत्वे तथामिषं
दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्४३
मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्
रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता४४
दानशक्तिः स विभवा रूपमारोग्यमेव च
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः४५
आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप४६
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः
पंचभिर्जन्मसंबंधैः प्राप्ता ब्रह्मपरं पदम्४७
भीष्म उवाच
कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्
पंचभिर्जन्मसंबन्धैः कथं कर्मक्षयो भवेत्४८
पुलस्त्य उवाच
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः
नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे४९
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.50
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं
अनावृष्टिश्च महती सर्वलोकभयंकरी५१
गर्गादेशाद्वने दोग्ध्रीं रक्षंति च तपोधनाः
खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं५२
इति चिंतयतां पापं लघुः प्राह तदानुजः
यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां५३
श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः५४
चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः
द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्५५
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु
चकार मंत्रवच्छ्राद्धं स्मरन्पितृपरायणः५६
तदा गत्वा विशंकास्ते गुरवे च न्यवेदयन्
व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां५७
एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः५८
ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः५९
तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः
लोकैरवीक्ष्यमाणास्ते तीर्थांतेनशनेन तु६०
संजाता मृगरूपास्ते सप्त कालंजरे गिरौ
प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्६१
मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः
मानसे चक्रव्राकास्ते संजाताः सप्तयोगिनः६२
नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः
चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः६३
ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः
योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः६४
दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्
क्रीडंतं विविधैर्भोगैर्महाबलपराक्रमम्६५
पञ्चालान्वयसंभूतं प्रभूतबलवाहनम्
राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्६६
पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः
अपरौ मंत्रिणौ दृष्ट्वा प्रभूतबलवाहनौ६७
मंत्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ
विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः६८
मंत्रिपुत्रौ तथा चैव पुंडरीकसुबालकौ
ब्रह्मदत्तोभिषिक्तस्तु कांपिल्ये नगरोत्तमे६९
पंचालराजो विक्रांतः श्राद्धकृत्पितृवत्सलः
योगवित्सर्वजंतूनां चित्तवेत्ताभवत्तदा७०
तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा
सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा७१
पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी
तया चकार सहितः स राज्यं राजनंदनः७२
कदाचिद्गतउद्यानं तया सह स पार्थिवः
ददर्श कीटमिथुनमनंगकलहान्वितम्७३
पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः
पंचबाणाभितप्तांगः सगद्गदमुवाच ह७४
न त्वया सदृशी लोके कामिनी विद्यते क्वचित्
मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी७५
सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी
आलक्ष्यते च वदनं गुडशर्करवत्सलं७६
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि
प्रोषिते मयि दीना त्वं क्रुद्धे च भयचंचला७७
किमर्थं वद कल्याणि सदाधोवदनास्थिता
सा तमाह ज्वलत्कोपा किमालपसि रे शठ७८
त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्
प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः७९
पिपीलक उवाच
त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि
तदेकमपराधं मे क्षंतुमर्हसि भामिनि८०
नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे८१
रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्
तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः८२
पूर्णचंद्रोपमं वक्त्रं स्वादेमृतरसोपमम्
निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा८३
एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि
इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः८४
आत्मानमर्पयामास मोहनाय पिपीलिका
ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्८५
सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः
भीष्म उवाच
कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः८६
तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं
तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्८७
पुलस्त्य उवाच
तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप८८
वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः
धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः८९
नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां९०
यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः
तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः९१
उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष वः पुत्रा पिता तानित्युवाच ह९२
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्
क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च९३
ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु
व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं९४
धनं ग्राम सहस्राणि प्रभाते पठतस्तव
कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये९५
कालंजरे मृगा भूताश्चक्रवाकास्तु मानसे
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः९६
वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये
अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा९७
पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम्
आराधयामास विभुं तीव्रव्रतपरायणः९८
ततः कालेन महता तुष्टस्तस्य पितामहः
वरं वरय भद्रं ते हृदयेभीप्सितं नृप९९
अणुह उवाच
पुत्रं मे देहि देवेश महाबलपराक्रमम्
पारगं सर्वविद्यानां धार्मिकं योगिनां वरम्१०० 1.10.100
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः१०१
पश्यतां सर्वभूतानां तत्रैवांतरधीयत
ततः स तस्य पुत्रोभूद्ब्रह्मदत्तः प्रतापवान्१०२
सर्वसत्वानुकंपी च सर्वसत्वबलाधिकः
सर्वसत्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः१०३
अथ सत्वेन योगात्मा स पिपीलकमागतः
यत्र तत्कीटमिथुनं रममाणमवस्थितम्१०४
ततः सा सन्नतिर्दृष्ट्वा प्रहसंतं सुविस्मितं
किमप्याशंकमाना सा तमपृच्छन्नरेश्वरम्१०५
सन्नतिरुवाच
अकस्मादतिहासोयं किमर्थमभवन्नृप
हास्यहेतुं न जानामि यदकाले कृतं त्वया१०६
अवदद्राजपुत्रोसौ तं पिपीलिकभाषितम्
रागवद्विरसोत्पन्नमेतद्धास्यं वरानने१०७
न चान्यत्कारणं किंचिद्धास्यहेतुः शुचिस्मिते
न सामन्यततं देवी प्राहालीकमिदं तव१०८
अहमेवेह हसिता न जीविष्ये त्वयाधुना
कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते१०९
तस्मात्त्वयाहमेवाद्य हसिता किमतः परम्
ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः११०
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः
स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्१११
वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया
इत्युक्त्वांतर्दधे ब्रह्मा प्रभाते च नृपः पुरात्११२
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः
गदंतं विप्रमायांतं वृद्धं च स ददर्श ह११३
ब्राह्मण उवाच
ये विप्रमुख्याः कुरुजांगलेषु दाशास्तथा दाशपुरे मृगाश्च
कालंजरे सप्त च चक्रवाका ये मानसे तेत्र वसंति सिद्धाः११४
इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः
जातिस्मरत्वमगमत्तौ च मंत्रिवरात्मजौ११५
कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः
पंचाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्११६
पुंडरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः
भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा११७
हा वयं कर्मविभ्रष्टाः कामतः कर्मबंधनात्
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः११८
विस्मयाच्छ्राद्धमाहाम्यमभिनंद्य पुनः पुनः
स तु तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्११९
विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम्
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्१२०
विष्वक्सेनाभिधानं च राजाराज्येभ्यषेचयत्
मानसे सलिले सर्वे ततस्ते योगिनां वराः१२१
ब्रह्मदत्तादयस्तस्मिन्पितृभक्ता विमत्सराः
सन्नतिश्चाभवद्धृष्टा मयैव तव दर्शितम्१२२
राजन्योगफलं सर्वं यदेतदभिलक्ष्यते
तथेति प्राह राजापि पुरस्तादभिनंदयन्१२३
त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलम्१२४
ततस्ते योगमास्थाय सर्व एव वनौकसः
ब्रह्मरंध्रेण परमं पदमापुस्तपोबलात्१२५
एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च
प्रयच्छंति सुतं राज्यं नृणां तुष्टाः पितामहाः१२६
इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप
द्विजेभ्यः श्रावयेद्विद्वान्शृणोति पठतेपि वा
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते१२७
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पितृमाहात्म्यकथनंनाम दशमोऽध्यायः१०