पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

जैमिनिरुवाच-
क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते ।
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः १।
व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले ।
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् २।
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ ।
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ३।
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम ।
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ४।
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम् ।
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ५।
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति ।
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ६।
जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो ।
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ७।
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम् ।
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ८।
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी ।
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ९।
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः ।
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये १०।
व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम् ।
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ११।
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते ।
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा १२।
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम् ।
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् १३।
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे १४।
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम् ।
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने १५।
दैवयोगान्मुने तत्र ये त्यजंति कलेवरम् ।
मनुष्य पशु कीटाद्या लभंते परमं पदम् १६।
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु ।
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते १७।
मनोभद्रो नाम राजा सोमवंश समुद्भवः ।
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्म्मवित् १८।
तस्य हेमप्रभा नाम महिषी प्रियवादिनी ।
पतिव्रता महाभागा सर्वलक्षणसंयुता १९।
स राजा समरे हत्वा सकलानेव शात्रवान् ।
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः २०।
स एकदा महीपालः समाहूय स्वमंत्रिणः ।
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः २१।
मनोभद्र उवाच-।
अमात्याः पृथिवी सर्वा मयेयं परिपालिता ।
निहता रिपवः सर्वे सपुत्रबलवाहनाः २२।
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः ।
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः २३।
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः ।
एतद्धि जरया सर्वं महत्या मे बलं हृतम् २४।
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः ।
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते २५।
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी ।
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले २६।
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा ।
समस्तगुणसम्पन्नामपि तद्गतमानसम् २७।
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा ।
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः २८।
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी ।
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने २९।
मूर्खमात्रवचो ग्राही स नृपः शत्रुनंदनः ।
ततोऽहं सकलं राज्यं विभज्य वरमंत्रिणः ३०।
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते ।
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ३१।
तदेव मतमस्माकं संदेहो नात्र विद्यते ।
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ३२।
वीरभद्र यशोभद्र नामानौ तनयावुभौ ।
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ३३।
पितृभक्तौ सदा शांतौ बलिनौ धर्मतत्परौ ।
ततः स भूपः सहसा राजनीति विदांवरः ३४।
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात् ।
अत्रांतरे गृध्र एकः स्वकीयस्त्री समन्वितः ३५।
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः ।
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ३६।
राजाह युवयोः कस्माच्छुभागमनमुच्यताम् ।
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परंतपः ३७।
आगतोऽस्मि मुदा द्रष्टुं संपदं पुत्रयोस्तव ।
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ३८।
इह जन्मनि संपत्तिं द्रष्टुमावां समागतौ ।
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम् ।
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ३९।
राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया ।
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ४०।
यदि जानासि तत्वेन पूर्ववृत्तांतमेतयोः ।
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ४१।
गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसंज्ञके ।
गरसंगरनामानौ सत्यघोषसुतौ स्थितौ ४२।
एककाले च भूपाल मृतौ निज गृहांतरे ।
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिंकराः ४३।
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः ।
बबंधुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ४४।
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना ।
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ४५।
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम् ।
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ४६।
मूलाद्विचारयामास तत इत्याह चांतकम् ।
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ४७।
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम् ।
स्वयंदानं समुत्सृज्य न हि दत्तं द्विजातये ४८।
तेनैव कर्मणा राजन्निमौ नरकगामिनौ ।
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ४९।
स याति नरकं घोरं सर्वभूतभयावहम् ।
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50।
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ ।
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ५१।
नयंतु किंकराः शीघ्रं नरकं प्रतिदारुणम् ५२।
यमाज्ञया ततो दूताः संदष्टौष्ठपुटाः क्रुधा ।
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ५३।
तस्मिन्नेव दिने राजन्ननया भार्यया सह ।
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ५४।
मयापि तत्कृतं कर्म तदाकर्णय भूपते ।
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ५५।
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः ।
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ५६।
इयं मंजूकषा नाम मम पत्नी यशस्विनी ।
पतिव्रता महाभागा पवित्रकुलसंभवा ५७।
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः ।
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ५८।
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत् ।
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ५९।
ममैव पुंसः पितरौ तौ च पापपरायणौ ।
मुखरौ दययाहीनौ पाखंडिसङ्ग लोलुपौ ६०।
पौरुषं जीवनं चैव धनं चैव कुलं तथा ।
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ६१।
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः ।
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ६२।
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया ।
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ६३।
एताभ्यां सह पापाभ्यां सदारेण मया नृप ।
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ६४।
युगकोटिसहस्राणि युगकोटिशतानि च ।
अनुभूतं महादुःखं नरकस्य नृपोत्तम ६५।
नरकांते ततः सोऽहं कांतया सह भूपते ।
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ६६।
एतावपि च तौ राजन्नरकांत गतैषिणौ ।
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ६७।
यदेताभ्यां कृतं कर्म्म राजञ्छलभजन्मनि ।
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ६८।
एकदा सुमहान्वायुः समायातो महीपते ।
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ६९।
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा ।
जग्मतुः पंचतां सद्यः समस्तकलुषापहम् ७०।
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः ।
आयातानि विमानानि सर्वभोगान्वितानि च ७१।
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ ।
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ७२।
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः ।
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ७३।
भुक्तवंतौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि ।
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुंधराम् ७४।
पवित्रे भवतो वंशे जातावेतौ महायशौ ।
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ७५।
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ ।
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ७६।
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम् ।
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ७७।
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तांतमेतयोः ।
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ७८।
गङ्गामरणमासाद्य गतावेतौ दशामिमाम् ।
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ७९।
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी ।
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ८०।
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा ।
इह संपद्विनाशाय परत्र नरकाय च ८१।
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम् ।
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ८२।
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम् ।
पित्रवज्ञाकुठारेण च्छिंदंति भुवि मानवाः ८३।
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परंतप ।
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ८४।
प्रत्यक्षदेवौ पितरौ सेवंते येत्वहर्निशम् ।
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ८५।
पितृभक्तिविहीना ये दिनं तिष्ठंति मानवाः ।
तावत्कल्पसहस्रं तु तिष्ठंति नरके जनाः ८६।
तस्मादिदं महादुःखं बभूव मम सांप्रतम् ।
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ८७।
व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम ।
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ८८।
राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव ।
मम चैषां च हृदये प्रतीतिर्न हि जायते ८९।
अथांतरिक्षे वागुच्चैरिति जाता नृपोत्तम ।
सत्यं सत्यं सत्यमिदं संदेहोनात्र विद्यते ९०।
ततः स पक्षी विप्रर्षे सहसा भार्यया सह ।
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ९१।
दिवि दुंदुभयो नेदुर्जगुर्गन्धर्वसत्तमाः ।
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ९२।
विमानमागतं दिव्यं सर्वभोगसमन्वितम् ।
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ९३।
अथासौ सर्वगो विप्र प्रियया सह भार्यया ।
सद्यो विमानमारुह्य जगाम भवनं हरेः ९४।
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम ।
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ९५।
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये ।
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ९६।
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम ।
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ९७।
अध्यायमेतत्परमादरेण पठंति ये देवगृहे मनुष्याः ।
शृण्वंति ये च द्विजवर्गभक्ता नश्यंति तेषां दुरितानि सद्यः ९८।
इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३ ।