देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०७

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०६ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०७
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८ →



मन्त्रदीक्षाविधिवर्णनम्

नारद उवाच
 श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् ।
 स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम् ॥ १ ॥
 अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् ।
 विना येन न सिध्येत देवीमन्त्रेऽधिकारिता ॥ २ ॥
 ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च ।
 सामान्यविधिना सर्वं विस्तरेण वद प्रभो ॥ ३ ॥
 श्रीनारायण उवाच
 शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् ।
 देवाग्निगुरुपूजादावधिकारो यया भवेत् ॥ ४ ॥
 दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या ।
 सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः ॥ ५ ॥
 अवश्यं सा तु कर्तव्या यतो बहुफला मता ।
 गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ ॥ ६ ॥
 गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च ।
 स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च ॥ ७ ॥
 कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् ।
 यागमण्डपमासाद्य विशेत्तत्रासने वरे ॥ ८ ॥
 आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् ।
 सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत् ॥ ९ ॥
 वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् ।
 प्रोक्षयेद्‌द्वारमखिलं ततः पूजां समाचरेत् ॥ १० ॥
 ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् ।
 सरस्वतीं नाममन्त्रैः पूजयेद्‌गन्धपुष्पकैः ॥ ११ ॥
 द्वारदक्षिणशाखायां गङ्‌गां विघ्नेशमर्चयेत् ।
 द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥ १२ ॥
 देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः ।
 सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः ॥ १३ ॥
 दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु ।
 अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ॥ १४
 वामशाखां स्पृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा ।
 प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च ॥ १५ ॥
 तेन चार्घ्यजलेनापि नैर्ऋत्यां दिशि पूजयेत् ।
 वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः ॥ १६ ॥
 ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च ।
 तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः ॥ १७ ॥
 सर्वं देवीमयं चेदं भावयेन्मनसा किल ।
 मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छराणुना ॥ १८ ॥
 शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् ।
 हुंमन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः ॥ १९ ॥
 धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः ।
 मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः ॥ २० ॥
 ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने ।
 पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत् ॥ २१ ॥
 विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् ।
 प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम् ॥ २२ ॥
 भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना ।
 ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने ॥ २३ ॥
 न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् ।
 देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः ॥ २४ ॥
 शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः ।
 दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः ॥ २५ ॥
 प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् ।
 मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते ॥ २६ ॥
 ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् ।
 एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने ॥ २७॥
 मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः ।
 अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात् ॥ २८ ॥
 नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः ।
 प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम् ॥ २९ ॥
 वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् ।
 स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः ॥ ३० ॥
 ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् ।
 दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च ॥ ३१ ॥
 वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् ।
 ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥ ३२ ॥
 वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः ।
 नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत् ॥ ३३ ॥
 पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम ।
 अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः ॥ ३४ ॥
 मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले ।
 प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान् ॥ ३५ ॥
 न्यसेत्कलायुतान्मन्त्री संक्षेपात्ता वदाम्यहम् ।
 सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः ॥ ३६ ॥
 दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् ।
 सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि ॥ ३७ ॥
 आत्मानमन्तरात्मानं परमात्मानमेव च ।
 ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना ॥ ३८ ॥
 अमुकासनाय नम इति मन्त्रेण साधकः ।
 आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम् ॥ ३९ ॥
 कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् ।
 मानसैरुपचारैश्च पूजयेत्तां यथाविधि ॥ ४० ॥
 मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः ।
 याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते ॥ ४१ ॥
 श्रीनारायण उवाच
 ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् ।
 चतुरस्रयुतं सम्यङ्‌मध्ये मण्डलमालिखेत् ॥ ४२ ॥
 मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् ।
 षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः ॥ ४३ ॥
 अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् ।
 आधारपात्रमादाय शङ्खस्य मुनिसत्तम ॥ ४४ ॥
 अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले ।
 मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने ॥ ४५ ॥
 अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि ।
 मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः ॥ ४६ ॥
 आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु ।
 दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः ॥ ४७ ॥
 ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् ।
 स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन् ॥ ४८ ॥
 अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने ।
 अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः ॥ ४९ ॥
 शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् ।
 प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत् ॥ ५० ॥
 सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् ।
 विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम् ॥ ५१ ॥
 जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् ।
 ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने ॥ ५२ ॥
 अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः ।
 पूजयेन्मनुना तेन जलं तु सृणिमुद्रया ॥ ५३ ॥
 तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् ।
 षडङ्गानि जले न्यस्य हृदा संपूजयेदपः ॥ ५४ ॥
 अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया ।
 ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत् ॥ ५५ ॥
 शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः ।
 पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः ॥ ५६ ॥
 श्रीनारायणाय उवाच
 ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् ।
 संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः ॥ ५७ ॥
 आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् ।
 आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत् ॥ ५८ ॥
 निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् ।
 तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च ॥ ५९ ॥
 नवरत्‍नोदरं कूर्चयुतं गन्धादिपूजितम् ।
 स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः ॥ ६० ॥
 ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः ।
 मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने ॥ ६१ ॥
 मूलमन्त्रं च सञ्जप्य पूरयेद्‌देवताधिया ।
 अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः ॥ ६२ ॥
 छादयेत्कुम्भवदनं चषकं सफलाक्षतम् ।
 संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत् ॥ ६३ ॥
 प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् ।
 आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम् ॥ ६४ ॥
 ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः ।
 स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत् ॥ ६५ ॥
 पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् ।
 मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत् ॥ ६६ ॥
 वाससी च ततो दद्याद्‌रक्ते क्षौमे सुनिर्मले ।
 नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः ॥ ६७ ॥
 मनुना पुटितैर्वर्णैर्मातृकाया विधानतः ।
 देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत् ॥ ६८ ॥
 गन्धः कालागुरुभवः कर्पूरेण समन्वितः ।
 काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने ॥ ६९ ॥
 कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् ।
 धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः ॥ ७० ॥
 मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा ।
 दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः ॥ ७१ ॥
 प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा ।
 ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च ॥ ७२ ॥
 साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् ।
 दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् ॥ ७३ ॥
 मूर्तिस्थां देवतां तत्रावाह्य संपूज्य च क्रमात् ।
 तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः ॥ ७४ ॥
 पञ्चविंशतिवारं तु पायसेन ससर्पिषा ।
 हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने ॥ ७५ ॥
 गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् ।
 वह्निं विसृज्य हविषा परितो विकिरेद्‌बलिम् ॥ ७६ ॥
 देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् ।
 पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे ॥ ७७ ॥
 दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् ।
 जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते ॥ ७८ ॥
 कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् ।
 रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा ॥ ७९ ॥
 अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् ।
 कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥ ८० ॥
 पश्चाद्‌गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः ।
 तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्‍नतः ॥ ८१ ॥
 श्रीनारायण उवाच
 ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने ।
 प्रवक्ष्यामि समासेन यथाविधि विधानतः ॥ ८२ ॥
 मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः ।
 प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु ॥ ८३ ॥
 अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् ।
 प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः ॥ ८४ ॥
 प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् ।
 आधारशक्तिमारभ्य पीठमन्त्रावसानकम् ॥ ८५ ॥
 तस्मिन्पीठे समावाह्य शिवौ परमकारणौ ।
 गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः ॥ ८६ ॥
 देवीं ध्यायेदृतुस्नातां संसक्तां शङ्‌करेण तु ।
 कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत् ॥ ८७ ॥
 अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् ।
 क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः ॥ ८८ ॥
 संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् ।
 चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत् ॥ ८९ ॥
 सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्‌गुरुः ।
 शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत् ॥ ९० ॥
 अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः ।
 कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः ॥ ९१ ॥
 शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् ।
 आचामयेत्ततो देवं देवीं च जगदम्बिकाम् ॥ ९२ ॥
 चित्पिङ्‌गल हनदहपचयुग्मं ततः परम् ।
 सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने ॥ ९३ ॥
 अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
 सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ ९४ ॥
 मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् ।
 ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः ॥ ९५ ॥
 सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः ।
 धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥ ९६ ॥
 जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् ।
 ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम् ॥ ९७ ॥
 इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् ।
 परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित् ॥ ९८ ॥
 दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ ।
 त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥ ९९ ॥
 यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ ।
 तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने ॥ १०० ॥
 वैश्वानर ततो जातवेदः पश्चादिहावह ।
 लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय ॥ १०१ ॥
 वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् ।
 मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा ॥ १०२ ॥
 रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका ।
 पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम् ॥ १०३ ॥
 दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी ।
 जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ १०४ ॥
 अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
 कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ॥ १०५ ॥
 ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः ।
 लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान् ॥ १०६ ॥
 श्रीनारायण उवाच
 ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च ।
 कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम् ॥ १०७ ॥
 दक्षिणाद्‌घृतभागात्तु वह्नेर्दक्षिणलोचने ।
 जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः ॥ १०८ ॥
 सोमाय स्वाहेति मध्याद्‌घृतमादाय सत्तम ।
 अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः ॥ १०९ ॥
 पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे ।
 अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः ॥ ११० ॥
 सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः ।
 जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम् ॥ १११ ॥
 ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः ।
 गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥ ११२ ॥
 गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।
 जातकर्म नामकर्माप्युपनिष्क्रमणं तथा ॥ ११३ ॥
 अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च ।
 महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम् ॥ ११४ ॥
 गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः ।
 ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत् ॥ ११५ ॥
 जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः ।
 पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत् ॥ ११६ ॥
 घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च ।
 पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥ ११७ ॥
 वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः ।
 महागणेशमन्त्रेण जुहुयादाहुतीर्दश ॥ ११८ ॥
 वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् ।
 वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसंख्यया ॥ ११९ ॥
 मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च ।
 वह्निदेवतयोरैक्यं भावयन्नात्मना सह ॥ १२० ॥
 एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः ।
 षडङ्‌गं देवतानां च जुहुयादाहुतीः पृथक् ॥ १२१ ॥
 एकादशैव जुहुयादाहुतीर्मुनिसत्तम ।
 एतेन नाडीसन्धानं वह्निदेवतयोर्मुने ॥ १२२ ॥
 एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च ।
 एकैकक्रमयोगेन घृतेन जुहुयान्मुने ॥ १२३ ॥
 ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः ।
 देवतामूलमन्त्रेण गजान्तकसहस्रकम् ॥ १२४ ॥
 एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने ।
 तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि ॥ १२५ ॥
 ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् ।
 वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम् ॥ १२६ ॥
 कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् ।
 नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः ॥ १२७ ॥
 कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे ।
 गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत् ॥ १२८ ॥
 तच्चैतन्यं निजे देहे भावयेत्सङ्‌गतं त्विति ।
 ततः शिष्यतनुस्थानामध्वनां परिशोधनम् ॥ १२९ ॥
 कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् ।
 येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे ॥ १३० ॥
 श्रीनारायण उवाच
 तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु ।
 पादयोस्तु कलाध्वानमन्धौ[१] तत्त्वाध्वकं पुनः ॥ १३१ ॥
 नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि ।
 पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि ॥ १३२ ॥
 शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः ।
 शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन् ॥ १३३ ॥
 ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि ।
 षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत् ॥ १३४ ॥
 पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः ।
 आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत् ॥ १३५ ॥
 पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् ।
 पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा ॥ १३६ ॥
 एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि ।
 ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः ॥ १३७ ॥
 नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् ।
 पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः ॥ १३८ ॥
 नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे ।
 भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना ॥ १३९ ॥
 मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः ।
 मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान् ॥ १४० ॥
 पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् ।
 कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः ॥ १४१ ॥
 वर्धनीजलसेकं च कुर्याद्‌रक्षार्थमञ्जसा ।
 ततः शिष्यः समुत्थाय वाससी परिधाय च ॥ १४२ ॥
 कृतभस्मावलेपश्च संविशेद्‌गुरुसन्निधौ ।
 ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम् ॥ १४३ ॥
 प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः ।
 पूजयेद्‌गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः ॥ १४४ ॥
 ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्‌गुरुः ।
 महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन् ॥ १४५ ॥
 अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने ।
 दण्डवत्प्रणमेद्‌भूमौ तं गुरुं देवतात्मकम् ॥ १४६ ॥
 सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः ।
 ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत् ॥ १४७ ॥
 सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः ।
 दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः ॥ १४८ ॥
 कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् ।
 इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः ॥ १४९ ॥
 विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
 नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते ॥ १५० ॥
 वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् ।
 तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी ॥ १५१ ॥
 तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा ।
 श्रीनारायण उवाच
 इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया ॥ १५२ ॥
 अतः परं पराम्बाया भज नित्यं पदाम्बुजम् ।
 नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः ॥ १५३ ॥
 व्यास उवाच
 इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् ।
 समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम् ॥ १५४ ॥
 नारायणस्तु भगवान् मुनिवर्यशिखामणिः ।
 नारदोऽपि ततो नत्वा गुरुं नारायणं परम् ।
 जगाम सद्यस्तपसे देवीदर्शनलालसः ॥ १५५ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
 द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥

वर्गःदेवीभागवतपुराणम्

  1. लिङ्गे